सज्जनदुर्जनविषये बाणमतानि

विकिपुस्तकानि तः

प्रश्न:- कादम्बर्या: आरम्भपद्येषु बाणेन सज्जनदुर्जनविषये कानि मतानि प्रकटितानि?
उत्तरम्-
कादम्बर्या: आरम्भपद्येषु बाणेन सज्जनदुर्जनविषये प्रकटितानि मतानि इत्थम्-
अकारणाविष्कृतवैरदारुणादसज्जनात् कस्य भयं न जायते।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं सन्निहितं सदा मुखे॥
अकारणं वैराविष्करणम् इति दुर्जनस्य स्वभावः।तादृशात् दुर्जनात् सर्वेषाम् एव भयं भवति।महासर्पस्य मुखे सदैव विषं वर्तते।तथैव दुर्जनस्य मुखे सदैव दुर्वचनं विद्यते।

कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव॥
दुर्जनाः कटु भाषन्ते, मिथ्या आरोपं कुर्वते।यथा बन्धनशृङ्खला तथा दुर्जनाः सततं तुदन्ति। सज्जनाः तु तद्विपरीताः।ते तु साधु वदन्ति।तेषां पदे श्रुते सति यथा मणिनूपुराणां रवेण मनः आह्लादितं भवति तथा सज्जनानां वचनाकर्णनेन मनः आह्लादितं भवति।

सुभाषितं हारि विशत्यधो गलान्नो दुर्जनस्यार्करिपोरिवामृतम्।
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम्॥
राहोः कण्ठात् अमृतम् अधः न गतम्। तथैव मनोहरम् अपि सुभाषितं दुर्जनस्य गलात् अधः न विशति।यथा विष्णुः महारत्नं हृदये धारयति। तथा सज्जनः सुभाषितं हृदये धारयति।अतः राहु-विष्ण्वोः यथा अन्तरं तथैव सज्जन-दुर्जनयोः अन्तरम्।

.......................

कादम्बरीप्रश्नोत्तरसङ्ग्रह: