सर्वदर्शनसङ्ग्रहे रामानुजेन जीवपरिमाणविषये जैनमतस्य प्रत्याख्यानं कथं कृतम्?

विकिपुस्तकानि तः

सर्वदर्शनसङ्ग्रहे रामानुजेन जीवपरिमाणविषये जैनमतस्य प्रत्याख्यानं कथं कृतम्?

जीवपरिमाणविषये जैनमतम् एवमस्ति –
जीवः न अणुः, न विभुः।सः शरीरपरिमाणः।शरीरस्य यावत् परिमाणं तावदेव परिमाणं जीवस्य।

अस्य मतस्य खण्डने रामानुजः प्रवर्तते एवम् –
यदि जीवः शरीरपरिमाणः तर्हि योगी योगबलेन शरीरान्तरं प्रविशति तत् कथं शक्यम्?योगिशरीरपरिमाणः तस्य जीवः।सः गजशरीरं प्रविशति चेत् शरीरे अपर्याप्तः भविष्यति।पिपीलिकादेहं प्रविशति चेत् न माति।
जीवस्य शरीरपरिमाणम् अङ्गीकुर्मः चेद् अपरा अपि विप्रतिपत्तिः भवति।जैनाः पुनर्जन्म अङ्गीकुर्वन्ति।मनुष्यदेहे वर्तमानः जीवः मनुष्यपरिमाणः।कर्मवशात् यदि सः पिपीलिकादेहे पुनर्जन्म लभते तर्हि तस्य विच्छेदप्रसङ्गः। कर्मवशात् यदि सः गजदेहं लभते तर्हि तस्य गजदेहे अपर्याप्तता स्यात्।
अत्र जैनाः प्रत्युत्तरन्ति।जीवः सङ्कोचविकासशीलः अस्माभिः अङ्गीक्रियते।अतः घटस्थदीपस्य प्रकाशः घटं व्याप्नोति।स एव दीपः मठे स्थाप्यते तदा मठम् अपि व्याप्नोति।स पुनः घटे स्थाप्यते चेत् घटपरिमितप्रकाशः भवति।एवम् आत्मा अपि सङ्कोचविकासशीलः वर्तते। तत्तद्देहानुसारं सः विकसति अथवा सङ्कुचति।
तत्र रामानुजः प्रतिवादं करोति।एवं चेत् जीवः विनाशी स्यात्।इदमत्र अनुमानम् –
जीवः विनाशी सङ्कोचविकासशीलत्वात्।यद् यत् सङ्कोचविकासशीलं तद् तद् विनाशि।यथा वस्त्रम्।
जीवस्य विनश्वरत्वं तु जैनानाम् अपि न इष्टम्।अतः जीवः देहपरिमाणः इति मतम् अयुक्तम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्