सम्भृत्यधिकरण...

विकिपुस्तकानि तः

प्र.- सम्भृत्यधिकरणमारचयत।(३.३.२३)
उ.-
अधिरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वोक्तस्य एवाधिकरणस्य एष: अतिदेश:।अत: सैव सङ्गतिरत्र।अत्र विद्यमानं सूत्रमिदम्-
सम्भृतिद्युव्याप्त्यपि चात:।३.३.२३
विषय: -
ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठ दिवमाततान।
विशय:-
राणायनीयानां खिलसूत्रे अस्मिन् ब्रह्मण: सम्भृति: द्युव्याप्ति: इत्यादय: गुणा: श्रूयन्ते। ते तेषामेव शाण्डिल्यविद्यायामुपसंहरणीया: वा न वा?
पूर्वपक्ष:- -
उपसंहरणीया: यतो हि उभयत्र उपास्यं तदेव ब्रह्मास्ति।
उत्तरपक्ष:-
नोपसंहरणीया:,असाधारणधर्माणां प्रत्यभिज्ञा अत्र नास्ति अत:।सम्भृति: द्युव्याप्ति: एते अत्र साधारणधर्मा:।तेषु नैकोऽपि श्रूयते शाण्डिल्यविद्यायाम्।
निर्णय:-
उपसंहारो न कार्य:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=सम्भृत्यधिकरण...&oldid=5703" इत्यस्माद् प्रतिप्राप्तम्