सामग्री पर जाएँ

स्पष्टीकुरुत- विश्वो हि...त्रिधा भोगं निबोधत।

विकिपुस्तकानि तः

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक्।आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत।

पदच्छेदः
विश्वः हि स्थूलभुक् नित्यं तैजसः प्रविविक्त-भुक्।आनन्दभुक् तथा प्राज्ञः त्रिधा भोगं निबोधत।

अन्वयः
हि विश्वः नित्यं स्थूलभुक् ।तैजसः नित्यं प्रविविक्त-भुक्। तथा प्राज्ञः नित्यम् आनन्दभुक्। (एवम् एतेषां) त्रिधा भोगं निबोधत।

अनुवादः
विश्वसंज्ञकः आत्मा सदा स्थूलान् भोगान् भुङ्क्ते।तैजसः सदा सूक्ष्मभोगान् भुङ्क्ते।प्राज्ञः सदा आनन्दं भुङ्क्ते।

सन्दर्भः
गौडपादकारिकायाः प्रथमे प्रकरणे आत्मनः त्रैविध्यम् वर्णितम्।तेषां भोगाः अस्मिन् पद्ये उक्ताः।

स्पष्टीकरणम्।
विश्वः स्थूलभुक्
जागरितस्थानः आत्मा विश्वः इति संज्ञया उच्यते।वैश्वानरः इत्यपि अस्य एव नाम।विश्वेषां नराणाम् अनेकधा नयनात् वैश्वानरः।अथवाविश्वः च अयं नरः च विश्वानरः।विश्वानरः एव वैश्वानरः।
अयं विश्वः बहिष्प्रज्ञः अस्ति।बाह्यविषया एव प्रज्ञा यस्य , सः बहिष्प्रज्ञः।सः प्राधान्येन दक्षिणे नेत्रे तिष्ठति।सः शब्दादीन् बाह्यान् स्थूलान् एव भोगान् भुङ्क्ते।अतः सः स्थूलभुक् इति उच्यते।

तैजसः प्रविविक्तभुक्
स्वप्नस्थानः आत्मा तैजसः इति संज्ञया उच्यते।अयं तैजसः अन्तःप्रज्ञः अस्ति।अन्तः मनोवासनारूपा एव प्रज्ञा यस्य,सः अन्तःप्रज्ञः।जागरितदशायां ये बाह्यविषयाः अनुभूताः, तेषां वासनारूपाः संस्काराः मनसि तिष्ठन्ति।मनः एतैः संस्कारैः चित्रितम् इव भवति।तादृशं विचित्रसंस्कारैः चित्रितं मनः स्वप्नकाले अविद्यया प्रेरितं भवति। तदा इन्द्रियाणां साहाय्यं विना तदेव मनः जगद्वद् अवभासते।इदम् अन्तर्जगद् एव प्रज्ञा यस्य सः अन्तःप्रज्ञः।
अस्य तैजसस्य प्रज्ञा बाह्यविषयशून्या अस्ति।केवलप्रकाशस्वरूपा प्रज्ञा अस्य अतः तैजसः इति अस्य नामधेयम्।
प्रविविक्ताः इत्युक्ते सूक्ष्माः।बाह्यविषयाणाम् अपेक्षया अन्तर्गताः वासनामयाः भोगाः सूक्ष्माः। तान् सूक्ष्मान् भोगान् तैजसः भुङ्क्ते इति प्रविविक्तभुक् सः।

प्राज्ञः आनन्दभुक्
निद्रावस्थायां व्यवस्थितः आत्मा प्राज्ञः इति उच्यते। प्रज्ञप्तिमात्रम् अस्य एव असाधारणधर्मः।अतः एषः प्राज्ञः।
अत्र आत्मा न कञ्चन बाह्यविषयं कामयते, न कमपि स्वप्नं पश्यति।अत्र आत्मा प्रज्ञानघनः विद्यते।यथा दिवा दृश्यमानः सकलः प्रपञ्चः नैशे अन्धकारे एकीभूतः इव भवति, तथा जाग्रत्स्वप्नावस्थयोः सकलः प्रपञ्चः अस्यां दशायाम् एकीभूतः एव भवति।जाग्रद्दशायां विद्यमानानि मनःस्पन्दनानि तथा स्वप्नदशायां विद्यमानानि मनःस्पन्दनानि अत्र घनीभवन्ति अतः एषः प्रज्ञानघनः उच्यते।एषः आनन्दमयः इत्युक्ते आनन्दप्रायः अस्ति, न तु आनन्दः एव।
यथा लोके आयासरहितः जनः आनन्दभुक् इति उच्यते तथा अयमपि आयासरहितः अस्ति।अतः प्राज्ञः आनन्दभुक्।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः