श्रीरामकृष्णवचनामृतम्/५
अध्यायः 5 श्री. बाबुबलरामस्य गृहे श्रीरामकृष्णस्य भक्तैः सह प्रेमानन्देन नृत्यम्। 1 रात्रौ अष्ट नव वा वादनं स्यात्। हुताशनीपूर्णिमायाः अनन्तरम् अष्ट दिनानि अतीतानि। अनन्तरम् एषः प्रसङ्गः घटितः। रामः मनमोहनः राखालः नृत्यगोपालः चेति एतादयः श्रीरामकृष्णं परितः स्थिताः। हरिनामसंकीर्तनं कुर्वन्तः सर्वे मत्ताः जाताः। केषाञ्चन बाह्यभानं गतम्। ते भावावस्थां प्राप्तवन्तः। तस्याम् अवस्थायां राखालस्य वक्षस्थलं रक्तं जातम्। सर्वे उपविष्टाः। मास्तरः श्रीरामकृष्णम् अवन्दत। श्रीरामकृष्णः दृष्टवान् यत् राखालः भूमौ पतितः, भावाविष्टः, बाह्यसंज्ञाशून्यः च। श्रीरामकृष्णः तस्य वक्षसि हस्तं संस्थाप्य ‘शान्तः भवतु’ ‘शान्तः भवतु’ इति वदति। राखालस्य एषा द्वितीयवारं जाता भावावस्था। सः कलकत्तानगरे पितृगृहे निवसति स्म। मध्ये मध्ये श्रीरामकृष्णस्य दर्शनार्थं दक्षिणेश्वरं गच्छति स्म। तदा श्री विद्यासागर-ईश्वरचन्द्रस्य शामपुकुरस्थायां शालायां तस्य शिक्षणं किञ्चित् कालं जातम्। दक्षिणेश्वरे श्रीरामकृष्णः मास्तरम् ‘अहं कलकत्तानगरे बलरामस्य गृहे भविष्यामि तदा भवान् तत्र आगच्छतु’ इति कथितवान् आसीत्। तदनुसारं मास्तरः श्रीदर्शनार्थं तत्र उपस्थितः आसीत्। १८८२ तमवर्षस्य मार्चमासस्य 11तमः दिवसः। शनिवासरः। श्री. बलरामः श्रीरामकृष्णं निमन्त्र्य स्वगृहम् आनीतवान्। अधुना भक्ताः दीर्घीकायाम् उपविश्य प्रसादं भुञ्जन्ते। बलरामः पार्श्वे स्थितः कश्चन दासः इव। एषः एव गृहस्वामी इति कश्चन सकृत् न जानीयात् इति एतावान् तस्य नम्रभावः। मास्तरस्य गमनागमनं नवीनमेव। इतरभक्तैः सह तस्य अभिज्ञानम् अद्यापि न जातम्। दक्षिणेश्वरे केवलं नरेन्द्रनाथेन सह वार्ता जाता आसीत्, तावदेव। 2 सर्वधर्मसमन्वयः। वर्णितप्रसङ्गानन्तरं केचन दिवसाः गताः। श्रीरामकृष्णः दक्षिणेश्वरे शिवमन्दिरस्य सोपाने भावाविष्टावस्थायाम् उपविष्टः अस्ति। सायङ्कालस्य चतुष्पञ्च वादनं स्यात्। मास्तरः पार्श्वे एव उपविष्टः अस्ति। किञ्चित् कालात् प्राक् श्रीरामकृष्णः स्वप्रकोष्ठे भूमौ कटं प्रसार्य विश्रान्तिं कुर्वन् शयानः आसीत्। अद्यापि तस्य समीपे सेवार्थं कश्चन सदा न निवसति स्म। हृदयरामस्य गमनेन सः बहु पीडाम् अन्वभवत्। कलकत्तातः मास्तरः आगतः। तेन सह वार्तां कुर्वन् श्रीराधाकान्तमन्दिरस्य पुरतः शिवालयस्य सोपानम् आगत्य सः उपविष्टः। किन्तु मन्दिरे दृष्टे सति सहसा सः भावाविष्टः जातः। श्रीरामकृष्णः जगज्जनन्या सह संभाषणं कुर्वन् अस्ति। “मातः, प्रत्येकं जनः वदति, यत मम एव घटी सम्यक् प्रवर्तते। ख्रिश्चनब्राह्महिन्दूमुसलमानाः सर्वे वदन्ति यत् मम एव धर्मः सत्यम्। परन्तु मातः, कस्यापि घटी सम्यक् न प्रवर्तते इति दृश्यते। भवतीं यथार्थं कः ज्ञातुं शक्नोति? तथापि व्याकुलाः भूत्वा आर्ततया भवतीं प्रार्थयामहे चेत् भवत्याः कृपा लभ्येत। तदा सर्वैः मार्गैः भवत्याः चरणौ प्राप्तुं शक्यते, इति अपि सत्यम्। मातः, येशुभक्ताः चर्चमध्ये भवत्याः पूजाम् अर्चनां च कथं कुर्वन्ति तद् एकवारं दर्शयतु। किन्तु मातः, अन्तः गमनेन जनाः किं वदिष्यन्ति? कश्चन कोलाहलः भवति चेत्.... तदनन्तरं कालीमन्दिरं प्रवेष्टुम् अवरोधं करिष्यन्ति चेत् कथम्? मास्तु, तर्हि चर्चप्रवेशद्वारात् एव सर्वं दर्शयतु इति पर्याप्तम्। 3 भक्तैः सह भजनानन्दे। गोपालानां प्रेम। ‘प्रेममद्यम्’। इतोपि काचित् घटना। श्रीरामकृष्णः स्वप्रकोष्ठे लघुपर्यङ्के उपविष्टः। आनन्दमूर्तिः। सुहास्यवदनः। मास्तरः श्री. कालीकृष्णेन सह आगतः। ‘स्वमित्रम् आत्मानं कुत्र नयति’ इति कालीकृष्णः स्वल्पम् अपि न जानाति। मास्तरः तम् एतावत् एव कथितवान् यत् मद्यालयं गन्तुम् इच्छति तर्हि चलतु मया सह। तत्र बृहत्कुम्भपूर्णं मद्यं वर्तते। अस्तु। प्रणामानन्तरं मास्तरः श्रीरामकृष्णं मित्रं कथितानि वचनानि निवेदितवान्। श्रुत्वा श्रीरामकृष्णः अहसत्। सः उक्तवान्, ‘भजनानन्दः ब्रह्मानन्दः – एषः आनन्दः, सुरा – प्रेममदिरा। मानवजीवनस्य उद्दिष्टमेव वर्तते भगवत्प्रेम, - ईश्वरे प्रणयः। भक्तेः सारः। ज्ञानविचारेण तस्य अवगमनं अतिदुष्करम्’ इति उक्त्वा सः गीतगानम् आरब्धवान्। - (भावार्थः) - ‘कः जानीयात् काली कथं वर्तते तत् ? षट्दर्शनानि अपि ताम् ज्ञातुं न शक्नुवन्ति। मम मनः एतत् अङ्गीकरोति। परन्तु प्राणानां तु समञ्जनम् अद्यापि न भवति। ते तस्याः दर्शनार्थम् आकुलाः सन्ति। वामनाः भूत्वा अपि चन्द्रमसं धर्तुं ते प्रयतन्ते’। श्रीरामकृष्णः पुनः अभाषत, ‘ईश्वरचरणौ अनुरागः एव जीवनस्य ध्येयम्। वृन्दावने गोपालाः, गोपिकाः, तेषां पुत्रादयः च श्रीकृष्णे यथा प्रीणन्ति स्म तथा प्रेम अपेक्ष्यते। श्रीकृष्णः यदा मथुरां गतवान् तदा गोपालाः तस्य विरहेण गद्गद्स्वराः आर्ततया रोदं रोदम् इतस्ततः वाव्रजन्तः आसन्’ इति उक्त्वा उर्ध्वदृष्टिं कृत्वा सः पुनः गानम् आरब्धवान्। ( भावार्थः) - कमपि युवगोपालं दृष्टवान् अहम्। कस्यचित् कोमलवृक्षस्य शाखां धृत्वा सः स्थितः आसीत्। कश्चन वत्सः तस्य हस्ते आसीत्। ‘त्वं क्व असि’ ‘कान्हा, त्वं क्व असि’ इति सः उदगरत्। परन्तू पूर्णं ‘कान्हा’ इति सः वक्तुं न शक्तवान्। केवलं ‘का’ इति उक्त्वा सः सद्गदितः। नेत्रे अश्रुपूर्णे जाते। श्रीरामकृष्णस्य प्रेमपूर्णं गीतं श्रुत्वा मास्तरस्य नेत्रयोः सहसा अश्रूणि आगतानि।