स्पष्टीकुरुत- अदीर्घत्वाच्च कालस्य... न विद्यते।

विकिपुस्तकानि तः
Jump to navigation Jump to search

अदीर्घत्वाच्च कालस्य गत्वा देशान् न पश्यति।प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते॥

पदच्छेदः
अदीर्घत्वात् च कालस्य गत्वा देशान् न पश्यति।प्रतिबुद्धः च वै सर्वः तस्मिन् देशे न विद्यते॥

अन्वयः
(तैजसः) कालस्य अदीर्घत्वात् च देशान् गत्वा न पश्यति।सर्वः प्रतिबुद्धः च वै तस्मिन् (दूरस्थे) देशे न विद्यते॥

अनुवादः
स्वप्नं पश्यन् आत्मा तैजसः।सः दूरदेशं गत्वा तत्रत्यान् भावान् पश्यति इति न यतो हि तस्य स्वप्नदर्शनकालः अदीर्घः (अल्पः) अस्ति।दूरदेशस्थं पदार्थं पश्यन् सः जागर्ति चेत् सः तस्मिन् दूरदेशे न विद्यते, निद्रास्थाने एव वर्तते।

स्पष्टीकरणम्
प्रपञ्चो वितथः इति प्रतिज्ञाय इदं वैतथ्यप्रकरणम् आरब्धम्।तत्र आदौ स्वाप्नप्रपञ्चस्य वैतथ्यं साध्यते।तदर्थं हेतुः दत्तः अन्तःस्थानात् संवृतेन हेतुना इति।तत्र आक्षेपः सम्भवति यत् कदाचित् तैजसः स्वप्ने तं तं देशं गत्वा तान् तान् पदार्थान् पश्यति।तदा ‘संवृतस्थानम्’ इति हेतुः स्वाप्नभावेषु गजादिषु न वर्तते।तेन आश्रयासिद्धः हेत्वाभासः स्यात्।तस्योत्तरम् अस्मिन् पद्ये वदति ग्रन्थकारः।
तैजसः स्वप्नकाले दूरदेशं गच्छेद् पुनरागच्छेत् च इति एतावान् दीर्घकालः स्वप्नस्य नास्ति।अतः तैजसस्य स्वप्ने दूरदेशगमनं न सम्भवति। स्वप्ने देशान्तरं गतः तैजसः यदि तदैव प्रतिबुद्ध्यते, तर्हि सः आत्मानं निद्रादेशे एव पश्यति, न तस्मिन् दूरदेशे।एतस्माद् अपि ज्ञायते यत् स्वप्ने आत्मा दूरदेशं न गच्छति।
रात्रौ स्वप्ने अहनि इव पदार्थान् पश्यति।अनेन अपि ज्ञायते यद् आत्मा देशान्तरं गत्वा न भावान् पश्यति इति।
स्वप्ने यैः जनैः सङ्गतो भवति, ते कदापि न वदन्ति यद् ‘रात्रौ त्वाम् उपलब्धवन्तः’इति।एतस्मादपि निश्चीयते यत् स्वप्ने आत्मा देशान्तरं न गच्छति इति।
संवृते शरीरे एव सः स्वाप्नभावान् पश्यति अतः न आश्रयासिद्धः हेत्वाभासः।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः