स...
संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताकभेदः = ।
‘संयोगसम्बन्धेन तद्वान् न’ इति प्रतीतिसिद्धभेदः।
यस्मिन् महानसे घटः नास्ति, तस्मिन् महानसे सघटमहानसस्य भेदः वर्तते। स च भेदः संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताक-भेदः, ‘अयं महानसः संयोगसम्बन्धेन घटवान् न’ इति प्रतीतिसिद्धभेदः,
वा विद्यते।
यस्मिन् दध्नि शर्करा न संयोजिता, तस्मिन् दध्नि सशर्करदध्नः भेदः वर्तते। स च भेदः संयोगसम्बन्धावच्छिन्न-शर्करात्वावच्छिन्न-अवच्छेदकता-प्रतियोगिताक-भेदः , ‘इदं दधि संयोगसम्बन्धेन शर्करावत् न’ इति प्रतीतिसिद्धभेदः, वा विद्यते।
संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् =
संयोगसम्बन्धेन तदधिकरणम्।संयोगसम्बन्धेन तद्वत्।
यथा घटः भूतले अस्ति इत्युक्ते भूतलं संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् संयोगसम्बन्धेन घटाधिकरणं,संयोगसम्बन्धेन घटवत्, वा।
यथा अन्नं ग्रहण्यामस्ति इत्युक्ते ग्रहणी संयोगसम्बन्धावच्छिन्न-अन्नत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावती, संयोगसम्बन्धेन अन्नाधिकरणं,संयोगसम्बन्धेन अन्नवती, वा।
संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्नसम्बद्धतानिरूपितसम्बन्धितावत् =
संयोगसम्बन्धेन तत्सम्बन्धि।
यथा घटोपरि स्थापितः पटः संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-सम्बद्धतानिरूपित-सम्बन्धितावान्, संयोगसम्बन्धेन घटसम्बन्धी वास्ति।
यथा निम्बवृक्षारूढा गुडूची संयोगसम्बन्धावच्छिन्न-निम्बत्वावच्छिन्न-सम्बद्धतानिरूपित-सम्बन्धितावती, संयोगसम्बन्धेन निम्बसम्बन्धिनी वास्ति।
संयोगसम्बन्धेन तत्सम्बन्धि =
संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्नसम्बद्धतानिरूपितसम्बन्धितावत्।
घटोपरि स्थापितः पटः संयोगसम्बन्धेन घटसम्बन्धी, संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्नसम्बद्धतानिरूपितसम्बन्धितावान् वास्ति।
निम्बवृक्षारूढा गुडूची संयोगसम्बन्धेन निम्बसम्बन्धिनी, संयोगसम्बन्धावच्छिन्न-निम्बत्वावच्छिन्नसम्बद्धतानिरूपितसम्बन्धितावती वास्ति।
संयोगसम्बन्धेन तदधिकरणम् =
संयोगसम्बन्धेन तद्वत्। संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्न-आधेयता-निरूपित-अधिकरणतावत्।
यथा ‘घटः भूतले अस्ति’ इत्युक्ते भूतलं संयोगसम्बन्धेन घटाधिकरणं , संयोगसम्बन्धेन घटवत्, संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-आधेयता-निरूपित-अधिकरणतावत् वा।
यथा ‘अन्नं ग्रहण्यामस्ति’ इत्युक्ते ग्रहणी संयोगसम्बन्धेन अन्नाधिकरणं, संयोगसम्बन्धेन अन्नवती, संयोगसम्बन्धावच्छिन्न-अन्नत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावती वा।
संयोगसम्बन्धेन तद्वत् =
संयोगसम्बन्धेन तदधिकरणम्।संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत्।
यथा ‘घटः भूतले अस्ति’ इत्युक्ते भूतलं संयोगसम्बन्धेन घटवत्,, संयोगसम्बन्धेन घटाधिकरणं, संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावत् वा।
यथा अन्नं ग्रहण्यामस्ति इत्युक्ते ग्रहणी संयोगसम्बन्धेन अन्नवती, संयोगसम्बन्धेन अन्नाधिकरणं, संयोगसम्बन्धावच्छिन्न-अन्नत्वावच्छिन्न-आधेयतानिरूपित-अधिकरणतावती वा।
संयोगसम्बन्धेन तद्वान् न इति प्रतीतिसिद्धभेदः =
संयोगसम्बन्धावच्छिन्न-तत्त्वावच्छिन्न-अवच्छेदकताकप्रतियोगिताक-भेदः।
यथा यस्मिन् महानसे घटः नास्ति, तस्मिन् महानसे सघटमहानसस्य भेदः वर्तते। स च भेदः ‘अयं महानसः संयोगसम्बन्धेन घटवान् न’ इति प्रतीतिसिद्धभेदः, संयोगसम्बन्धावच्छिन्न-घटत्वावच्छिन्न-अवच्छेदकताक-प्रतियोगिताक-भेदः वा विद्यते।
यथा यस्मिन् दध्नि शर्करा न संयोजिता, तस्मिन् दध्नि सशर्करदध्नः भेदः वर्तते। स च भेदः ‘इदं दधि संयोगसम्बन्धेन शर्करावत् न’ इति प्रतीतिसिद्धभेदः, संयोगसम्बन्धावच्छिन्न-शर्करात्वावच्छिन्न-अवच्छेदकता-प्रतियोगिताक-भेदः वा विद्यते।
संवित् =
ग्रहः।ज्ञानम् ।धी: ।प्रतीतिः ।प्रत्ययः ।बुध्दिः ।बोधः।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटसंवित् घटग्रहः, घटज्ञानम् , घटधीः, घटप्रतीतिः, घटप्रत्ययः, घटबुध्दिः, घटबोधः, वास्ति।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरसंवित् शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, शरीरप्रतीतिः, घटप्रत्ययः, शरीरबुध्दिः, शरीरबोधः, वास्ति ।
संशयः =
सन्देहः।शङ्का।
यथा अयं स्थाणुर्वा पुरुषो वेति संशयः, सन्देहः, शङ्का वा भवति।
यथा इयं शतावरी वा श्वेतमुसली वेति संशयः, शङ्का, सन्देहः वा भवति।
संसर्गः =
सम्बन्धः।
यथा घटे भूतलस्य संसर्गः सम्बन्धः वा विद्यते।
यथा रक्ते पित्तस्य संसर्गः सम्बन्धः वा विद्यते।
सत्त्वम् =
आधेयता। आधेयत्वम्। वृत्तिः।
यथा ’भूतले घटः ’ इत्यत्र घटे सत्त्वम् आधेयता, आधेयत्वं, वृत्तिः, वास्ति ।
यथा रक्ते पित्तमित्यत्र पित्ते सत्त्वम् आधेयता, आधेयत्वं, वृत्तिः,वास्ति।
सन्देहः =
संशयः।शङ्का।
यथा अयं स्थाणुर्वा पुरुषो वेति सन्देहः, संशयः, शङ्का वा भवति।
यथा इयं शतावरी वा श्वेतमुसली वेति सन्देहः, शङ्का, संशयः वा भवति।
सन्निकर्षः =
प्रत्यासत्तिः।
यथा प्रत्यक्षज्ञानं प्रति इन्द्रियार्थयोः सन्निकर्षः. प्रत्यासत्तिः वा हेतुः
सपक्षः =
अन्वयदृष्टान्तः। अन्वयि-उदाहरणम्।
यथा यत्र धूमस्तत्राग्निः इति व्याप्तौ महानसः सपक्षः, अन्वयदृष्टान्तः, अन्वयि-उदाहरणम् वा ।
यथा यत्र व्यायामशक्तिः तत्र बलम् इति व्याप्तौ बलवान् भीमसेनः सपक्षः, अन्वयदृष्टान्तः, अन्वयि-उदाहरणम् वा ।
समवायसम्बन्धावच्छिन्न- तत्त्वावच्छिन्नप्रतियोगितानिरूपकाभावः =
समवायसम्बन्धेन तदभावः।
यथा भूतले समवायसम्बन्धेन घटो नास्ति इत्युक्ते भूतले समवायसम्बन्धावच्छिन्न- घटत्वावच्छिन्न-प्रतियोगितानिरूपकाभावः, समवायसम्बन्धेन घटाभावः, वास्ति।
यथा आमाशये समवायसम्बन्धेन अन्नं नास्ति इत्युक्ते आमाशये समवायसम्बन्धावच्छिन्न-अन्नत्वावच्छिन्न-प्रतियोगितानिरूपक-अभावः समवायसम्बन्धेन अन्नाभावः वास्ति।
समवायसम्बन्धावच्छिन्नवृत्तित्वम् =
समवेतत्वम्।
यथा ‘अग्नौ उष्णस्पर्शः समवायेन वर्तते’ इति उष्णस्पर्शे समवायसम्बन्धावच्छिन्न-अग्नि-वृत्तित्वम् अग्निसमवेतत्वं वा विद्यते।
यथा ‘कफे शीतगुणः समवायेन वर्तते’ इति शीतगुणे समवायसम्बन्धावच्छिन्न-कफवृत्तित्वं कफसमवेतत्वं वा विद्यते
समवायसम्बन्धेन तदभावः =
समवायसम्बन्धावच्छिन्न- तत्त्वावच्छिन्नप्रतियोगितानिरूपकाभावः।
यथा भूतले समवायसम्बन्धेन घटो नास्ति इत्युक्ते भूतले समवायसम्बन्धेन घटाभावः, समवायसम्बन्धावच्छिन्न- घटत्वावच्छिन्न-प्रतियोगितानिरूपकाभावः वास्ति।
यथा आमाशये समवायसम्बन्धेन अन्नं नास्ति इत्युक्ते आमाशये समवायसम्बन्धेन अन्नाभावः, समवायसम्बन्धावच्छिन्न-अन्नत्वावच्छिन्न-प्रतियोगितानिरूपक-अभावःवास्ति।।
समवायिकारणम् =
उपादानकारणम्।
यथा पटस्य समवायिकारणम्, उपादानकारणं वा तन्तुः।
यथा कफस्य समवायिकारणम्, उपादानकारणं वा जलम्।
समवेतत्वम् =
समवायसम्बन्धावच्छिन्नवृत्तित्वम्।
यथा ‘अग्नौ उष्णस्पर्शः समवायेन वर्तते’ इति उष्णस्पर्शे अग्निसमवेतत्वं समवायसम्बन्धावच्छिन्नाग्निवृत्तित्वं वा विद्यते।
यथा ‘कफे शीतगुणः समवायेन वर्तते’ इति शीतगुणे कफसमवेतत्वं समवायसम्बन्धावच्छिन्नकफवृत्तित्वं वा विद्यते
समानाधिकरणत्वम् =
सामानाधिकरण्यम्।ऐकाधिकरण्यम्।एकाधिकरणवृत्तित्वम्।
यथा रसगन्धयोः पृथिव्यां समानाधिकरणत्वं, सामानाधिकरण्यम्, ऐकाधिकरण्यम्,
एकाधिकरणवृत्तित्वं वास्ति।
यथा मधुररस-शीतवीर्ययोः दुग्धे समानाधिकरणत्वं, सामानाधिकरण्यम्, ऐकाधिकरण्यं एकाधिकरणवृत्तित्वं वा।
सम्बन्धः =
संसर्गः।
यथा घटे भूतलस्य सम्बन्धः, संसर्गः वा विद्यते।
यथा रक्ते पित्तस्य सम्बन्धः, संसर्गः वा विद्यते।
सव्यभिचारः =
अनैकान्तिकः।व्यभिचारी।
यथा पर्वतो वह्निमान, पार्थिवत्वात् इत्यनुमाने पार्थिवत्वम् इति हेतुः सव्यभिचारः, अनैकान्तिकः, व्यभिचारी वा।
यथा अयं कामली, पीतमूत्रवत्त्वात् इत्यनुमाने पीतमूत्रवत्त्वम इति हेतुः सव्यभिचारः, अनैकान्तिकः, व्यभिचारी वा।
सहचारग्रहः =
सामानाधिकरण्यज्ञानम्।
यथा हेतुसाध्ययोः भूयः सहचारग्रहः, समानाधिकरण्यज्ञानं वा व्याप्तिग्रहं प्रति कारणम्।
यथा पादनिष्ठमण्डलनिष्ठ-कण्डूलसीकयोः सहचारग्रहात्, सामानाधिकरण्यज्ञानात् वा विचर्चिकाविनिश्चयः भवति।
साक्षात्कारः =
प्रत्यक्षम्। अपरोक्षम्। उपलब्धिः। अध्यक्षम्। उपलम्भः।
यथा स्फीतालोकवर्तिनः घटस्य साक्षात्कारः,प्रत्यक्षम्, अपरोक्षम्, उपलब्धिः, अध्यक्षम्, उपलम्भः वा चक्षुषा भवति।
यथा व्रणगतपूयगन्धस्य साक्षात्कारः, प्रत्यक्षम्, अपरोक्षम्, उपलब्धिः, अध्यक्षम् उपलम्भः वा घ्राणेन्द्रियेण भवति।
साक्षात्कारविषयः =
प्रत्यक्षः। प्रत्यक्षज्ञानविषयः। अपरोक्षज्ञानविषयः। साक्षात्कृतः। उपलब्धः। उपलब्धिविषयः।
यथा स्फीतालोकवर्ती घटः साक्षात्कारविषयः, प्रत्यक्षः प्रत्यक्षज्ञानविषयः अपरोक्षज्ञानविषयः, साक्षात्कृतः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
यथा देहसन्तापः साक्षात्कारविषयः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः,अपरोक्षज्ञानविषयः, साक्षात्कृतः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
साक्षात्कृतः =
प्रत्यक्षः। प्रत्यक्षज्ञानविषयः। अपरोक्षज्ञानविषयः। साक्षात्कारविषयः। उपलब्धः। उपलब्धिविषयः।
यथा स्फीतालोकवर्ती घटः साक्षात्कृतः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञान-विषयः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
यथा देहसन्तापः साक्षात्कृतः, प्रत्यक्षः, प्रत्यक्षज्ञानविषयः, अपरोक्षज्ञानविषयः, साक्षात्कारविषयः, उपलब्धः, उपलब्धिविषयः वा अस्ति।
सादित्वम् =
कार्यत्वम्। उत्पत्तिमत्त्वम्। प्रागभावप्रतियोगित्वम्।
यथा घटे सादित्वं, कार्यत्वम्,, उत्पत्तिमत्त्वं, प्रागभावप्रतियोगित्वं वा विद्यते।
यथा शरीरे सादित्वं, कार्यत्वम्,,उत्पत्तिमत्त्वं, प्रागभावप्रतियोगित्वं वा विद्यते।
साधकम् =
लिङ्गम् ।साधनं ।हेतुः।
यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यनुमाने धूमः साधकं, ,लिङ्गं, साधनं,, हेतुः वा।
यथा ‘भीमसेनः बलवान्, उत्तमव्यायामशक्तेः’ इत्यनुमाने उत्तमव्यायामशक्तिः साधकं, ,लिङ्गं,, साधनं,, हेतुः वा।
साधनम् =
लिङ्गम्। साधकं । हेतुः।
यथा पर्वतो वह्निमान् धूमात् इत्यनुमाने धूमः साधनं, लिङ्गं, साधकं , हेतुः वा।
यथा भीमसेनः बलवान्, उत्तमव्यायामशक्तेः इत्यनुमाने उत्तमव्यायामशक्तिः साधनं , लिङ्गं, साधकं,, हेतुः वा।
साध्यवदवृत्तिः =
साध्यवद्व्यावृत्तः। साध्यवन्निरुपितवृत्तित्वाभाववान्।
यथा शब्दो नित्यः कृतकत्वात् इत्यनुमाने साध्यं नित्यत्वम्।हेतुः कृतकत्वम्।अयं हेतुः साध्यवद्-आत्मादि-अवृत्तिः, साध्यवतः आत्मादेः व्यावृत्तः,साध्यवद्-आत्मादि-निरूपित-वृत्तित्वाभाववान् वास्ति।
यथा अयं श्लेष्मलः शीघ्रगतित्वात् इत्यनुमाने साध्यं श्लेष्मलत्वम्।हेतुः शीघ्रगतित्वम्। अयं हेतुः श्लेष्मलत्ववदवृत्तिः, साध्यवतः श्लेष्मलाद् व्यावृत्तः, श्लेष्मलत्ववन्निरूपितवृत्तित्वाभाववान् वास्ति।
साध्यवद्व्यावृत्तः =
साध्यवदवृत्तिः।साध्यवन्निरुपितवृत्तित्वाभाववान्।
यथा शब्दो नित्यः कृतकत्वात् इत्यनुमाने साध्यं नित्यत्वम्।हेतुः कृतकत्वम्।अयं हेतुः साध्यवतः आत्मादेः व्यावृत्तः, साध्यवद्-आत्मादि-अवृत्तिः,साध्यवद्-आत्मादिनिरूपितवृत्तित्वाभाववान् वास्ति।
यथा अयं श्लेष्मलः शीघ्रगतित्वात् इत्यनुमाने साध्यं श्लेष्मलत्वम्।हेतुः शीघ्रगतित्वम्।अयं हेतुः साध्यवतः श्लेष्मलाद् व्यावृत्तः, श्लेष्मलत्ववदवृत्तिः, श्लेष्मलत्ववन्निरूपितवृत्तित्वाभाववान् वास्ति।
साध्यवन्निरुपितवृत्तित्वाभाववान् =
साध्यवद्व्यावृत्तः।साध्यवदवृत्तिः।
यथा ‘शब्दो नित्यः कृतकत्वात्’ इत्यनुमाने साध्यं नित्यत्वम्।हेतुः कृतकत्वम्।अयं हेतुः साध्यवद्-आत्मादिनिरूपितवृत्तित्वाभाववान्, साध्यवतः आत्मादेः व्यावृत्तः, साध्यवद्-आत्मादि-अवृत्तिः,वास्ति।
यथा ‘अयं श्लेष्मलः शीघ्रगतित्वात्’ इत्यनुमाने साध्यं श्लेष्मलत्वम्।हेतुः शीघ्रगतित्वम्।अयं हेतुः श्लेष्मलत्ववन्निरूपितवृत्तित्वाभाववान्, साध्यवतः श्लेष्मलाद् व्यावृत्तः, श्लेष्मलत्ववदवृत्तिः, वास्ति।
साध्यसाधनभावः =
कार्यकारणभावः।जन्यजनकभावः।हेतुहेतुमद्भावः।
यथा तन्तुपटयोः साध्यसाधनभावः, कार्यकारणभावः, जन्यजनकभावः, हेतुहेतुमद्भावः, वा विद्यते।
यहता जलकफयोः साध्यसाधनभावः, कार्यकारणभावः, न्यजनकभावः, हेतुहेतुमद्भावः, वा विद्यते।
सान्तत्वम् =
नाशवत्त्वम्।नाशप्रतियोगित्वम्।ध्वंसवत्त्वम्।ध्वंसप्रतियोगित्वम्।
यथा घटे सान्तत्वं, नाशवत्त्वं, नाशप्रतियोगित्वं, ध्वंसवत्त्वं, ध्वंसप्रतियोगित्वं वा विद्यते।
यथा शरीरे सान्तत्वं, नाशवत्त्वं, नाशप्रतियोगित्वं, ध्वंसवत्त्वं, ध्वंसप्रतियोगित्वं वा विद्यते।
सामानाधिकरण्यम् =
ऐकाधिकरण्यम्।एकाधिकरणवृत्तित्वम्।समानाधिकरणत्वम् ।
यथा रसगन्धयोः पृथिव्यां सामानाधिकरण्यम्, ऐकाधिकरण्यम्, एकाधिकरणवृत्तित्वं,
समानाधिकरणत्वं वास्ति।
यथा मधुररस-शीतवीर्ययोः दुग्धे सामानाधिकरण्यम्, ऐकाधिकरण्यम्, एकाधिकरणवृत्तित्वं, समानाधिकरणत्वं वास्ति।
सामानाधिरकण्यज्ञानम् =
सहचारग्रहः।
यथा हेतुसाध्ययोः भूयः समानाधिकरण्यज्ञानं, सहचारग्रहः, वा व्याप्तिग्रहं प्रति कारणम्।
यथा पादनिष्ठमण्डलनिष्ठ-कण्डूलसीकयोः सामानाधिकरण्यज्ञानात्, सहचारग्रहात् वा विचर्चिकाविनिश्चयः भवति।
सामान्यम् =
जातिः ।
यथा घटत्वम् इति सामान्यं जातिः वा।
यथा धातुत्वम् इति जातिः सामान्यं वा।
सुखम् =
आनन्दः।
सुखम्, आनन्दः वात्मगुणः।
हेतुविपरीतान्नस्य सुखावहः, आनन्दावहः वा उपयोगः उपशयः।
स्पर्शनग्राह्यत्वम् =
स्पार्शनत्वम्। स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।
यथा उष्णस्पर्शे स्पर्शनग्राह्यत्वं, स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, स्पार्शनत्वं
वा विद्यते।
यथा ज्वरोष्मणि स्पर्शनग्राह्यत्वं, स्पार्शनत्वं, स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं
वा विद्यते।
स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम् =
स्पर्शनग्राह्यत्वम् ।स्पार्शनत्वम्।
यथा उष्णस्पर्शे स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, स्पार्शनत्वं, स्पर्शनग्राह्यत्वं वा विद्यते।
यथा ज्वरोष्मणि स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, स्पार्शनत्वं, स्पर्शनग्राह्यत्वं वा विद्यते।
स्पर्शनेन्द्रियजन्यप्रत्यक्षत्वम् =
स्पार्शनत्वम्। ॥
यथा उष्णस्पर्शज्ञाने स्पर्शनेन्द्रियजन्यप्रत्यक्षत्वं, स्पार्शनत्वं, वा विद्यते।
यथा वैद्यः ज्वरितं स्पृशति, तदा ज्वरोष्मणः यद् ज्ञानं भवति, तत्र स्पर्शनेन्द्रियजन्यप्रत्यक्षत्वं, स्पार्शनत्वं वा भवति।
स्पार्शनत्वम् =
स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।स्पर्शनग्राह्यत्वम्।
यथा उष्णस्पर्शे स्पार्शनत्वं, स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, स्पर्शनग्राह्यत्वं वा विद्यते।
यथा ज्वरोष्मणि स्पार्शनत्वं , स्पर्शनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, स्पर्शनग्राह्यत्वं वा विद्यते।
स्पार्शनत्वम् =
स्पर्शनेन्द्रियजन्यप्रत्यक्षत्वम्।
यथा उष्णस्पर्शज्ञाने स्पार्शनत्वं, स्पर्शनेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।
यथा वैद्यः ज्वरितं स्पृशति, तदा ज्वरोष्मणः स्पार्शनं, स्पर्शनेन्द्रियजन्यप्रत्यक्षं वा भवति।
स्मरणम् =
स्मृतिः।
एकसम्बन्धिज्ञानेन अपरसम्बन्धिनः स्मरणं, स्मृतिः वा सम्भवति।
स्मरणस्य, स्मृतेः वा भ्रंशः प्रज्ञापराधसंज्ञकः।
स्मृतिः =
स्मरणम्।
एकसम्बन्धिज्ञानेन अपरसम्बन्धिनः स्मरणं, स्मृतिः वा सम्भवति।
स्मृतेः, स्मरणस्य वा भ्रंशः प्रज्ञापराधसंज्ञकः।
स्वरूपसम्बन्धः =
दैशिकविशेषणतासम्बन्धः।
यथा शक्तिः द्रव्ये स्वरूपसम्बन्धेन दैशिकविशेषणतासम्बन्धेन, वा वर्तते।
यथा द्रव्ये प्रभावः स्वरूपसम्बन्धेन दैशिकविशेषणतासम्बन्धेन, वा वर्तते।