स्मृत्यधिकरणम्

विकिपुस्तकानि तः

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न, अन्यस्मृत्यनवकाशदोषप्रसङ्ग:।२.१.१
पू.- साङ्ख्यादिस्मृतिषु अचेतनं प्रधानं स्वतन्त्रं जगत्कारणमुपनिबध्यते।यदि चेतनं ब्रह्मैव स्वतन्त्रं जगत्कारणमित्यभ्युपगम्यते,तर्हि ता: स्मृतयोऽनवकाशा: स्यु:।
वे.- यदि तासां स्मृतीनां प्रामाण्यं मत्वा ईश्वरकारणवाद आक्षिप्यते; तर्हि अन्यासाम् ईश्वरकारणवादिनीनां स्मृतीनामनवकाशप्रसङ्ग: यथा – १ अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा। (भ.गी. ७.६)
२ तस्मात्काया: प्रभवन्ति सर्वे स मूलं शाश्वतिकं स नित्य:।(आपस्तम्बधर्मसूत्रं १.८.२३.२)
एतादृश्यां विप्रतिपत्तौ काचिद् ग्राह्या काचिदग्राह्या।वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोष:।

इतरेषां चानुपलब्धे:।२.१.२
वे.- प्रधानादितराणि यानि महदादितत्त्वानि साङ्ख्यै: कल्पितानि, तानि वेदे नोपलभ्यन्ते।यदि वा क्वचिद् महदादिपरं श्रवणं भासते, तत्रापि न तत्परमिति विवृतम् आनुमानिकमप्येकेषामिति सूत्रे (१.४.१)।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=स्मृत्यधिकरणम्&oldid=5593" इत्यस्माद् प्रतिप्राप्तम्