साङ्ख्यशास्त्रारम्भं समर्थयत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र. साङ्ख्यकारिकारीत्या साङ्ख्यशास्त्रारम्भं समर्थयत।
साङ्ख्यकारिकाया: प्रथमयो: कारिकयो: साङ्ख्यशास्त्रस्य आरम्भ: समर्थित:।ते कारिके एवम्-

दु:खत्रय-अभिघाताद् जिज्ञासा तद्-अपघातके हेतौ।
दृष्टे सा अप-अर्था चेत्, न ,एकान्त-अत्यन्तत: अभावात्॥१
दृष्टवत् आनुश्रविक: स हि अविशुद्धिक्षय-अतिशययुक्त:।
तद्-विपरीत: श्रेयान् व्यक्त-अव्यक्त-ज्ञ-विज्ञानात्॥२

आध्यात्मिकम् आधिदैविकम् आधिभौतिकं चेति दु:खत्रयम्।तस्य जीवेन सह संसर्ग:(अभिघात:)विद्यते।अत: दु:खत्रयनाशस्य हेतुविषये (तदपघातके हेतौ)जिज्ञासा भवति। सर्वे जीवा: दु:खनिवृत्तिम् इच्छन्ति।अत: तस्या: उपायस्य इच्छा स्वाभाविकी।साधनेच्छां प्रति साध्येच्छा कारणमिति न्याय:।दु:खत्रयनाश: साध्यम्।तस्य साधनं साङ्ख्यशास्त्रम्।अत: तद् आरम्भणीयम्।
आक्षेप: १ - दु:खत्रयनाश: इति साध्यं साधयितुम् अन्ये नैके दृष्टा: (लौकिका:) उपाया: सन्ति।यथा व्याधिदु:खम् औषधेन नश्यति, अथवा दारिद्र्यदु:खम् उद्योगेन नश्यति।किमर्थं तर्हि आरम्भणीयं साङ्ख्यशास्त्रम्?
समाधानम्- दु:खनाशाय ये के लौकिका उपाया: सन्ति, तेषु द्वौ दोषौ स्त:।
ऐकान्तिकत्वाभाव:- ऐकान्तिकत्वं नाम निश्चय:।लौकिकै: उपायै: दु:खनाश: भवति एव इति वक्तुं न शक्यते।क्वचिद् विधिना भक्षिते अपि भेषजे रोग: न नश्यति इति पश्याम:। उद्योगेन बहुधा दारिद्र्यदु:खं नश्यति चेदपि क्वचिद् न नश्यति इति अनुभूयते।अयं दोष: साङ्ख्यशास्त्रे नास्ति। अनेन शास्त्रेण निश्चयेन दु:खत्रयं नश्यति।
आत्यन्तिकत्वाभाव:-आत्यन्तिकत्वं नाम दु:खस्य पुनरुद्भवासम्भव:। अयम् असम्भव: लौकिकेषु उपायेषु नास्ति।लौकिकै: उपायै: नष्टं दु:खं पुनरापतति।एकदा भेषजेन रोग: नष्ट: अपि कालान्तरेण पुन: पीडयति। उद्योगेन एकदा नष्टम् अपि दारिद्र्यं पुन: आपतति।साङ्ख्यशास्त्रेण नष्टं दु:खं पुन: जीवं न बध्नाति।
आक्षेप: २ –यद्यपि लौकिकै: उपायै: दु:खस्य निश्चयेन नाश: न भवति, तथापि वैदिकै: उपायै: भवति।किं साङ्ख्यशास्त्रेण?
समाधानम्- यथा लौकिका: उपाया: दु:खस्य आत्यन्तिकं नाशं कर्तुम् असमर्था:, तथैव वैदिका: उपाया: अपि।पुन: तत्र अविशुद्धि:, क्षय:, अतिशय: इति त्रयो दोषा: सन्ति-
अविशुद्धि:- कतिपयेषु वैदिककर्मसु हिंसा भवति।अत: वैदिकोपाया: अशुद्धा: सन्ति।
क्षय:- यथा लौकिकोपायै: प्राप्तं सुखं कालेन नश्यति, तथैव वैदिकोपायै: लब्धं सुखं कालेन नश्यति। एष: एव क्षय: दोष:।
अतिशय:- वैदिकोपायै: स्वर्गादिलोकं प्राप्ता: ये जीवा:, तेषां सुखेषु तरतमभाव: विद्यते।अयमेव अतिशयदोष:।अनेन मत्सरजन्यं दु:खं जायते।
अत: वैदिकोपाया: अपि त्रिविधदु:खस्य आत्यन्तिकनाशाय न अलम्।
साङ्ख्यशास्त्रोक्त: उपाय: एतद्विपरीत: अस्ति। एतद्विपरीत: इति उपर्युक्तदोषमुक्त: अस्ति।व्यक्तम् अव्यक्तं तथा पुरुष: इति एतेषां विज्ञानात् त्रिविधदु:खनाश: इति स: मार्ग:।अत: साङ्ख्यशास्त्रम् आरभणीयम्।

साङ्ख्यकारिकाप्रश्नोत्तरसङ्ग्रह: