सदस्यसम्भाषणम्:Yoges yog
विषयः योज्यताम्नमो नमः योगेशयोग महोदय, भवतः स्वागतम्। भवतः संस्कृतप्रेम तथा च परिश्रमः सर्वथैव साधुवादार्हाः। अहमत्र द्वित्रान् विषयान् सूचयितुमिच्छामि। भवता विकिबुक्स् इत्यत्र ये केऽपि प्राचीनग्रन्थाः स्थाप्यन्ते, ते तु अत्र न भवितव्याः। तेषां समीचीनस्थानं विकिस्रोतः इत्यस्ति। विकिबुक्स्, विकिस्रोतश्च एते द्वे भिन्ने परियोजने किमर्थं स्तः अत्राहं स्पष्टीकरोमि। विकिस्रोतः इत्यत्र प्राचीनग्रन्थानां अथवा प्रतिलिप्यधिकारमुक्तग्रन्थानां (कॉपीराइट-फ्री इति) लेखनं करणीयम् अस्ति। परन्तु विकिबुक्स् इत्यत्र सदस्यानां परस्परसहयोगेन रचितानि पुस्तकानि स्थास्यन्ति इति। पुनश्च विकिबुक्स् इ्त्यस्योद्देशः प्रमुखतया शिक्षात्मकपुस्तकानां प्रस्तुतिः अस्ति। तस्मात् संस्कृतविषये विकिबुक्स् इत्यस्य विकासः इष्यते चेत्, संस्कृतशिक्षणम्, सन्धिशिक्षणम्, अष्टाध्यायीशिक्षणम्, इत्येतादृशानि पुस्तकान्यत्र भवितुमर्हन्ति, तान्यपि प्राचीनैः लिखितानि सन्ति चेत् विकिस्रोतस्येव भवितव्यानि। अत्र तु सदस्यैः लिखितमेव भवेत्।
न पुनः उत्तररामचरितम्, अध्यात्मरामायणम् वा अत्र भवेत्, यस्मात् तेषां स्थानं विकिस्रोतस्येव। तत्रापि बहु कार्यं करणीयमस्ति (विकिस्रोतसि), तस्मात् भवान् तत्रापि लेखितुं शक्नोति। मम वचनानां समर्थनार्थं एषोऽनुबन्धः दीयते। भवतः परिश्रमः सदैव सार्थकः सफलश्च स्याद् इति मेऽभिप्रायः। किञ्चिद् प्रतिकूलं मया भाषितं चेत् तत्क्षन्तव्यम्। नमांसि। -हेमन्तः
Yoges yog के साथ चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपुस्तकानि की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। Yoges yog के साथ जुड़ने और सहयोग करना शुरू करने के लिए एक नई चर्चा शुरू करें। यहाँ पर आप जो भी लिखेंगे, वह हर कोई देख पाएगा।