सर्वोपेताधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

सर्वोपेता च तद्दर्शनात्।२.१.३०
पू.- एकस्यापि परब्रह्मण:, विचित्रशक्तियोगात्, विचित्र: प्रपञ्च: उपपद्यते इति भवता उक्तम्।तथापि ब्रह्मण: एतादृशो विचित्रशक्तियोगोऽस्तीति केन प्रमाणेनोच्यते?
वे.- तद्दर्शनात्।सर्वशक्त्युपेता परा देवता इति श्रुति: दर्शयति-
सर्वकर्मा सर्वकाम: सर्वगन्ध: सर्वरस: सर्वमिदमभ्यात्तोऽवाक्यनादर: ॥(छान्दो.३.१४.४)
सत्यकाम: सत्यसङ्कल्प:। (छा.८.७.१)
य: सर्वज्ञ: सर्वविद् (मुण्ड. १.१.९)
एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत:।(बृ. ३.८.९)
सर्वोपेता च तद्दर्शनात्।२.१.३०
तथापि दृष्टान्तो विषम एव।दृष्टान्ते य एते देवादय: प्रोक्ता:, तेषां जडानि शरीराण्येव शरीरान्तरोत्पादने उपादानं, न तु आत्मा|तस्मान्नैते दृष्टान्ता: चेतनस्य ब्रह्मण उपपद्यन्ते।
वे. - नैष दोष:।कुलालादिदृष्टान्तवैषम्यमेवात्र विवक्षितम्।यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे, कुलालादयो बाह्यं साधनमपेक्षन्ते कार्यारम्भे, न देवादय:।तथैव जगदारम्भे चेतनं ब्रहमापि बाह्यं साधनं नापेक्षते।एतावदेवात्र विवक्षितम्।

विकरणत्वान्नेति चेत्तदुक्तम्। २.१.३१
पू.- सर्वशक्तियुता परा देवता इति यदुच्यते, तदसत्, ‘विकरणा देवता’ इति श्रुते:- अचक्षुष्कमश्रोत्रमवागमन:।(बृ. ३.८.८)
सर्वशक्त्युपेतापि सा देवता करणविहीना सती कार्याय कथं वा प्रभवेत्?
वे.- तदुक्तम्।अस्य प्रश्नस्योत्तरं पूर्वमेवोक्तम् – श्रुत्यवगाह्यमेतत्, न तर्कावगाह्यमिति।
पू.- अस्तु।नेति, नेति (बृ. ३.९.२६)इत्यनया श्रुत्या प्रतिषिद्धसर्वविशेषा देवता सर्वोपेता कथं स्यात्?
वे.- तदुक्तम्।अस्य प्रश्नस्योत्तरं पूर्वमेवोक्तम्।
पू.- कुत्र?
वे.- अविद्याकल्पितरूपभेदोपन्यासेनोक्तम्।अपि च करणरहितस्यापि सर्वसामर्थ्ययोग: श्रुत्युक्त:।
पू.- कुत्र?
वे.- अपाणिपादो जवनो ग्रहीता, पश्यत्यचक्षु: स शृणोत्यकर्ण:॥(श्वेता. ३.१९)

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=सर्वोपेताधिकरणम्&oldid=5604" इत्यस्माद् प्रतिप्राप्तम्