सामग्री पर जाएँ

षड्रसविज्ञान-प्रस्तावना

विकिपुस्तकानि तः

प्रत्येकं वैद्यकशास्त्रेण येन केन रूपेण आहारस्य चिन्तनं कृतम् इति दृश्यते।आयुर्वेदशास्त्रे अपि आहारस्य गाढं चिन्तनं दृश्यते। तत्र अन्यतमः चिन्तनविषयः नाम आहारस्य भेदाः।आहारस्य नाना भेदकोपाधिम् अनुसृत्य भेदाः कृता: आयुर्वेदज्ञैः। तेषु अन्यतमः भेदकोपाधिः आहार-रसः।
अयमेव अस्य ग्रन्थस्य विषयः।अनेन ग्रन्थेन वाचकानां आहाररसविषये सामान्यज्ञानं भविष्यति। स्वस्य आहारस्य निर्धारणं कर्तुं तेषां साहाय्यं भविष्यति। विशेषज्ञानाय तु वैद्यकग्रन्थाः एव आदरणीयाः।
‘रसनार्थो रसः’ इति रसस्य लक्षणम्। रसनेन्द्रियेण ग्राह्यः आहारगुणः नाम रसः। वयं यद् यत् खादामः तस्य कश्चन रसः विद्यते एव।सः रसः क्वचिद् व्यक्तः स्यात्, क्वचिद् अव्यक्तः स्यात्। अव्यक्तरसस्य अनुरसः इति संज्ञा भवति।आमलकफलं खादामः चेत् तत्र विद्यमानः मधुररसः व्यक्ततया न प्रतीयते। तदुपरि जलं पिबामः चेत् माधुर्यस्य अनुभूतिः भवति। आमलके माधुर्यम् अव्यक्तम् अस्ति, जलपानेन तद् व्यक्तं भवति इत्यस्य अनुभवस्य अर्थः।
आयुर्वेदशास्त्रे षड् रसाः मताः- मधुरः, अम्लः, लवणः. कटुः, तिक्तः, कषायः च।प्रत्येकं खाद्ये पेये वा एतेषु कश्चन रसः अस्ति। क्वचिद् एकस्मिन् एव खाद्यद्रव्ये अधिकाः अपि रसाः सम्भवन्ति। एतादृशा: रससंयोगा: नैके सम्भवन्ति, तथापि मूलत: रसा: षड् एव सन्ति।
एतेषां षण्णां रसानां बहु विस्तरेण वर्णनम् आयुर्वेदस्य संहितासु विद्यते।सामान्यजनस्य कृते तत् सर्वं नावश्यकम्।तस्य जिज्ञासापूर्तये यावद् आवश्यकं तावद् अस्मिन् पुस्तके भविष्यति।तत्र मुख्यतः एते बिन्दवः भविष्यन्ति –

१ अस्य रसस्य जनकः महाभूतसंयोगः कः?
२ मुखे स्थापिते सति अयं रसः किं करोति?
३ अस्य रसस्य पचनोत्तरं विपाकः कीदृशः भवति?
४ रसः अयं शीतः अथवा उष्णः?
५ त्रिषु दोषेषु अस्य रसस्य परिणामाः के भवन्ति?
६ सप्तसु धातुषु अस्य रसस्य परिणामाः के भवन्ति?
७ मलेषु अस्य रसस्य परिणामाः के भवन्ति?
८ कस्मिन् रोगे अयं रसः चिकित्सारूपेण उपयुज्यते?
९ अस्य रसस्य अतिमात्रया सेवनेन काः हानयः सम्भवन्ति?
१० अयं रसः केषु द्रव्येषु विद्यते?
अस्य वर्णनस्य आधारेण प्रत्येकं जनः स्वस्य आहारस्य रसशः गणनं कर्तुं शक्नुयात्।


षड्रसविज्ञानम्