सामग्री पर जाएँ

साम्परायाधिकरण...

विकिपुस्तकानि तः

साम्परायाधिकरणमारचयत।(३.३.२७,२८)
उ.-
अधिकरणसङ्गति:-
तृतीयाध्याये तृतीयपादे पूर्वस्मिन् अधिकरणे विद्यया कर्महानि: भवति इति सिद्धमिव गृहीत्वा हानौ उपायनस्योपसंहार: उक्त:। विद्यया हानि: भवतीति एव अत्र आक्षिप्यते इति आक्षेपसङ्गत्या इदम् अधिकरणं प्रवृत्तम्।अस्मिन् अधिकरणे एते सूत्रे स्त:-
साम्पराये तर्तव्याभावात्तथा ह्यन्ये।३.३.२७
छन्दत उभयाविरोधात्।३.३.२८
विषय: -
स आगच्छति विरजां नदीं तां मनसैवत्येति तत्सुकृतदुष्कृते विधूनुते।कौ.
विशय: -
कर्महानि: विरजोत्तरणोत्तरं भवति अथवा सांपराये (देहपाते) एव?
पूर्वपक्ष: -
कर्महानि: विरजोत्तरणोत्तरं भवति, तथा श्रुतत्वात्।
उत्तरपक्ष: -
कर्महानि: सांपराये (देहपाते) एव भवति, यतो हि
१ विद्यया परपदप्रेप्सु: न किमपि तर्तव्यं (प्राप्तव्यमस्ति) येन तत्फलकं कर्म अवशिष्येत्।
२ विद्यया कर्महानि: भवति इति श्रुति:।
३ अन्येऽपि शाखिन: तथा पठन्ति- अश्व इव रोमाणि विधूय पापम् (छा.८.१३.१)।अत: अत्रापि विरजोत्तरणोत्तरं प्रतिपादित: कर्मक्षय: सांपराये एव जात:, पठित: पश्चात् इति समाधातव्यम्।
४ यमनियमाद्यनुष्ठानं निमित्तं कर्मक्षय: नैमित्तिक: इति तयो: मिथ: सम्बन्धो वर्तते।देहे पतिते यमनियमाद्यनुष्ठाननिमित्तं न सम्भवति।अत: कर्मक्षय: अपि न सम्भवति।अत: सांपरायात्पूर्वमेव स्वच्छन्दतो नित्यनैमित्तिकानुष्ठानात् कर्मक्षयो मन्यव्य:।
५ तेन ताण्डिभि: शाट्यायनिभि: सह विरोध: न भवति।
निर्णय:-
सांपराये कर्मक्षय: भवति।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=साम्परायाधिकरण...&oldid=5707" इत्यस्माद् प्रतिप्राप्तम्