सामग्री पर जाएँ

सर्वदर्शनसङ्ग्रहे ऱामानुजमतेन स्याद्वादस्य खण्डनं कथं प्रतिपादितम्?

विकिपुस्तकानि तः

सर्वदर्शनसङ्ग्रहे ऱामानुजमतेन स्याद्वादस्य खण्डनं कथं प्रतिपादितम्?

सर्वदर्शनसङ्ग्रहे जैनमतविषयकप्रकरणाद् अनन्तरं रामानुजदर्शनस्य विवरणम् आरभ्यते।सर्वदर्शनसङ्ग्रहस्य एषा रीतिः यत् पूर्वतनदर्शनस्य प्रत्याख्यानेन उत्तरं दर्शनम् आरभ्यते।तदनुसारं जैनमतस्य खण्डनेन रामानुजदर्शनस्य आरम्भः भवति।
खण्डनीयेषु जैनमतेषु स्याद्वादः आदौ रामानुजेन स्वीकृतः। स्याद्वादः सप्तभङ्गिनयः अनेकान्तवादः इति अनर्थान्तरम्। स्याद्वादस्य सङ्क्षेपतः स्वरूपम् एवम् – अनेकान्तं जगत् सर्वम्।
अस्मिन् अनेकान्ते सप्त भङ्गाः सम्भवन्ति यथा –
१ स्यादस्ति
२ स्यान्नास्ति
३ स्यादवक्तव्यः
४ स्यादस्ति च नास्ति च
५ स्यादस्ति चावक्तव्यः च
६ स्यान्नास्ति चावक्तव्यः च
७ स्यादस्ति च नास्ति चावक्तव्यः च।

स्याद्वादस्य खण्डनम् – एकस्मिन् परमार्थसद्वस्तुनि परस्परविरुद्धधर्माणां कल्पनं प्रत्यक्षविरुद्धम्।
एकस्मिन् नरसिंहे नरत्वं सिंहत्वं चेति परस्परं विरुद्धधर्माः सन्ति अतः एकस्मिन् धर्मिणि विरुद्धधर्माणां समुच्चयः न प्रत्यक्षविरुद्धः इति जैनानां युक्तिवादः।
नरसिंहे शीर्षावच्छेदेन सिंहत्वं तथा देहावच्छेदेन नरत्वम् इति देशभेदेन विरुद्धधर्मौ स्तः।अतःप्रत्यक्षविरोधः नास्ति। एकस्मिन् देशे विरुद्धधर्माणां समुच्चयः प्रत्यक्षविरुद्धः इति रामानुजः।
द्रव्यस्य अवस्थाः पर्यायशब्देन कथ्यन्ते रामानुजमते। मृत्तिका इति द्रव्यम्।घटः शरावः स्थाली इत्यादयः मृत्तिकायाः पर्यायाः।अतः एकस्मिन् मृत्पिण्डे शरावः स्यादस्ति स्यान्नास्ति इति विरुद्धधर्माणां समुच्चयः न प्रत्यक्षविरुद्धः।स च मृत्पिण्डे इत्युक्ते एकस्मिन् देशे अस्ति।एतद् जैनमतम्।
कालभेदेन विरुद्धधर्माणां समुच्चयः एकदेशे अपि न प्रत्यक्षविरुद्धः।घटशरावादयः भिन्ने भिन्ने काले मृत्पिण्डे सम्भवन्ति।एकस्मिन् काले एकस्मिन् देशे विरुद्धधर्माणां समुच्चयः प्रत्यक्षविरुद्धः इति रामानुजः।
कश्चिद् दण्डः एकस्मिन् एव काले दीर्घदण्डस्य अपेक्षया ह्रस्वः अस्ति, ह्रस्वदण्डस्य अपेक्षया दीर्घः अस्ति इति एकस्मिन् काले एकस्मिन् देशे मिथो विरुद्धधर्माणां समुच्चयः प्रत्यक्षसिद्धः इति जैनाः।
कस्मिंश्चिद् दण्डे एकस्मिन् काले यौ ह्रस्वत्व-दीर्घत्वधर्मौ अत्र प्रतिपादितौ, तयोः प्रतियोगिनौ भिन्नौ स्तः।एकस्य दण्डस्य अपेक्षया ह्रस्वत्वं, तस्य एव अपेक्षया दीर्घत्वम् अस्मिन् दण्डे न सम्भवति।अतः अनुभवविरोधात् अग्राह्यः स्याद्वादः इति रामानुजः।

पुनः अग्रे रामानुजः स्याद्वादस्य स्याद्वादविषयत्वं विकल्प्य खण्डनं प्रवर्तयति।तदेवम् –
स्याद्वादः अनैकान्तिकः अस्ति न वा? यदि अस्ति तर्हि कानिचन वस्तूनि स्याद्वादानुसारं विरुद्धधर्मयुक्तानि सन्ति कानिचन तथा न सन्ति इति प्राप्तम्।तेन ‘सर्वम् अनेकान्तम्’ इति प्रतिज्ञा खण्डिता।
यदि स्याद्वादः अनैकान्तिकः नास्ति, एकान्तिकः अस्ति तर्हि अपि ‘सर्वम् अनेकान्तम्’ इति प्रतिज्ञा खण्डिता।
स्यादस्ति स्यान्नास्ति इति भङ्गद्वयम् एव आदाय एतत् खण्डनं कृतम्।अनया रीत्या अन्येषाम् अपि पञ्चानां भङ्गानां खण्डनं सम्भवति ।
अत्र जैनाः वदन्ति यद् विरुद्धधर्माणाम् एकस्मिन् धर्मिणि समुच्चयः न सम्भवति चेत् विकल्पः तु ध्रुवं सम्भवति।तथापि स्याद्वादः सिद्ध्यति एव।
तत्रोत्तरति रामानुजः यद् विकल्पः क्रियाविषये एव सम्भवति, न वस्तुविषये।यथा यागः इति क्रिया।सा क्रिया कदाचित् यवैः कर्तुं शक्या कदाचित् व्रीहिभिः अपि कर्तुं शक्या। परम् एतादृशः विकल्पः वस्तुविषये न सम्भवति।इदं पुरःस्थितं द्रव्यं व्रीहिः अस्ति, विकल्पेन यवः अपि सम्भवति इति न।तस्मात् विरुद्धधर्माणां विकल्पः अपि वस्तुविषये न प्रामाणिकः।
एवं रामानुजेन स्याद्वादस्य खण्डनं कृतम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्