श्री पुष्पदन्त-मुख...

विकिपुस्तकानि तः

मूलम्
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन।
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण।।
कण्ठस्थितेन पठितेन समाहितेन।
सुप्रीणितो भवति भूतपतिर्महेशः।। ४३।।

पदच्छेदः-
श्री-पुष्पदन्त-मुख-पङ्कज-निर्गतेन।स्तोत्रेण किल्बिष-हरेण हर-प्रियेण।।
कण्ठस्थितेन पठितेन समाहितेन।सुप्रीणितः भवति भूतपतिः महेशः।। ४३।।

अन्वयः-
श्री-पुष्पदन्त-मुख-पङ्कज-निर्गतेन किल्बिष-हरेण हर-प्रियेण स्तोत्रेण कण्ठस्थितेन समाहितेन पठितेन भूतपतिः महेशः सुप्रीणितः भवति।। ४३।।

सरलार्थः-
एतत् स्तोत्रं पुष्पदन्तस्य मुखकमलात् प्रकटितम्।तत् पापनाशकम् अस्ति। शिवस्य प्रियम् अस्ति। मनुष्यः यदि एतत् स्तोत्रं कण्ठस्थं करोति, समाहितः भूत्वा पठति, तर्हि भूतानां पतिः महेशः सन्तुष्टः भवति।४३


।। इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम् ।।


 शिवस्तोत्राणि  शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=श्री_पुष्पदन्त-मुख...&oldid=6195" इत्यस्माद् प्रतिप्राप्तम्