सामग्री पर जाएँ

श्रेष्ठाणुत्वाधिकरणम्

विकिपुस्तकानि तः

अणुश् च । ब्रसू-२,४.१३ ।
वे.- मुख्य: प्राण: अणु:, प्राणत्वात्, इतरप्राणवत्।
पू.- किं नामाणुत्वम्?
वे.- सौक्ष्म्यपरिच्छेदोऽत्र अणुत्वम्, न तु परमाणुतुल्यत्वम्।
पू.- परमाणुतुल्यत्वं प्राणस्य किं न स्वीक्रियते?
वे.- मुख्य: प्राण: पञ्चभिर्वृत्तिभि: सकलं देहं व्याप्नोति।परमाणुतुल्यस्य प्राणस्य एतद् न सम्भवति।अत: अणुत्वं नाम सौक्ष्म्यम्।
पू.- अस्तु।मुख्यप्राणस्य सौक्ष्म्ये किं प्रमाणम्?
वे.- उत्क्रान्ते सति पार्श्वस्थेन अनुपलभ्यमानत्वं प्रमाणम्।यदि मुख्य: प्राण: सूक्ष्मो न स्यात् तर्हि उत्क्रान्तिक्षणे पार्श्वस्थेन जनेन उपलभ्येत। न तथा दृश्यते।अत: मुख्य: प्राण: सूक्ष्म:। पू.- मुख्यप्राणस्य परिच्छेदवत्त्वे किं मानम्?
वे.-प्राणस्य उत्क्रान्तिगत्यागतिप्रतिपादिका: श्रुतय:।परिच्छेदरहितस्य नोत्क्रान्ति: सम्भवति, न गतिर्न चागति:। अत: मुख्य: प्राण: परिच्छेदवानेव अभ्युपेय:।
पू.- ननु प्राणस्य विभुत्वमाम्नायते-
‘सम: प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकै:समोऽनेन सर्वेण’ (बृ. १.३.२२) इत्यत्र। प्लुषिरिति मशकादपि सूक्ष्मो जन्तु:। प्राण: विभु: अस्ति चेदेव प्लुषिण: आरभ्य अनेन सर्वेण सम: भवितुमर्हति, नान्यथा।
वे.- सम:प्लुषिणा इति वचनम् आधिदैविकप्राणविषये अस्ति, न तु आध्यात्मिकप्राणविषये।अपरं च ‘सम: प्लुषिणा’ इत्येतानि साम्यवचनानि।तेन प्रतिप्राणिवर्तिन: प्राणस्य परिच्छेद एव सिद्ध्यति।

द्वितीयाध्याये चतुर्थ: पाद:   ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्