सर्गः

विकिपुस्तकानि तः
Jump to navigation Jump to search

सर्गः इत्युक्ते सृष्टिः, सर्जनम्।महदादेः प्रपञ्चस्य उत्पत्तिः इत्यर्थः।

सर्गस्य प्रयोजनम् [सम्पाद्यताम्]

साङ्ख्यमते सर्गप्रयोजनम्[सम्पाद्यताम्]

पुरुषस्य भोगः तथा मोक्षः इति साङ्य् मते सर्गस्य प्रयोजनम्
इत्येष प्रकृतिकृतो महदादिसूक्ष्मपर्यन्तः।प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः॥सां.का.५६
प्रकृतिः पुरुषस्य विमोक्षार्थं महदादिप्रपञ्चं जनयति इति अर्थः।परं प्रकृतिस्तु जडा। तस्याः स्वयं प्रवृत्तिः न सम्भवति।कथमिव सा सर्गम् आरभेत?अस्य आक्षेपस्य समाधानेवं दृष्टान्तेन क्रियते
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य॥सां.का.५७
सूतिकायाः स्तनात् क्षीरं प्रवर्तते।क्षीरं जडम्।तथापि वत्सस्य पोषणार्थं तत् स्वयं प्रवर्तते।एवमेव पुरुषस्य मोक्षार्थं प्रधानं जडमपि स्वयं प्रवर्तते।

आयुर्वेदमते सर्गप्रयोजनम्[सम्पाद्यताम्]

सुश्रुताचार्येण अपि एतदेव सर्गप्रयोजनम् उक्तम्।किञ्च जडं प्रधानं स्वयं कथं प्रवर्तते इति प्रश्नः अत्रापि उद्भवति।तस्य समाधानं साङख्योक्तेन एव क्षीरदृष्टान्तेन सुश्रुताचार्यः करोति
सत्यप्यचैतन्ये प्रधानस्य पुरुषकैवल्यार्थं प्रवृत्तिमुपदिशन्ति, क्षीरादींश्चात्र हेतूनुदाहरन्ति।सु.शा.१.८

सर्गक्रमः [सम्पाद्यताम्]

साङ्ख्योक्तः सर्गक्रमः[सम्पाद्यताम्]

प्रकृतेर्महान् ततोऽहङ्कारः तस्माद् गणश्च षोडशकः।तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि।सां.का.२२
एषः साङ्ख्योक्तः सर्गक्रमः।

कारणम् कार्यम्
पुरुसंयोगात् प्रकृतेः महान् जायते।
महतः त्रिविधः अहङ्कारः जायते- सात्विकः, राजसः तामसःच।
राजसस्य साहाय्येन सात्वि-ेकाद् अहङ्कारात् एकादश इन्रियियाणि जायन्ते।
राजसस्य साहाय्येन तामसाद् अह्ङकारात् पञ्च तन्मात्राणि जायन्ते।
पञ्चभ्यः तन्मात्रेभ्यः पञ्च महाभूतानि जायन्ते।

आयुर्वेदोक्तः सर्गक्रमः[सम्पाद्यताम्]

अधुना आयुर्वेदे उक्तः सर्गक्रमः द्रष्टव्यः।चरकसंहितायां स एवमुक्तः
जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते।परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्॥६६॥
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते।च.शा.१.६७।
अव्यक्ततत्त्वात् बुद्धितत्त्वं जायते।बुद्धेः अहम् इति तत्त्वम् उत्पद्यते।अहङ्कारात् खादीनि क्रमशः भवन्ति।ततः स्थूलभूतोत्पत्तिः, तेन ‘सर्गः परिपूर्णतया सम्भूतः’ इति उच्यते।एषः सूत्रार्थः।

सम्प्रति महाप्रलयान्तरं यथा आदिसर्गे बुद्ध्यादि-उत्पादो भवति तदाह जायते इत्यादि।बुद्ध्या अहम् इति मन्यते इति बुद्धेः जातेन अहङ्कारेण अहम् इति मन्यते इति अर्थः। खादीनि इति खादीनि सूक्ष्माणि तन्मात्ररूपाणि, तथा एकादश इन्द्रियाणि। वचनं हि “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः” (सा.का.२२) इति।यथाक्रमम् इति यस्माद् अहङ्काराद् उत्पद्यते तेन क्रमेण; तत्र वैकृतात् सात्त्विकाद् अहङ्कारात् तैजससहायाद् एकादश इन्द्रियाणि भवन्ति, भूतादेः तु अहङ्कारात् तामसात् तैजससहायात् पञ्चतन्मात्राणि। यदुक्तं- “सात्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्।भूतादेः तन्मात्रः स तामसः तैजसादुभयम्” (सांका.२५) इति।ततः इति आहङ्कारिक-कार्यानन्तरं तन्मात्रेभ्यः उत्पन्नस्थूलभूतसम्बन्धात्। सम्पूर्णसर्वाङ्गः जात इति आदिसर्गः जातः॥६६॥चक्रपाणिः

सूत्रे इन्द्रियोत्पत्तेः स्वतन्त्रः उल्लेखः न दृश्यते।खादीनि इति अस्मिन् पदे एव इन्द्रियाणाम् अन्तर्भावः कार्यः।एवमयं सर्गक्रमः सर्वथा साङ्ख्यमतानुसारी वर्तते।
सुश्रुतसंहितायां सर्गक्रमः एवमुक्तः

सर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्षणम् अष्टरूपमखिलस्य जगतः सम्भवहेतुः अव्यक्तं नाम।...सु.शा.१.३
तस्मादव्यक्तात् महानुत्पद्यते तल्लिङ्ग एव।तल्लिङ्गाच्च महतः तल्लक्षण एव अहङ्कार उत्पद्यते।स त्रिविधो वैकारिकस्तैजसो भूतादिरिति।तत्र वैकारिकाद् अहङ्कारात् तैजससहायाद् तल्लक्षणानि एव एकादशेन्द्रियाणि उत्पद्यन्ते।तद्यथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्तोपस्थपायु-पादमनांसि इति।तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकं मनः। भूतादेरपि तैजससहायात् तल्लक्षणानि एव पञ्च तन्मात्राणि उत्पद्यन्ते शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मान्त्रं, रसतन्मात्रं, गन्धतन्मात्रमिति।तेषां विशेषाः शब्दस्पर्शरूपरसगन्धाः। तेभ्यो भूतानि व्योमानिलानलजलोर्व्यः।एवमेषा तत्त्वचतुर्विंशतिः व्याख्याता।सु.शा.१.४

अत्रापि साङ्ख्यमतानुसारमेव सर्गक्रमः उक्तः।

इन्द्रियसर्गविषये साङ्ख्यायुर्वेदयोः वैमत्यम्[सम्पाद्यताम्]

अत्र सुश्रुताचार्येण उक्तः सर्गक्रमः साङ्ख्यमतम् अनुसरति।एषः साङ्ख्यमतानुवादः।अत्र इन्द्रियाणाम् उत्पत्तिः अहङ्कारात् मता।अग्रे सुश्रुताचार्येण अस्मिन् विषये आयुर्वेदस्य भिन्नं मतं प्रकटितम्

भौतिकानि चेन्द्रियाणि आयुर्वेदे वर्ण्यन्ते तथेन्द्रियार्थाः।सु.शा.१.१४

चरकाचार्येण अपि इन्द्रियाणामुत्पत्तिः भूतेभ्यः उक्ता

एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु। च.शा.१.२४
यद्यपि च सांख्ये आहंकारिकाणि इन्द्रियाणि यद् उक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद् भौतिकत्वम् इन्द्रियाणां ज्ञेयम्...। -चक्रपाणिः

साङ्ख्यायुर्वेदयोः 

"https://sa.wikibooks.org/w/index.php?title=सर्गः&oldid=6768" इत्यस्माद् प्रतिप्राप्तम्