स्पष्टीकुरुत- वैतथ्यं सर्वभावानां...हेतुना।

विकिपुस्तकानि तः
Jump to navigation Jump to search

वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः।अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना।

पदच्छेदः
वैतथ्यं सर्वभावानां स्वप्ने आहुः मनीषिणः।अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना।

अन्वयः
मनीषिणः तु भावानाम् अन्तःस्थानात् संवृतत्वेन हेतुना स्वप्ने सर्वभावानां वैतथ्यम् आहुः।

सरलार्थः-
स्वप्ने सर्वे भावाः शरीरान्तःस्थाः सन्ति, तथा सङ्कुचिते स्थाने सन्ति।अतः विद्वांसः ‘तेषां सर्वेषां वैतथ्यम् अस्ति’ इति वदन्ति।

सन्दर्भः-
गौडपादकारिकायाः द्वितीयस्य वैतथ्यप्रकरणस्य आरम्भः अनेन पद्येन भवति।प्रपञ्चस्य वैतथ्यम् उपपत्तिभिः साधयितुम् अस्य प्रकरणस्य रचना अस्ति।तत्र आदौ स्वप्नपदार्थानां वैतथ्यं साधयितुम् उपक्रमते अनेन पद्येन।

स्पष्टीकरणम्-
वितथं नाम असत्यम्।वितथस्य भावः वैतथ्यम्।स्वाप्नपदार्थाः वितथाः सन्ति इति प्रतिज्ञाः।तत्र उपपत्तिः उक्ता अन्तःस्थानात् इति।स्वप्ने दृश्यमानाः अश्वगजादयः पदार्थाः शरीरस्य अन्तः भासन्ते, न शरीराद् बहिः।न च एतत् सम्भवति।तस्मात् ते भावाः वितथाः सन्ति।

आक्षेपः
अत्र वैतथ्यं साध्यम्।अन्तःस्थानम् इति हेतुः।अयं हेतुः अनेकान्तिकः। मठान्तर्गते कस्मिंश्चिद् घटादि-पदार्थे वैतथ्याभावः (साध्याभावः) विद्यते परं तत्र हेतुः अन्तःस्थानम् अस्ति। एवं साध्याभाववति वस्त्राच्छादितघटादौ सत्त्वात् व्यभिचारी अयम् अन्तःस्थानहेतुः।

समाधानम्
अतः एव अपरः हेतुः उक्तः संवृतत्वेन हेतुना इति। शरीरान्तःस्थानं संवृतम् अस्ति। संवृतमिति ह्रस्वं, सङ्कुचितम्।देहान्तर्गते नाड्यादिषु सङ्कुचितेषु स्थानेषु पर्वतादीनां सम्भवतः नास्ति।अतः ते स्वाप्नभावाः मिथ्या भवितुम् अर्हन्ति।


गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः