स्पष्टीकुरुत- अनिश्चिता यथा...तद्वदात्मा विकल्पितः।

विकिपुस्तकानि तः
Jump to navigation Jump to search

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता।सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः।

पदच्छेदः
अनिश्चिता यथा रज्जुः अन्धकारे विकल्पिता।सर्पधारादिभिः भावैः तद्वद् आत्मा विकल्पितः।

अन्वयः
यथा अन्धकारे अनिश्चिता रज्जुः सर्पधारादिभिः भावैः विकल्पिता, तद्वद् आत्मा विकल्पितः।

अनुवादः
अन्धकारे पतिता रज्जुः रज्जुरूपेण यदि अनिर्णीता, तदा सर्पः धारा इत्यादिभिः भावैः विकल्पिता भवति।तद्वद् शुद्धरूपेण अनिर्णीतः आत्मा जीवः, प्राणः इत्यादिभिः अनन्तभावैः विकल्पितः भवति।

स्पष्टीकरणम्
वैतथ्यप्रकरणे प्रतिपादितं यत् जाग्रत्पदार्थाः वितथाः, स्वाप्नपदार्थाः वितथाः।आत्मा तान् पदार्थान् विकल्पयते।एवं तर्हि आत्मा कथम् एतान् नाना विकल्पान् कल्पयते इति प्रश्नः उदेति।तस्योत्तरं प्रकृतवचने उक्तम्।
अन्धकारे पतिता रज्जुः रज्जुरूपेण न ज्ञायते।रज्जुस्वरूपस्य एतद् अज्ञानमेव नाना विकल्पानां निमित्तम्।रज्जुः यथार्थरूपेण ज्ञाता चेत् सर्पादिविकल्पाः नैव उदभविष्यन्। रज्ज्वज्ञानात् सर्पोऽयं, जलधारेयं, दण्डोऽयम् इति नाना विकल्पाः उद्भवन्ति।एषः दृष्टान्तः।अस्य सिद्धान्तः ‘तद्वद् आत्मा विकल्पितः’|
आत्मा वस्तुतः विशुद्धविज्ञप्तिरूपः।तस्य एतत् यथार्थरूपं न ज्ञातं चेत् अयं प्राणः अयं जीवः इत्यादयः नाना विकल्पाः उद्भवन्ति।तस्य शुद्धस्वरूपं ज्ञातं चेत् प्राणादयः विकल्पाः न उदभविष्यन्।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः