सङ्ख्योपसङ्ग्रहाधिकरणम्

विकिपुस्तकानि तः

न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च।१.४.११
पू.- ‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित:।तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्।(बृ. ४.४.१७)इत्यत्र पञ्च पञ्चजना इति प्रयोगेण पञ्चविंशति: तत्त्वानि उक्तानि| अत: पञ्चविंशतिसङ्ख्यया पञ्चविंशतितत्वानामुपसङ्ग्रह: कार्य:।तेन साङ्ख्यानां पञ्चविंशति: तत्त्वानि श्रुत्युक्तानीति सिद्धम्।
वे.- न। नानाभावात्।साङ्ख्योक्तानि २५तत्त्वानि नाना।न तेषां पञ्चश: पञ्चश: कश्चित्साधारण-धर्मोऽस्ति। अत: पञ्च पञ्चजना: इति प्रयोगेण तेषां २५तत्त्वानां प्रत्यभिज्ञा न भवति।
सङ्ख्यातिरेक इत्यपि अत्र दोष उद्भवति।साङ्ख्ये आत्मा चाकाशं च पञ्चविंशतितत्त्वान्तर्गते तत्त्वे। अत्र तु ते २५तत्त्वेभ्य: अतिरिक्ते गणिते। अत: अपि पञ्च पञ्चजना: इति प्रयोगेण तेषां २५तत्त्वानां प्रत्यभिज्ञा न भवति।
जनशब्दोऽयं न तत्त्वेषु रूढ:।अत: अत्र अत: पञ्च पञ्चजना: इति अनेन साङ्ख्योक्तानि २५तत्त्वानि न ग्राह्याणि ।
पू. तर्हि पञ्च पञ्चजना: के?

१.४.१२
वे.- सत्यं, जनशब्द: प्राणादिषु अप्रसिद्ध:।परं जनशब्द: साङ्ख्योक्तेषु २५तत्त्वेष्वपि अप्रसिद्ध:।अत: समाने प्रसिद्धिव्यतिक्रमे, वाक्यशेषवशात् जनशब्द: प्राणादिषु ग्रहीतव्य:।
पू.- केचित् पञ्चजना: इत्यनेन देवा: पितरो गन्धर्वा: असुरा: रक्षांसि इति गृह्णन्ति।अन्ये निषादपञ्चमान् चतुरो वर्णान् गृह्णन्ति। तत्कथं भवद्भि: प्राणादयो गृह्यन्ते?
वे.- नेह कश्चिद्विरोध:।

ज्योतिषैकेषामसत्यन्ने।१.४.१३
पू.- पञ्चजना: इत्यनेन प्राणादयो गृह्यन्ते चेदस्तु, परं काण्वानां पाठे प्राणादयश्चत्वार एव सन्ति। तत्र अन्नस्य समावेशो नास्ति। तेषां पञ्चसङ्ख्या कथं पूर्येत?
वे.- पूर्वमन्त्रागतेन ज्योतिषा तेषां पञ्चसङ्ख्या पूर्येत।‘यस्मिन् पञ्च पञ्चजना: इत्यत: पूर्वं काण्वा: ब्रह्मस्वरूपनिरूपणायैव ‘तद्देवा ज्योतिषां ज्योति:’ इति आमनन्ति।तत्रत्यज्योतिषा तेषां पञ्चसङ्ख्यापूर्ति:।
पू.- काण्वा: माध्यन्दिनाश्च ‘तद्देवा... ’ इति मन्त्रमामनन्ति।उभयत्र पञ्चजना: इत्यस्य पदस्य अर्थविषये विवक्षा विद्यते। कथं तर्हि काण्वानामेव ज्योतिषा पञ्चेति सङ्ख्या पूर्यते, न माध्यन्दिनानाम् ?
वे.- अपेक्षाभेदात्।माध्यन्दिनानां पञ्चसङ्ख्यापूर्ति: ‘प्राणस्य प्राणम् ...’ इत्युत्तरमन्त्रेण भवति अत: तेषां नास्त्यपेक्षा मन्त्रान्तरपठितज्योतिर्विषये।
काण्वानां तु प्राणस्य ... इति मन्त्रेण पञ्चेति सङ्ख्याया: पूर्तिर्न भवति। अत: तेषां ज्योतिषि अपेक्षा विद्यते।
एवं प्रधानं तथा २५ साङ्ख्योक्तानि तत्त्वानि श्रुतिप्रसिद्धानीति मतं निराकृतम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     प्रथमाध्याये चतुर्थ: पाद: