सर्वाभेदाधिकरण

विकिपुस्तकानि तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

उ.-
अधिकरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे उद्गीथरूपविशेषणेन उद्गीथेतरस्योङ्कारस्य व्यावृत्ति: भवति इति स्थापितम्। यथा तत्र विशेषणेन इतरेषां व्यावृत्ति: तथा अत्रापि ‘एवम्’ इति शब्देन शाखान्तरोक्तानाम् अन्येषाम् प्राणगुणानां व्यावृत्ति: भवति इति दृष्टान्तसङ्गत्या इदमधिकरणम् आरभ्यते।
विषय:-यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि।(बृ.६.१.१४)
विशय:- प्राणस्य वसिष्ठत्वादयो गुणा: एकत्र उक्ता: ,अन्यत्र नोक्ता:। अत: संशयो जायते यद् अन्यत्रोक्ता: प्राणगुणा: अन्यत्र उपसंहर्तव्या:, न वा?
पूर्वपक्ष:- न संहर्तव्या:, एवंशब्दप्रयोगात्।प्रत्येकं वाक्यशेषे ‘एवं यो वेद’ इति उक्तम्।एवंशब्द: प्रकृतं परामृशति।एवंपदेन जाता गुणाकाङ्क्षा स्वशाखोक्तै: प्राणगुणै: एव शाम्यति।अत: अत्रानुक्तानां प्राणगुणानाम् उपसंहारो न विवक्षित: इति प्राप्यते।
उत्तरपक्ष:- अन्यत्रोक्ता: प्राणगुणा: उपसंहर्तव्या:, सर्वत्र प्राणस्याभेदात्।सर्वत्र प्रधान: प्राण: स: एव। तस्य ये गुणा: एकत्रोक्ता: ते अन्यत्रोपसंहर्तुं शक्या:, प्रधानस्यैक्यात्।न चानेन श्रुतहानि: अश्रुतकल्पना वा भवति। यतो हि एकत्र श्रुतं सर्वत्र श्रुतमेव भवति।
निर्णय:- अत: एकप्रधानसम्बद्धा: धर्मा: सर्वत्रैव उपसंहर्तव्या:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=सर्वाभेदाधिकरण&oldid=5695" इत्यस्माद् पुनः प्राप्तिः