सांख्यदर्शनानुसारं प्रकृतेः स्वरूपं
षडास्तिकदर्शनेषु सांख्यदर्शनं तत्त्वनिरूपणदृष्ट्या सर्वोच्च स्थानम् आवहति । दर्शनेऽस्मिन् प्राधान्येन तत्त्वत्रयं निरूपितमस्ति । एतत् तत्त्वत्रयम् अत्यन्तं व्यावहारिकं लोकानुकुलं चास्ति । पुरुषतत्त्वं प्रकृतितत्त्वं जगत्तत्त्वमिति भवत्यत्र विभागः । पुरुषतत्त्वं चेतनं भवति । प्रकृतितत्त्वम् अचेतनं भवति । महदादिजगत्तत्त्वमपि अचेतनं भवति । एतेषु प्रकृतिपदेन अभिहितं यत् पदं तत् सांख्यदर्शनस्य मूलस्तम्भभूतं वर्तते । स्तम्भेन विना यथा गृहस्य न स्थितिः तथैव प्रकृत्या विना नास्य दर्शनस्य स्थितिः । एषा प्रकृतिः त्रिगुणात्मिका सकलस्यापि जगतः जननहेतुः । एषैव निस्वार्थपरभावनया जगत् सृजते । चेतनं पुरुषं विमोचयितुं सततं क्रियाशीला भवति । एषा विविधैः प्रकारैः चेतनं पुरुषं बध्नाति । एकेन रूपेण तमेव पुरुषं मोचयति च । अथ केयं प्रकृतिः ? किं चास्याः स्वरूपम् ? इति जिज्ञासायाम् उच्यते - प्रकर्षेण करोतीति प्रकृतिः । अर्थात् इयं प्रकृष्टां विचित्रां च सृष्टिं करोतीति प्रकृतिः । प्रकृतिशब्दः कारणवाची । अर्थात् इयं प्रकृतिः स्वयं न जायते परन्तु सर्वेषां जननी भवति । एतदेव उक्तं सूत्रकारेण - मूले मूलाभावादमूलं मूलम् ॥ इति ॥ प्रकृत्याः स्वरूपं स्मृतिषु एवं श्रुयते - सत्त्वं रजस्तम इति एषैव प्रकृति सदा ।एषैव संसृतिर्जन्तोरस्यापारे परं पदम् ॥ पुनश्चोक्तं श्रुतिषु - मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।अजामेकां लोहितशुक्लकृष्णाम् । इति । प्रकृतिस्वरूपविषये आह सूत्रकारः - सत्त्वरजतमसां साम्यावस्था प्रकृतिः ॥ इति ॥ अव्यक्तम्, अविद्या, प्रधानं, माया इत्यादिपदानि प्रकृतेः पर्यायवाच्यानि भवन्ति । सांख्यदर्शने प्रकृतितत्त्वं मौलिकतत्त्वमित्युच्यते । सृष्टेः आदिकारणं प्रकृतिः भवति । अतः एषा मूला प्रकृतिः इति पदेन व्यपदिश्यते । स्वयम् अतिन्द्रियत्वात् न कस्यापि दृष्टिगोचरा भवति । एषा स्वतन्त्रा नित्या व्यापिका अनेकपुरुषभोग्या च भवति । गुणत्रयाणां साम्यावस्था इति कारणतः प्रकृतिः सुखदुःखमोहात्मिका इति कथ्यते । दर्शनेऽस्मिन् एषा प्रकृतिः प्रसवधर्मी इति विर्णता । प्रसवपदस्य अभिप्रायद्वयं वर्तते । निखिलस्यापि जगतः यतः जननी भवति तस्मात् सा प्रसवधर्मी इति कथ्यते । पुनश्च नित्या परिणामशालिनि यस्मात् तस्मादपि प्रकृतिः प्रसवधर्मी इति कथ्यते । एवं च विकारित्वेन जगत्कारणत्वेन च सिद्धं प्रकृत्याः प्रसवधर्मीत्वम् । सांख्यनये चेतनपुरुषः जगत्कारणं भवितुं नार्हति इति कारणात् भिन्नस्वभावकत्वात् कार्यस्य । सा च प्रकृतिः अस्ति इति किं प्रमाणम् ? एतदेव कथयति कारिकाकारः - भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृतेश्च । कारणकार्य विभागादविभागात् वैश्वरूप्यस्य ॥ इति ॥ एतस्याम् आर्यायां पञ्चयुक्तयः उक्ताः सन्ति । अस्मिन् जगति सर्वोऽपि सीमितः, परिमितः, परतन्त्रः, अव्यापकः अनित्यः, अनेकधर्मयुक्तश्च भवति । अत्र सीमितं असीमितं प्रति परतन्त्रं स्वतन्त्रंप्रति अनित्यं नित्यं प्रति सङ्केतयति । तस्मात् जगतः सर्वपदार्थानां मूलकारणम् असीमितं अपरिमितं स्वतन्त्रं व्यापकं नित्यं तथा च एकेन भवितव्यम् । एतत् सर्वं प्रकृतौ सम्भवति । एतदेव भेदानां परिमाणात् इति युक्त्या ग्रन्थकारः स्पष्टीकरोति। समन्वयात् इति युक्त्या अपि प्रकृतेः स्वतन्त्रसत्ता अस्ति इति अवगम्यते । लोके पश्यामो हि वयं सर्वं वस्तु सुखदुःखमोहात्मकं भवति । किञ्चित् वस्तु कस्मिंश्चित् प्रियं भवति, अन्यस्मै अप्रियं भवति, अपरस्मै मोहयुक्तं भवति । अर्थात् सत्त्वगुणात् सुखं, रजोगुणात् दुःखं, तमोगुणात् च मोहः सर्वेषु पदार्थेषु परिलक्ष्यते । तस्मात् त्रिगुणात्मिका प्रकृतिः मूलकारणमिति निश्चितम् । समन्वयात् इति पदेन एतदेव स्पष्टीकरोति ग्रन्थकारः। शक्तितः प्रवृत्तेश्च इति युक्तिरपि जगत् प्रति शक्तिमती प्रकृतिरेव कारणमिति सूचयति । कार्यकारणविभागादिति युक्तिः अव्यक्तं प्रकृति कारणत्वेन युक्तं जगत् कार्यत्वेन चेति वर्णयति । अविभागात् वैश्वरूपस्य इति युक्तिः कार्यकारणयोः एकरूपतां सूचयति । यस्मात् प्रकृतेः उत्पन्नमिदं जगत् तस्यामेव प्रकृतौ लीनतां याति । अनेन कार्यकारणयोः एकरूपतां सूचिता भवति । प्रकृतिस्तु पुरुषसंयोगेन जगत्कारणतामधिगच्छति । एतदेव कथयति कारिकाकारः - पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ इति ॥ स एव सर्गः कथं भवति इति जिज्ञासायां पुनश्चाह - प्रकृतेर्महांस्ततोऽहङ्कारस्तस्र्माणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ इति ॥ प्रकृतितत्त्वस्य अङ्गीकारेण पञ्चविंशतितत्त्वानां विवेचनं पुरुषस्य जागतिकव्यवहारश्च सम्भवति । सृष्टिरपि सार्था भवति । एतदेव व्यावहारिक प्रयोजनं प्रकृतितत्त्वस्य । प्रकृतितत्त्वम् अनङ्गीकारेण न जातु पुरुषस्य परमपुरुषार्थप्राप्तिः । अतः पुरुषस्य मोक्षप्राप्तिरेव प्रकृतितत्त्वस्य पारमर्थिकं प्रयोजनं भवति ।