स्वलावण्याशंसा...

विकिपुस्तकानि तः

मूलम्
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्।
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्।
अवैति त्वामद्धा बत वरद मुग्धा युवतयः।। २३।।

पदच्छेदः-
स्वलावण्य-आशंसा-धृतधनुषम् अह्नाय तृणवत्।पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधम् अपि।।
यदि स्त्रैणं देवी यमनिरत देह-अर्ध-घटनात्।अवैति त्वाम् अद्धा बत वरद मुग्धाः युवतयः।। २३।।

अन्वयः
हे पुरमथन, हे वरद, स्वलावण्य-आशंसा-धृतधनुषम् पुष्पायुधम् तृणवत् अह्नाय पुरः प्लुष्टं दृष्ट्वा अपि हे यमनिरत,यदि देवी देह-अर्ध-घटनात् त्वाम् स्त्रैणं अवैति (तर्हि) अद्धा ! युवतयः मुग्धाः बत २३।।

सरलार्थः-
हे पुरमथन, स्वलावण्यविषये मदनः विश्वस्तः आसीत्।तेन त्वां वेद्धुं धनुः धृतम्।सः त्वया पार्वत्याः पुरतः क्षणेन तृणवत् दग्धः।हे यमनिरत, एतद् दृष्ट्वा अपि पार्वती त्वां स्त्रैणं मन्यते।यतः त्वया देहस्य अर्धे देवी धृता।अहो युवतयः मुग्धाः खलु॥ ॥२३


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=स्वलावण्याशंसा...&oldid=6178" इत्यस्माद् प्रतिप्राप्तम्