स्पष्टीकुरुत- उपलभ्याप्सु चेद् गन्धं…

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- स्पष्टीकुरुत- उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुरनैपुणात्।
सन्दर्भ:- ऐक्येन भासमानेषु देहेन्द्रियादिषु स्वस्वधर्माणां व्यवस्था श्रुत्या एव सम्भवति इति प्रतिपादयितुमयं दृष्टान्त:।पूर्णं वचनमेवम्-
उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुरनैपुणात।
पृथिव्यामेव तं विद्यात् अपो वायुञ्च संश्रितम्॥
दृष्टान्तविवरणम्-
सुरभि जलम् उपलभ्य केषाञ्चिद् अनिपुणानां मति: भवति यद् जलमिदं सुरभि।परं वस्तुत: गन्ध: पृथिवीगुण:।जले किञ्चित् पार्थिवं द्रव्यं मेलितं चेद् तस्य पार्थिवद्रव्यस्य गन्ध: जले प्रतीयते।अज्ञानिन: जना: तं गन्धं ‘पृथिव्या: अयं गन्ध:’ इति न जानन्ति।पृथिव्यादीनां परस्परं संसृष्टतया अन्यगुणस्य अन्यत्र अवभास: भवति।तदा प्रत्यक्षज्ञानं शङ्कितं भवति।तत्र आगमेन निर्णय: क्रियते यदयं गुण: अस्येति। एवमेव अहं स्थूल: इति अज्ञानवशात् जना: व्यवहरन्ति। अहंपदस्य अर्थ: आत्मा। आत्मा स्थूल: इति अर्थ: तत: निष्पद्यते।वस्तुत: स्थूलत्वं देहस्य धर्म:।परं देहात्मनो: भेदस्य अग्रहात् अयं प्रयोग: भवति।देहेन्द्रियप्राणात्मनां धर्मा: परस्परं संसृष्टा:।तेन प्रत्यक्षतया ज्ञात: धर्मधर्मिसम्बन्ध: शङ्कया कलुषित: भवति। अत्र आगमेन धर्मनियम: क्रियते यथा-
१ योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष: ससमान: सन् उभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव।(बृ.४.४.२)
विज्ञानमयत्वं – जीवस्य धर्म:।
एवम् अन्याभि: श्रुतिभि: कामसङ्कल्पादीनामपि अनात्माश्रयत्वं बोध्यते।
आक्षेप:-
दृष्टान्तो विषम:।दृष्टान्ते जले पृथिवीसम्प्रतिपत्ति: अस्ति।सिद्धान्ते आत्मनि अनात्मसम्प्रतिपत्तिरेव नास्ति।
समा.-
यथा निर्मले अपि जले पृथिव्यादिसद्भाव: सम्भवति, तथा आत्मनि तादात्म्यम् आपन्नानाम् अनात्मपदार्थानां सद्भाव: सम्भवति। तच्च तादात्म्यम् आध्यासिकं न वास्तवम्।तथापि आत्मनि अनात्मपदार्थसम्प्रतिपत्ति: सम्भवति।
एवं स्थिते पृथिव्या: धर्मा: के? जलस्य धर्मा: के इत्यत्र आगम: एव प्रमाणम्।तथा आत्मधर्मा: के? अनात्मधर्मा: के इत्यपि श्रुत्या एव ज्ञातुं शक्यते।
आक्षेप:-
ननु जले अनुभूयमानस्य गन्धस्य पृथिवीधर्मत्वम् अनुमानेनापि सिद्ध्यति, किमागमेन? निर्मलजलं तद्गतपृथिवीगन्धवत् पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत्
समा.-
अस्मिन् अनुमाने जलपृथ्वीसंयोग: हेतु:। निर्मलजलेऽस्मिन् पृथ्वीसंयोग: अस्ति इति केन प्रमाणेन ज्ञातम्?
आक्षेपक:-
तदपि अनुमानेन एव ज्ञायते।इदं जलं पृथ्वीसंयुक्तं, गन्धात् चन्दनमिश्रितोदकवत्।
समा.-
तर्हि अन्योन्याश्रयदोषोऽयम्।आदौ पृथ्वीसंयोगात् पृथ्वीगन्ध: साध्यते, तत: पुन: पृथ्वीगन्धात् पृथ्वीसंयोग: साध्यते।अत: आत्मनि तादात्म्यमिव प्राप्तानाम् अनात्मपदार्थानां विवेक: श्रुत्या एव नि:सन्दिग्धतया भवति इति सिद्धम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: