सर्ववेदान्तप्रत्ययाधिकरणम् आरचयत

विकिपुस्तकानि तः
Jump to navigation Jump to search

१ सर्ववेदान्तप्रत्ययाधिकरणम्।
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्।३.३.१
भेदान्नेति चेन्नैकस्यामपि।३.३.२
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ३.३.३
दर्शयति च ।३.३.४
विषय:- सर्वेषु वेदान्तेषु पञ्चाग्न्युपासना, प्राणोपासना, दहरोपासना, शाण्डिल्योपासना तथा वैश्वानरोपासना: इत्येता: उपासना: भिन्ना: सन्ति अथवा समाना:?
पूर्वपक्ष:- उपासनाभेद: वर्तते, नामरूपभेदात्।
१ रूपभेद: एवम्।द्रव्यं तथा देवता इति द्वे यागस्य रूपे भवत:।आमिक्षायाग: वाजिनयागाद् भिद्यते, द्रव्यभेदात्।एवमेव वाजसनेयशाखोक्ता पञ्चाग्निविद्या छान्दोग्योक्तपञ्चाग्निविद्याया: भिद्यते, देवताभेदात्। वाजसनेयशाखायां पञ्चाग्निविद्यायां ‘प्रेतस्याग्निरेवाग्नि: भवती’ति षष्ठ: अग्नि: उपास्यत्वेनोक्त:। छान्दोग्ये तु पञ्च एवाग्नय: उपास्यत्वेनोक्ता:।एवं रूपभेद: स्पष्ट:।
२मुण्डके शिरोव्रतं यै: कृतं तेषामेव ब्रह्मविद्यायामधिकार: उक्त:। अन्यत्र एवमधिकारनियम: नोक्त:।एवं धर्मभेदाद्विद्याभेद: मन्तव्य:।
उत्तरपक्ष:-
उपासनाभेद: नास्ति, यतो हि-
१ एतासाम् उपासनानां चोदनासु अभेद: वर्तते ।‘यो ह वै ज्येष्ठं च श्रेष्ठं च प्राणं वेद’ इत्येषा चोदना छान्दोग्ये अपि वर्तते, बृहदारण्यकेऽपि तथैव वर्तते।अत: सर्वासु शाखासु प्राणोपासना समाना इत्यवगम्यते।
२ एतासाम् उपासनानां संयोगेषु अभेद: वर्तते ।‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति’ इति फलसंयोग: सर्वत्र समान:।
३ एतासाम् उपासनानां रूपेषु अभेद: वर्तते । प्राणोपासनासु सर्वत्र प्राण: इत्येव देवता श्रूयते। एवं रूपसामान्यमुपासनासु दृश्यते।
४ एतासाम् उपासनानां समाख्यासु अभेद: वर्तते ।प्राणविद्या इति सर्वत्र समाख्या सर्वत्र समाना।
अत: उपासनाभेद: नास्ति।
५ रूपभेदात् उपासनाभेद: इति चेत् अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति’ इत्यत्र षोडशीग्रहणाग्रहणरूपभेद: एकस्यामपि विद्यायां दृश्यते।
६ नैतदचीर्णव्रतोऽधीते इति वचनात् शिरोव्रताचरणं स्वाध्यायस्यैवाङ्गं, न तु ब्रह्मविद्याया:।अत: शिरोव्रतनियमभावाभावाभ्यां विद्या भिद्यते इति वचनमयुक्तम्।
७ सर्वे वेदा यत्पदमामनन्ति इति वचनात् सर्वेषां वेदानामेकमेव वेद्यमस्ति।एकवेद्यत्वात् विद्या अपि एका एव।
८ वाजसनेये वैश्वानररूपेण प्रादेशमात्रं ब्रह्म व्यपदिष्टम्।छान्दोग्ये ‘यस्त्वेतमेवं प्रादेशमात्रं ...आत्मानं वैश्वानरमुपासते। इति तस्य सिद्धवत् ग्रहणं कृतम्।अत: वैश्वानरविद्याया: सर्वत्र ऐक्यं सिद्ध्यति।
निर्णय:-वेदान्तोक्तानामुपासनानामभेद:।

ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:  ३.३