साभाव्यापत्त्यधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

साभाव्यापत्तिरुपपत्ते:।३.१.२२
सङ्गति:- इष्टादिकारिण: चन्द्रमसं प्राप्नुवन्ति।तत्र यावत्सम्पातं वसन्ति।तत: सानुशया: अवरोहन्तीति उक्तम्।अस्मिन् अधिकरणे अवरोहणप्रकार: विचार्यते।
विषय: - अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम्।आकाशाद्वायुं, वायुर्भूत्वा धूमो भवति, धूमो भूत्वाभ्रं भवति, अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति।(छान्दो.५.१०.५)
विशय: - अवरोहन्त: जीवा: किम् आकाशादिस्वरूपं प्राप्नुवन्ति, आहोस्वित् आकाशादिसाम्यम्?
पू.- आकाशादिस्वरूपं प्रतिपद्यन्ते, ‘वायुर्भूत्वा धूमो भवति’ इत्यादिश्रुते:।अन्यथा लक्षणा करणीया वायुसमो भूत्वा धूमसमो भवतीति।सा च श्रुते: दुर्बला।
वे.- आकाशादिसाम्यं प्रतिपद्यन्ते, उपपत्ते:।चन्द्रमण्डले यद् अम्मयं शरीरं, तद् भोगक्षये विलीयते, आकाशवत् तरलं भवति, तत: वायुना वाह्यते, धूमादिभि: सम्पृच्यते इत्येव उपपद्यते।साक्षादाकाशस्वरूपत्वं नोपपद्यते, अन्यस्य अन्यस्वरूपप्राप्ते: असम्भवात्।
अपरं च आकाशादिस्वरूपप्राप्तौ सत्यां विभुत्वमपि प्राप्तम्।ततश्च वाय्वादिक्रमेणावरोहो न सम्भवति।अत: अवरोहन्त: जीवा: आकाशादिसाभाव्यमेव प्रतिपद्यन्ते इति अभ्युपेयम्।

तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्