सामग्री पर जाएँ

स्पष्टीकुरुत- नाकाशस्य घटाकाशो...विकारावयवः तथा।

विकिपुस्तकानि तः

नाकाशस्य घटाकाशो विकारावयवो यथा।नैवात्मनः सदा जीवो विकारावयवः तथा

पदच्छेदः
न आकाशस्य घटाकाशः विकारावयवः यथा।न एव आत्मनः सदा जीवः विकारावयवः तथा।

अन्वयः
यथा आकाशस्य घटाकाशः विकारावयवः न , तथा सदा आत्मनः जीवः विकारावयवः न एव ।

अनुवादः
आकाशस्य घटाकाशः विकारः नास्ति, अवयवः च नास्ति।तथा परमात्मनः जीवः इति न विकारः ,न वा अवयवः।

सन्दर्भः
अद्वैतप्रकरणे एकमेव ब्रह्म अद्वितीयम् इति सिद्धान्तः प्रतिज्ञातः।जीवानां भेदाः तु दृश्यन्ते तथापि आत्मैकत्वं कथं प्रतिपाद्यते इति प्रश्नः तत्र उपस्थितः।
तस्य उत्तरम् उक्तं देहोपाधित्वात् इति।देहः उपाधिरूपः।तत्र भेदो विद्यते।अतः जीवेषु रूपकृतः कार्यकृतः तथा समाख्याकृतः (नामकृतः) भेदः दृश्यते परं सः भेदः न परमार्थः, सः तु औपाधिकः अतः वितथः इति उत्तरं दत्तम्।
पुनः प्रश्नः उपस्थितः यत् किमर्थम् अयं जीवभेदः परमार्थत्वेन न गृह्यते? तस्य उत्तरं प्रकृतकारिकायां दत्तम्।

स्पष्टीकरणम्-
महदाकाशस्य घटाकाशः, करकाकाशः, मठाकाशः इत्यादयो भेदाः दृश्यन्ते।तथापि महदाकाशस्य ते विकाराः न सन्ति।जलस्य फेनबुद्बुदादयः विकाराः सन्ति।तथा आकाशस्य घटाकाशः विकारः इति वक्तुं न शक्यते।
महदाकाशस्य घटाकाशः अवयवः नास्ति।यथा वृक्षस्य शाखादयः अवयवाः।तथा आकाशस्य घटाकाशः विकारः नास्ति।
एषः दृष्टान्तः।सिद्धान्ते अपि एवमेव चिन्तनीयम्। नाना जीवाः परमात्मनः भेदाः इव भासन्ते।तथापि ते परमात्मनः न विकाराः, न वा अवयवाः।अतः ते भेदाः परमार्थस्वरूपाः इति वक्तुं न शक्यते।ते औपाधिकाः एव मन्तव्याः।
दृष्टान्ते घटस्य कम्बुग्रीवादिरूपं, जलधारणादिकं कर्म तथा घटः इति समाख्या इति एते भेदाः घटनिमित्ताः सन्ति, न परमार्थतः आकाशस्य। तथैव सिद्धान्ते देहाद्युपाधीनां रूपं, तेषां कर्म तथा नाम इति एते भेदाः उपाधिनिमित्ताः सन्ति, न परमार्थतः आत्मनः। एतादृशैः औपाधिकभेदैः आत्मनः अद्वयत्वं न नश्यति इति आशयः।

 गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः  गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः