संज्ञामूर्तिकॢप्त्यधिकरणम्
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ब्रसू-२,४.२० ।
विषय: - सत्प्रकरणे तेजोबन्नानां सृष्टि: उक्ता।तत: उक्तं, -
‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता: अनेन जीवेन आत्मना अनुप्रविश्य व्याकरवाणीति।तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति’ (छा.६.३.२)
अत्र संशय उद्भवति यद् -
विशय:- इदं नामरूपव्याकरणं,तद् जीवकर्तृकम् आहोस्विद् ईश्वरकर्तृकम्?
पूर्वपक्ष:- अनेन जीवेन आत्मना इति विशेषणात् जीवकर्तृकम् इदं नामरूपव्याकरणम्।
वेदान्ती- परमत्र देवता ईक्षते ‘अहं करवाणि’ इति। तथापि जीवकर्तृकं कथम् अङ्गीक्रियते?
पू.- यथा कश्चिद् राजा वदति, ‘चारेण अहं परसैन्यमनुप्रविश्यसङ्कलयामि’ तथैव एतद्वचनं देवताया:।चारकृतं कर्म यथा राजा आत्मनि अध्यारोपयति, तथा जीवकृतं नामरूपव्याकरणं देवता आत्मनि आरोपयति।तस्मात् जीवकर्तृकम् इदं नामरूपव्याकरणम्।
वे.- तुशब्देन पूर्वपक्षव्यावर्तनं क्रियते।संज्ञेति नाम।मूर्तिरिति रूपम्।क्लृप्ति: व्याकरणम्। संज्ञामूर्तिक्लृप्ति: इत्युक्ते नामरूपव्याकरणम्।त्रिवृत्कुर्वत: इति परमेश्वरस्य निर्देश:।यतो हि त्रिवृत्करणे परमेश्वरस्य कर्तृत्वं वादातीतम्।य: तेजोबन्नानां सृष्टिं चकार, स परमेश्वर एव नामरूपव्याकरणं चकार इति सूत्रस्य आशय:।तदर्थं हेतुरुपन्यस्त: ‘उपदेशाद्’ इति।
१ सेयं देवतैक्षत इति उपक्रम: अस्ति।
२ व्याकरवाणि इति उत्तमपुरुषस्य निर्देश: अस्ति।
तेन परस्य एव ब्रह्मण: व्याकर्तृत्वम् इहोपदिश्यते।
पू.- ननु ‘जीवेन’ इति विशेषणात् जीवकर्तृकं नामरूपव्याकरणम् इति स्पष्टम्।
वे.- ‘जीवेन’ इत्यस्य अन्वय: ‘अनुप्रविश्य’ इति अनया क्रियया सह विद्यते, न तु ‘व्याकरवाणि’ इत्यनया क्रियया सह।
पू.- कात्र विनिगमना?
वे.- आनन्तर्यम्। ‘जीवेन’ इति पदादनन्तरम् ‘अनुप्रविश्य’ इति पदं श्रूयते। अत: ‘जीवेनानुप्रविश्य’ इत्येवान्वय उचित:।
पू.- भवतु दूरस्थपदेन अन्वय:।का हानि:?
वे.-यदि ‘जीवेन व्याकरवाणि’ इति अन्वय: स्वीक्रियते, तर्हि व्याकरणं जीवकर्तृकं भविष्यति। व्याकरवाणि इदि पदे श्रुत: उत्तमपुरुष: औपचारिक: स्यात्।जीवस्य व्याकरणं मुख्यं स्यात्।न च तथा दृश्यते।गिरिसरित्समुद्रादीनां नामरूपव्याकरणे जीवस्य सामर्थ्यं नास्तीति न: प्रत्यक्षम्।
पू.- गिरिसरित्समुद्रादीनां नामरूपे जीवस्य सामर्थ्यं नास्तीति दोष: अस्ति चेत् घटशरावादीनां नामरूपव्याकरणे ईश्वरस्य कर्तृत्वं नास्तीति ईश्वरकर्तृत्वपक्षे दोष: अस्ति।
वे.- न दोष:।यतो हि जीवस्य एतद् दृश्यमानं कर्तृत्वम् ईश्वरस्यैव, ‘आत्मना’ इति विशेषणात्। दृष्टान्ते चार: राज्ञोऽत्यन्तं भिन्न:, अत: चारकर्म राजकर्म भवितुं नार्हति।न च प्रकृते जीव: परमेश्वरादत्यन्तं भिन्न:।जीवत्वमौपाधिकम्।अत: जीवकृतमपि नामरूपव्याकरणमीश्वरस्यैवेति अध्यवसेयम्।
सर्वासामुपनिषदां सिद्धान्तोऽप्येवमेव वर्तते,यत् परमेश्वर: एव नामरूपयो: व्याकर्तेति। ‘आकाशो ह वै नामरूपयोर्निर्वहिता’ (छा. ८.१४.१)
मांसादि भौमं यथाशब्दमितरयोश् च । ब्रसू-२,४.२१ ।
वे.- तेजोबन्नानां त्रिवृत्करणमुक्तम्।अनन्तरं पुन: तासां त्रिवृत्कृतानाम् अध्यात्मम् अपरं त्रिवृत्करणमुक्तम्-
‘ इमास्तिस्रो देवता: पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति’।(छा.६.४.७)
तस्य विवरणम् अस्मिन् सूत्रे विद्यते।भौममिति भुमे: कार्यं तच्च मांसादि।भूमे: कार्यं मांसादि यथाशब्दं निष्पद्यते इति सूत्रार्थ:।यथाशब्दमिति श्रुते: शब्दमनृसृत्य।स च शब्द: एवम्-
अन्नमशितं त्रेधा विधीयते।तस्य य: स्थविष्ठो धातु:, तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मन:।(छा.६.५.१)
अत्र अन्नशब्देन व्रीहियवादिरूपा त्रिवृत्कृता भूमिरेवोच्यते।यथा भूमे: तथा इतरयो: अप्तेजसो: अपि यथाशब्दम् अध्यात्मं त्रिवृत्करणं भवति। तच्च एवम्- मूत्रं लोहितं प्राणश्चापां कार्यम्।अस्थि मज्जा वाक्तेजस: कार्यम्।
वैशेष्यात् तु तद्वादस् तद्वादः । ब्रसू-२,४.२२ ।
पूर्वपक्ष:- यदि सर्वं भूतं त्रिवृत्कृतं सर्वं भौतिकं चापि त्रिवृत्कृतं तर्हि ‘इदं तेज इमा आप इदमन्नम्’ इति भूतेषु विशेषव्यपदेश: कथमिव युज्येत?
वे.- तुशब्देन दोषोऽयमपनुद्यते।विशेषस्य भावो वैशेष्यम्।भूयस्त्वम् इत्यर्थ:।सत्यपि त्रिवृत्करणे भूतेषु भौतिकेषु च भूयस्त्वमनुलक्ष्य तेजोबन्नविशेषवादो युज्यते।
पू.- तद्वादस्तद्वाद: इति अभ्यास: किम्प्रयोजन:?
वे.- अभ्यासोऽयमध्यायपरिसमाप्तिद्योतनार्थ:।
द्वितीयाध्याये चतुर्थ: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्