श...

विकिपुस्तकानि तः
Jump to navigation Jump to search

शक्तिः =
ईश्वरसङ्केतः।ईश्वरेच्छा।अभिधा।
यथा ‘भूः’ इति पदात् भूमिरिति अर्थः बोद्धव्यः इति शक्तिः, ईश्वरसङ्केतः, ईश्वरेच्छा, अभिधा वा।

शक्यसम्बन्धः =
लक्षणा।
यथा ‘गङ्गायां घोषः’ इत्यत्र गङ्गापदस्य गङ्गातीरे शक्यसम्बन्धः लक्षणा, वा।
यथा ‘मधुररसः स्निग्धः’ इति अत्र मधुरपदस्य मधुररसवद्द्रव्ये शक्यसम्बन्धो लक्षणा वा।

शङ्का =
सन्देहः।संशयः।
यथा अयं स्थाणुर्वा पुरुषो वेति शङ्का, सन्देहः, संशयः भवति।
यथा इयं शतावरी वा श्वेतमुसली वेति शङ्का, सन्देहः, संशयः भवति।

शब्दः =
पदम्।
यथा कलशः इति घटशब्दस्य घटपदस्य वा अर्थः।
यथा धारि आयुः इति पर्यायशब्दौ पर्यायपदे वा।

शब्दप्रयोगः =
व्यवहारः।
यथा अन्योन्याभावे भेदः इति शब्दप्रयोगः व्यवहारः बा भवति।
यथा आमसंयुक्ते दोषे सामदोषः इति शब्दप्रयोगः,व्यवहारः, वा भवति।

शाब्दज्ञानम् =
शाब्दबोधः।शाब्दबुद्धिः।अन्वयबोधः।वाक्यार्थबोधः।वाक्यार्थज्ञानम्।
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थज्ञानं शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः,वाक्यार्थबोधः, वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

शाब्दबुद्धिः =
शाब्दबोधः।शाब्दज्ञानम्।अन्वयबोधः।वाक्यार्थबोधः।वाक्यार्थज्ञानम् ।
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थज्ञानं शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः,वाक्यार्थबोधः, वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

शाब्दबोधः =
शाब्दज्ञानम्।शाब्दबुद्धिः।अन्वयबोधः।वाक्यार्थबोधः।वाक्यार्थज्ञानम्
यथा ‘चैत्रः पचति’ इति वाक्यात् ‘पाकानुकूलकृत्याश्रयः चैत्रः’ इति वाक्यार्थज्ञानं शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः,वाक्यार्थबोधः, वा भवति।
यथा ‘न नक्तं दधि भुञ्जीत’ इति वचनात् ‘ निशाकालावच्छिन्न-दधिविषयक-भक्षणव्यापारनिष्ठ-निषिद्धताबोधनानुकूलव्यापारवान् ग्रन्थकारः’ इति वाक्यार्थबोधः, शाब्दबोधः, शाब्दज्ञानं, शाब्दबुद्धिः, अन्वयबोधः, वाक्यार्थज्ञानं वा भवति।

शीतत्वम् =
शीतस्पर्शः।
यथा शीतत्वं, शीतस्पर्शो वा अपाम् असाधारणो धर्मः।
यथा शीतत्वं, शीतस्पर्शो वा चन्दनस्य असाधारणो धर्मः

शीतस्पर्शः =
शीतत्वम्।
यथा शीतस्पर्शः, शीतत्वं वा अपाम् असाधारणो धर्मः।
यथा शीतस्पर्शः, शीतत्वं वा चन्दनस्य असाधारणो धर्मः।

शून्यत्वम् =
अत्यन्ताभावः ।रहितत्वम् ।
यथा - भूतले घटशून्यत्वं, घटात्यन्ताभावः , घटरहितत्वं , वा विद्यते ।
यथा पुरुषे स्तन्यशून्यत्वं, स्तन्यात्यन्ताभावः, स्तन्यरहितत्वं. वा विद्यते।

श्रावणत्वम् =
श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।श्रोत्रग्राह्यत्वम्।
यथा शब्दे श्रावणत्वं, श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, श्रोत्रग्राह्यत्वं वा विद्यते।
यथा कासिनः भिन्नकांस्यस्वनतुल्यघोषे श्रावणत्वं, श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, श्रोत्रग्राह्यत्वं वा विद्यते।

श्रावणत्वम् =
श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वम्।
यथा शब्दप्रत्यक्षज्ञाने श्रावणत्वं, श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।
यथा कासिनः भिन्नकांस्यस्वनतुल्यघोषः वैद्येन श्रूयते तदा घोषस्य ज्ञाने श्रावणत्वं,श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।

श्रोत्रग्राह्यत्वम् =
श्रावणत्वम्।श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।
यथा शब्दे श्रोत्रग्राह्यत्वं, श्रावणत्वं,श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।
यथा कासिनः भिन्नकांस्यस्वनतुल्यघोषे श्रोत्रग्राह्यत्वं, श्रावणत्वं , श्रोत्रेन्द्रियग्राह्य-प्रत्यक्षविषयत्वं वा विद्यते।

श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वम् =
श्रावणत्वम्।श्रोत्रग्राह्यत्वम्।
यथा शब्दे श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, श्रावणत्वं, श्रोत्रग्राह्यत्वं वा विद्यते।
यथा कासिनः भिन्नकांस्यस्वनतुल्यघोषे श्रोत्रेन्द्रियग्राह्यप्रत्यक्षविषयत्वं.श्रावणत्वं. श्रोत्रग्राह्यत्वं वा विद्यते।

श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वम् =
श्रावणत्वम्।
यथा शब्दप्रत्यक्षज्ञाने श्रावणत्वं, श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।
यथा कासिनः भिन्नकांस्यस्वनतुल्यघोषः वैद्येन श्रूयते तदा घोषस्य ज्ञाने श्रोत्रेन्द्रियजन्यप्रत्यक्षत्वं , श्रावणत्वं वा विद्यते।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=श...&oldid=6467" इत्यस्माद् प्रतिप्राप्तम्