सामग्री पर जाएँ

सदसत्त्वानधिकरणरूपं मिथ्यात्वम्…

विकिपुस्तकानि तः

सदसत्वायानधिकरणरूपं मिथ्यात्वम् आक्षेपपुरस्सरं स्पष्टीकुरुत।
सन्दर्भ:-
मिथ्याशब्दोऽनिर्वचनीय: इति पञ्चपादिकावचनमस्ति।तदाधारेण इदमुच्यते यद्-
मिथ्यात्वं नाम सदसत्त्वानधिकरणम्।
स्पष्टीकरणम्- अस्मिन् मते आक्षेपा: एवम्-
१ सदसत्त्वानधिकरणम् इत्यस्य क: अर्थ: अभिप्रेत:? असत्त्वविशिष्टसत्त्वाभाव: इत्यस्य अर्थ: अभिप्रेत: चेद् स: विशिष्टाभाव: भवति। अस्माकं मते जगत् सत्त्वमात्राधारम्। तत्र असत्त्वविशिष्टस्य सत्त्वस्य अभाव: अस्माभि: अपि अनुमन्यते। अत: असत्त्वविशिष्टसत्त्वाभाव: जगति अस्ति इति वचने सिद्धसाधनदोष: भवति।
२.१ सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयं नाम सदसत्त्वानधिकरणम् इति अर्थ: अभिप्रेत: वा?
तथा चेद् व्याघातदोषोऽत्र स्फुट:।यतो हि सत्त्वात्यन्ताभाव: नाम असत्त्वम्, असत्त्वात्यन्ताभाव: नाम सत्त्वम्।उभयो: धर्मयो: एकत्रावस्थानं न शक्यम्।
२.२ निर्धर्मके ब्रह्मणि उभयो: एकत्रावस्थानमस्ति अत: जगति अपि तयो: एकत्रावस्थानं शक्यम् इति वक्तुं न युज्यते।सद्रूपं ब्रह्म तात्त्विकमस्ति।तत्र तात्त्विकत्वाविरोधेन यदि सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयं तिष्ठति तर्हि तथैव प्रपञ्चे अपि तात्त्विकत्वाविरोधेन सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयं तिष्ठति इति प्रपञ्चस्य तात्त्विकत्वं सिद्ध्यति। तेन अर्थान्तरदोष: आपतति। प्रपञ्चस्य मिथ्यात्वं साधयितुं प्रतिज्ञां कृतवत: अद्वैतिन: प्रपञ्चस्य तात्त्विकत्वम् आपतितम्।
२.३ सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयं मिथ्यात्वस्य लक्षणं कृतं परं शुक्तिरजते तद् न घटते। यस्य बाध: न भवति, तत् सत्।यस्य बाध: भवति, तत् असत्। शुक्तिरजतस्य बाध: भवति।अत: तत् असत्। इदानीं तत्र ‘यस्य बाध: न भवति, तत् सत्’ इति एष: सत्त्वधर्म: कथं वा स्यात्? अत: साध्यवैकल्यमिति दोष: भवति।
३सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभाववत्त्वं विशिष्टमिति सदसत्त्वानधिकरणम् इति अस्य अर्थ: अभिप्रेत: वा ?

तथा सति व्याघात:, अर्थान्तरं तथा साध्यवैक्यमिति उपर्युक्ता: दोषा: अस्मिन् पक्षे अपि सन्ति।
समाधानम्।
सदसत्त्वानधिकरणम् इति अस्य सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयम् इति अर्थ: अभिप्रेत:।अस्मिन्पक्षे व्याघातदोषो न सम्भवति।सत्त्वासत्त्वयो: परस्पराभावरूपता अथवा सत्त्वासत्त्वयो: परस्पराभावव्यापकता अस्ति चेदेव व्याघातदोष: सम्भवति। सत्त्वासत्त्वयो: परस्पराभावरूपता परस्पराभावव्यापकता वा अस्मन्मते नाङ्गीकृता।
यत् त्रिकालाबाध्यं तत् सत्।
यत् क्वचिदप्युपाधौ सत्त्वेन अप्रतीयमानं तद् असत्।
एवं सति सदसत्त्वानधिकरणं नाम -
त्रिकालाबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वं मिथ्यात्वम्
इति फलितम्।
एवं च सति शुक्तिरजते साध्यवैकल्यं न भवति।यथा निर्धर्मकब्रह्मण: अमिथ्यात्वं तथा प्रपञ्चस्यापि सदसत्त्वानधिकरणस्य अमिथ्यात्वम् इति अर्थान्तरदोषो न सम्भवति।यतो हि ब्रह्मण: यथा सर्वानुगतस्य प्रतीति: भवति तथा घटादीनां सर्वानुगता सत्प्रतीति: न भवति।अत: ‘प्रपञ्च: सत्’ इति अत्र प्रमणाभाव:।
एवं सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टं साध्यम् अपि साधु। तत्रापि अनया सरण्या एव व्याघात-साध्यवैकल्यादयो दोषा: निराक्रियन्ते।

वर्ग: अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह: