सांख्याभिमतं पुरुषबहुत्वं साधयत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

भारतीयदर्शनवाङ्मये विद्यमानेषु दर्शनेषु सांख्यदर्शनम् अत्यन्त-वैज्ञानिकतत्वभूयिष्ठं सर्वलोकानुकूलं चास्ति । दर्शनेऽस्मिन् विचारितेषु विषयेषु “पुरुषस्वरुपम्” इति विषयोऽत्यन्तगम्भीरो रमणीयश्चास्ति । तत्र श्रूयते हि सांख्ये -

पञ्चविंशतितत्त्वज्ञः यत्र तत्राश्रमे वसन् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥

अथ पञ्चविंशतितत्त्वानि त्रिधा विभक्तानि । तच्च - १) व्यक्तम्, २) अव्यक्तम्, ३) ज्ञः इति । तत्र अव्यक्ततत्त्वं भवति प्रकृतिः । व्यक्ततत्त्वं महदादीनि । ज्ञतत्त्वं चेतनपुरुषः । सांख्यसिद्धान्तानुसारं प्रकृतिः अचिन्त्यरचनारुपस्यास्य जगतः कारणं भवति । प्रकृतिः भोग्या, जगत् भोग्यमस्ति । अतः अपेक्षते तत्र कश्चित् भोक्ता । सः भोक्ता एव सांख्यदर्शने पुरुषो भवति । स च पुरुषः किमेकः उत अनेकः इति जिज्ञासायां पुरुषः अनेक इति समाधानम् । उक्तं च सांख्यसूत्रे -

जन्मादिव्यवस्थातः पुरुषबहुत्वमिति ।

अर्थात् यः पुण्यवान् स स्वर्गे जायते । यः पापवान् सः नरके उत्पद्यते । यः अज्ञानी सः बध्यते । यश्च ज्ञानी सः मुच्यते । तदुक्तम् ईश्वरकृष्णेन -

धर्मेण गमनमुर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययागिष्यते बन्धः ॥ इति ॥

अस्मात् तत्तत् प्राणिकृतकर्मफलं मानवात् मानवान्तरं भिद्यते इति स्पष्टमवगम्यते । अस्मात् कारणात् पुरुषः अनेको भवति न एकः । किञ्च दृश्यते हि लोके कश्चिदत्यन्त बुद्धिमान्, कश्चित् मन्दधी, कश्चित् क्रियाशीलः कश्चिच्च उदाशीनो भवति । एवं प्रत्येकेस्मिन् देहेन्द्रियसंघाते भेददर्शनात् पुरुषः अनेकः एव । उक्तं च वायुपुराणे -

क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते । बहुत्वाच्च शरीराणां शारीरी बहुधास्मृताः ॥

पुनश्चोक्तं तस्मिन्नेव -

तस्मात् पुरुषनानात्वं विज्ञेयं तु विजानता । इति ।

भगवता श्रीकृष्णेन श्रीमद्भगर्वीतायां पुनरप्युक्तम् -

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कुटस्थोऽक्षर उच्यते ॥ इति ॥

किञ्च पुरुषः नाना इति आचार्य-ईश्वरकृष्णः कथयति -

जननमरणकारणानां प्रतिनियमादयुगपत्प्रवृतेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव । इति ॥

जन्ममृत्यु-इन्द्रियादिसाधननियमात् पुरुषः अनेकः इति कथ्यते । अर्थात् एकस्मिन् समये कश्चिज्जायते कश्चिच्च म्रियते । एवं व्यवस्था वैलक्षण्यात् पुरुषः बहु भवति । अपि च शरीरं चक्षुरादीन्द्रियाणि अन्तः करणानि च यस्मात् भिन्नानि भवन्ति तस्मादेव कारणात् पुरुषः अनेक एव । एवमेव अयुगपत्प्रवृत्तिकारणतः त्रैगुण्यविपर्ययकारणतश्च पुरुषः अनेक एव । त्रैगुण्यविपर्ययात् नाम सत्त्वरजतमसां तारतम्यभावः । अत एव कश्चित् सात्त्विकः कश्चित् क्रियाशीलः कश्चित् अत्यन्तअलसश्च दृश्यते लोके । एतस्मात् कारणात् अपि पुरुषः अनेकः एव ।

एवं पुरुषबहुत्वं सांख्यदर्शने निरूपितमस्ति ।