समानाधिकरण...

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- समानाधिकरणमारचयत।
उ.- अधिकरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे स्मृत्युक्तस्याचमनस्य अनुवाद्यत्वं अनग्नताचिन्तनस्य विधित्वमुक्तम्। प्रकृत-शाण्डिल्यविद्यायाम् एवं न शक्यते इति प्रत्युदाहरणसङ्गत्या एतदधिकरणम् आरभ्यते। अत्र एतत्सूत्रं पठ्यते –
समान एवं चाभेदात्।३.३.१९
विषय: -स आत्मानमुपासीत मनोमयं प्राणशरीरम्।मनोमयोऽयं पुरुषो भा: सत्य:।
विशय:- काण्वानाम् अग्निविद्यायां पठिता शाण्डिल्यविद्या तथा बृहदारण्यके पठिता शाण्डिल्यविद्या एका अथवा अनेका?
पूर्वपक्ष:- उभे विद्ये भिन्ने,
१ एकस्यामेव शाखायामेव एते विद्ये पठिते अत: उभयो: पौनरुक्त्यदोष: सम्भवति। तस्य परिहाराय उभयो: भेद: मन्तव्य:।
२ उभयो: गुणप्रधानभाव: अपि न शक्य: यतो हि उभयत्र मनोमयत्वादिधर्मा: समाना:।

उत्तरपक्ष:-
१ यथा भिन्नशाखापठितानां विद्यानाम् समानोपास्यत्वे सति एकत्वं मतम्, एवं समाने अपि विद्यैक्यं मन्तव्यम्, उपास्याभेदात्।
२ एकत्र विद्याविधानम् अपरत्र गुणविधानमिति न पौनरुक्त्यदोषो सम्भवति।
३ ये के मनोमयत्वादिधर्मा: उभयत्र समाना: दृश्यन्ते, ते तु प्रत्यभिज्ञानार्थम्।एतै: समानै: धर्मै: प्रत्यभिज्ञा भवति, ‘सा एवैषा विद्या’ इति।
निर्णय:- बृहदारण्यके पठिता अग्निरहस्यविद्या तथा वाजसनेये पठिता शाण्डिल्यविद्या समाना।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=समानाधिकरण...&oldid=5701" इत्यस्माद् प्रतिप्राप्तम्