सम्बन्धाधिकरण...

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.-सम्बन्धाधिकरणम् आरचयत।
उ.-
अधिकरणसङ्गति: -
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे एवं निर्णीतं यद् उपास्यसामान्याद् वाजसनेय-बृहदारण्यकयो: पठिता शाण्डिल्यविद्या समाना।यथा तत्र उपास्यसामान्याद् विद्यैक्यं निर्णीतं तथैव अत्रापि पुरुषरूपोपास्यसामान्याद् उपासना समाना इति दृष्टान्तसङ्गत्या इदम् अधिकरणम् आरब्धम्।
विषय: -
तद्यत् तत्सत्यमसौ स आदित्यो य एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष:। (बृ.५.५.२)
विशय:-
आदित्यमण्डलस्थ: पुरुष: आधिदैविक:। तस्य ध्यानाय नामोक्तम् ‘अहर्’ इति।अक्षिपुरुष: आध्यात्म:।तस्य ध्यानाय नाम प्रतिपादितम् ‘अहम्’ इति।किमेतयो: नाम्नो: उपसंहार: अस्ति अथवा व्यवस्था?
पूर्वपक्ष:-
उभयत्र उभयनाम्नो: उपसंहार: मन्तव्य:,
१ विद्यैक्यात्।उभयत्र पुरुषविद्या समाना।अत: नाम्न: उपसंहार: कार्य:।
२ उपास्य: पुरुष: स एव।अक्षिमण्डलरूपायतनभेदाद् विद्या न भिद्यते।अत्र दृष्टान्त: उच्यते- कश्चिदाचार्य: क्वचिद् ग्रामे तिष्ठति क्वचिद् वने।तं प्रति शिष्यस्य ये धर्मा: ते उभयत्र समाना: एव।ग्रामस्थस्य आचार्यस्य यथा शिष्येण अनुगमनं क्रियते तथैव वनस्थस्यापि।
उत्तरपक्ष:-
उपसंहारो न कार्य:, विशेषात्।उपासनास्थानविशेषमनुसृत्य उपनिषद् (ध्यानार्थं नाम) उक्ता श्रुत्या- य एष: एतस्मिन् मण्डले पुरुषो ...इति उपक्रम्य उपनिषद् उक्ता ‘तस्याहरुपनिषद्’ । योऽयं दक्षिणेऽक्षन्पुरुष:... इति उपक्रम्य उपनिषद् उक्ता ‘तस्याहरमुपनिषद्’ । (बृ.५.५.२) तस्येति सर्वनाम्न: प्रयोगेण संनिहितं नाम ज्ञायते। अत: उभयत्र उभयो: उपसंहारो न न्याय्य:।
२ यद्यपि उभयत्र उपास्य: पुरुष: स एव तथापि उपनिषदुक्ता स्थानविशेषवशात्। अत: नाम्नो: अपि व्यवस्था मन्तव्या, नोपसंहार:।अत्र दृष्टान्त:- आसीनस्य आचार्यस्य विषये ये धर्मा: पादसंवाहनादय: शिष्येण अनुष्ठेया: न ते तिष्ठत: आचार्यस्य विषये।
३ ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपम्’ इति अतिदेशवाक्यमस्ति। तेन केषाञ्चन आदित्यपुरुषधर्माणाम् उपसंहार: अक्षिपुरुषे स्वयं श्रुत्या एव कृत:।अनेन अन्येषां धर्माणाम् उपसंहार: श्रुतेरनभिमत: इति दर्शयति श्रुति:। निर्णय: - व्यवस्थिते एव एते उपनिषदौ।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=सम्बन्धाधिकरण...&oldid=5702" इत्यस्माद् प्रतिप्राप्तम्