संनद्धः... पातु सलक्ष्मणः

विकिपुस्तकानि तः

मूलम्
संनद्धः कवची खड्गी चापबाणधरो युवा । गच्छ्न् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२१॥


पदच्छेदः
संनद्धः कवची खड्गी चापबाणधरः युवा । गच्छ्न् मनोरथः अस्माकं रामः पातु सलक्ष्मणः ॥२१॥

अन्वयः
संनद्धः, कवची, खड्गी, चापबाणधरः, युवा, अस्माकं मनोरथः,गच्छ्न् सलक्ष्मणः रामः पातु ॥२१॥

सरलार्थः
सन्धिविग्रहः २१

सन्धिः विग्रहः सूत्रम्
चापबाणधरो युवा चापबाणधरस् युवा ससजुषो रुः।८.२.६६

हशि च।६.१.११२

मनोरथोऽस्माकं मनोरथस् अस्माकं ससजुषो रुः।८.२.६६

अतो रोरप्लुतादप्लुते।६.१.१११
आद्गुणः। आद्गुणः।६.१.८६
एङःपदान्तादति।६.१.१०७

मनोरथः मनस् रथ: ससजुषो रुः।८.२.६६

हशि च।६.१.११२

समासविग्रहः २१
चापबाणधरः
चापः च बाणः च चापबाणौ।... चार्थे द्वन्द्वः।२.२.२९
चापबाणौ धरतीति चापबाणधरः।...उपपदमतिङ्।२.२.१९

मनोरथः
मनः रथः इव मनोरथः।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

सलक्ष्मणः
सह लक्ष्मणेन विद्यते इति सलक्ष्मणः।...तेन सहेति तुल्ययोगे।२.२.२८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्