समुदायाधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

समुदाय उभयहेतुकेऽपि तदप्राप्ति:।२.२.१८
वे.- बौद्धमते अणुहेतुक: भूतभौतिकसंहतिरूप: समुदाय: तथा स्कन्धहेतुक: पञ्चस्कनधीरूप: समुदाय: इत्येतौ द्वौ समुदायौ अङ्गीक्रियेते।परं तयो: प्राप्ति: नास्ति।समुदायभावस्य अनुपपत्ति: इत्यर्थ:।
पू.- कुत:?
वे.- समुदायिनाम् अचेतनत्वात्।बौद्धमते स्थिर: कश्चित् चेतन: भोक्ता नाङ्गीक्रियते।तं विना समुदाय: न सिद्ध्यति।
पू.- प्रशासितृनिरपेक्षा प्रवृत्ति: स्यात्।
वे.- तथा सति प्रवृत्त्यनुपरमप्रसङ्ग:।

इतरेतरप्रत्ययत्वादिति चेत् नोत्पत्तिमात्रनिमित्तत्वात्।२.२.१९
पू.- भोक्ता प्रशासिता वा कोऽपि स्थिर: चेतन: अस्माभि: नाङ्गीक्रियते।तथापि अविद्यादीनाम् इतरेतरकारणत्वम् अङ्गीक्रियते। तेन सिद्ध्यति लोकयात्रा।
वे.- अविद्यादीनाम् इतरेतरप्रत्ययत्वम् (इतरेतरकारणत्वम्)अभ्युपगतं चेदपि सङ्घातो नोपपद्यते।
पू.-कस्मात्?
वे.- अविद्यादीनाम् उत्पत्तिमात्रनिमित्तत्वात्।सङ्घातस्य किञ्चिदपरं निमित्तमन्वेषटव्यमेव।
पू.- अविद्यादिभि: सङ्घात आक्षिप्यते।
वे.- इत्युक्ते किम्?
पू.-अविद्यादय: सङ्घातं विना आत्मानं न लभन्ते अत: ते सङ्घातमपेक्षन्ते।
वे.- तर्हि तस्य सङ्घातस्य निमित्तं वक्तव्यम् ।
पू.- अविद्यादय एव सङ्घातस्य निमित्तमिति ब्रूम:।
वे.- सङ्घातमाश्रित्य आत्मानं लभमाना अविद्यादय: सङ्घातस्य निमित्तं कथं भवेयु:?
अपि च सङ्घात: किमर्थम्? भोगार्थं वा मोक्षार्थं वा उभयार्थं वा?
सङ्घातादं भिन्न: स्थिर: कश्चन भोक्ता न स्वीक्रियते चेद् एकोऽपि विकल्प: न सिद्ध्यति।कस्यापि विकल्पस्य स्वीकारेण क्षणभङगवादो विरुद्ध्यते।अत: अविद्यादीनाम् इतरेतरोत्पत्तिनिमित्तत्वं भवतु नाम, न तु सङ्घात: सिद्ध्यति।

उत्तरोत्पादे च पूर्वनिरोधात्।२.२.२०
वे.- इदानीमविद्यादीनामितरेतरोत्पत्तिनिमित्तत्वं न सम्भवतीति ब्रूम:।
पू.- कथम्?
वे.- क्षणभङ्गवादिनो भवतो मते उत्तरक्षणे उत्पद्यमाने पूर्व: क्षण: निरुद्ध्यते।तेन पूर्वोत्तरक्षणयो: हेतुफलभावोऽस्तीति

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा।२.२.२१
[उपरोध:] भवति।
पू.- कस्या: प्रतिज्ञाया उपरोध: भवति?
वे.- ‘चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता: उत्पद्यन्ते’ इत्यस्या: प्रतिज्ञाया उपरोध: भवति।
पू.- तर्हि उत्तरक्षणोत्पत्तिं यावत् पूर्वक्षणोऽवतिष्ठते इति ब्रूम:।
वे.-तथापि प्रतिज्ञोपरोध:।
पू.-कथम्?
वे.- उत्तरक्षणोत्पत्तिं यावत् पूर्वक्षणोऽवतिष्ठते चेत्, हेतुफलयो: य़ौगपद्यं स्यात्।तदा ‘क्षणिका: सर्वे संस्कारा:’ इति प्रतिज्ञा हीयेत।

प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात्।२.२.२२
वे.- निरोधस्य प्रतिसङ्ख्यानिरोधोऽप्रतिसङ्ख्यानिरोधश्चेति द्वौ भेदौ सुगतेनोक्तौ।तयोरेवासम्भव:।
पू.- कस्मात्?
वे.- अविच्छेदात्।
पू.- कथम्?
वे.- योऽयं निरोध उक्त:, स: सन्तानस्य अथवा भावस्य?
पू.- सन्तानस्य।
वे.- न सम्भवति एतद्।सर्वेषु सन्तानेषु सन्तानिनां हेतुफलभाव: विद्यते।तस्य विच्छेदासम्भव:। तस्याविच्छेदे सन्तानविच्छेदो न सम्भवति।
पू.- तर्हि भावनिरोधौ एतौ।
वे.- तदपि न सम्भवति।यतो हि भावानां निरन्वयो विनाशो न सम्भवति।सर्वास्ववस्थासु प्रत्यभिज्ञानबलेन अन्वयिनामविच्छेद:।अतो निरोधद्वयस्य अनुपपत्ति:।

उभयथा च दोषात्।२.२.२३'
वे.- अविद्यादीनां निरोध: भवद्भि: प्रतिसङ्ख्याननिरोधो मत:।स किं यमनियमादिसहितात्सम्यग् ज्ञानाद् भवति, अथवा स्वयमेव भवति?
पू.- यमनियमादिसहितात्सम्यग् ज्ञानाद् भवति।
वे.-तर्हि निर्हेतुकविनाशस्य भवतां सिद्धान्तो बाधित:।
पू.- तर्हि स्वयं नाशो भवतीति वदाम:।
वे.- तथा सति ‘सर्वं दु:खं क्षणिकम्’ इति मार्गोपदेशस्य आनर्थक्यप्रसङ्ग:।

आकाशे चाविशेषात्।२.२.२४
वे.-वस्तुत्वप्रतिपत्ते: अविशेषात् (सामान्यात्), आकाशस्य निरुपाख्यत्वम् (अनिर्वचनीयत्वम्)। न सिद्ध्यति।‘आत्मन: आकाश: सम्भूत:’(तैत्ति. २.१) इत्यादिश्रुतिभ्य: आकाशस्य वस्तुत्वं सिद्धम्।
पू.- वयं श्रुते: प्रामाण्यं नाङ्गीकुर्म:।
वे.- तर्हि अनुमानेन प्रतिज्ञां साधयाम:।
शब्द: किञ्चिदाश्रित:, गुणत्वात्, गन्धादिवत्।
अनेन अनुमानेन शब्दाश्रयस्य आकाशस्य वस्तुत्वं सिद्ध्यति।
अपि चावरणाभावमात्रमाकाशमिति वदतस्तवापरोऽपि दोषो जायते।
पू.- क:?
वे.- एकस्मिन् गरुडे आकाशे उत्पतति, आवरणं जातम्।अत: अधुना अपरो गरुड उत्पतितुं न शक्नुयात्।
पू.- यत्र आवरणाभाव:, तत्र उत्पतिष्यति।
वे.- तर्हि, ‘यत्र आवरणाभाव:’ इति प्रयोगेण आवरणाभावस्य आश्रयभूतं वस्तु उक्तम्। तदेवाकाशमिति वक्तव्यम्।
अपरोऽपि दोषोऽस्ति।
पू.-क:?
वे.-स्वसिद्धान्तविरोध:।
पू.- कथम्?
वे.-अत्र आवरणाभावमात्रमाकाशमुच्यते।अन्यत्र ‘वायुराकाशसंनिश्रय:’ इति उक्तम्।तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात्।
अपरोऽपि दोषो वर्तते।
पू.- क:?
वे.- ‘निरोधद्वयमाकाशं चेति त्रयमपि एतत् निरुपाख्यमवस्तु नित्यं च’ इति भवद्भिरुच्यते।न हि अवस्तुनो नित्यत्वमनित्यत्वं वा सम्भवति।यतो हि धर्मधर्मिव्यवहार: वस्त्वाश्रित:।

अनुस्मृतेश्च।२.२.२५
वे.- वैनाशिक: सर्वस्य क्षणिकत्वं मन्यते।उपलब्धुरपि क्षणिकत्वं मन्यते।तत्तु न सम्भवति।
पू.- कुत:?
वे.- अनुस्मृते:।अनुभवमनु उत्पद्यमानं ज्ञानं स्मृति:।उपलब्धु: क्षणिकत्वे स्मरणं न सम्भवति।
पू.- सादृश्यादेतत् सम्भवेत्।
वे.- ‘तेनेदं सदृशम्’ इति ज्ञानाय तस्य ज्ञानमावश्यकमस्य च ज्ञानमावश्यकम्। तदर्थमुभयो:क्षणयो: कश्चिदेक: उपलब्धा स्वीकर्तव्य:।तेनापि क्षणिकत्वप्रतिज्ञाया हानि:।
पू.- सादृश्यमिति प्रत्ययान्तरमेव। न तत् पूर्वोत्तरक्षणद्वयग्रहनिमित्तम्।
वे.- तथा चेत् ‘तेनेदं सदृशम्’ इति प्रयोगोऽनर्थक: स्यात्।‘सादृश्यम्’ इत्येव प्रयोग उचित: स्यात्। तस्मादनुपपन्न: क्षणभङ्गवाद:।

नासतोऽदृष्टत्वात्।२.२.२६
उदासीनानामपि चैवं सिद्धि:।२.२.२७
पू.- अस्माकं वैनाशिकसमये स्थिरमनुयायिकारणं नाङ्गीक्रियते।अभावादेव भावोत्पत्ति: अङ्गीक्रियते।
वे.- असतो भावो नोपपद्यते।यदि अभावादेव भाव उत्पद्यते, तर्हि कारणविशेषोपादानमनर्थकं स्यात्। बीजादेवाङ्कुर:, क्षीरादेव दधि, इत्येवंरूप: कारणविशेषाभ्युपगम: तदानीमेवार्थपूर्ण:, यदा बीजाभाव: क्षीराभाव: इत्येतयो: कश्चिद् विशेष: स्यात्।निर्विशेषादभावाद्यदि भाव: उत्पद्येत, तर्हि शशविषाणादपि अङ्कुरादयो जायेरन्।न चैवं दृश्यते।
पू.(बौद्ध:)- तर्हि अभावस्यापि विशेषमङ्गीकुर्म:।बीजाभाव: तन्त्वभावाद्विशिष्ट: इति।
वे.- एवं चेद्, अभावस्य भावत्वं प्रसज्यते।नीलोत्पलस्य नीलत्वं विशेष:।नीलोत्पलं च भावपदार्थ:।तथैव बीजाभावादीनां विशेषा: स्वीक्रियन्ते चेत्, तेषां भावत्वं प्रसज्येत।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये द्वितीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=समुदायाधिकरणम्&oldid=5616" इत्यस्माद् प्रतिप्राप्तम्