हेत्वनुसारम्

विकिपुस्तकानि तः

अत्र
हेतु: पक्ष: साध्यम् व्याप्ति: दृष्टान्त: सन्दर्भ:
इति एतेन क्रमेण वर्णनमस्ति

[सम्पाद्यताम्]

अंशित्वात्,
पट: अयं एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इतरांशिवत् अद्वैतसिद्धि: अंशित्वप्र.

अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात्
सुवर्णं न पार्थिवम् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम् घृतवत्

अनित्यगुणाश्रयत्वात्
आकाशम् अनित्यम् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

[सम्पाद्यताम्]

इन्द्रियैर्विषयानीक्षणात्,
मुग्ध: न जागरितावस्थ: यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् सुप्तवत् ।३.२.१०

[सम्पाद्यताम्]

उन्मितत्वात
ब्रह्म सद्वितीयं यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् कार्षापणादिवत् पराधिकरणं३.२.३१-३७

[सम्पाद्यताम्]

एकत्वे सति सर्वत्रोपलब्धे:
आकाशं विभु यत्र एकत्वे सति सर्वत्रोपलब्धि: तत्र विभुत्वम् कालवत् ब्र.सू.शां भा. २.३.७

एकार्थत्वात्,
नाड्यादीनां विकल्पसद्भाव:, यत्र एकार्थत्वं तत्र विकल्पसद्भाव: व्रीहियवादिवत्।

[सम्पाद्यताम्]

कार्यगतप्रकाशशक्तित्वात्
वेदगतसर्वार्थप्रकाशन-शक्ति: तदुपादानगता यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् दीपगतप्रकाशशक्तिवत् न्या.र.म१.१.३

कार्यत्वात्
क्षित्यङ्कुरादिकं कर्तृजन्यं यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।

कार्यत्वात्,
विमतम् (जगत्) अचेतनप्रकृतिकं यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् घटवत् न्या.र.म१.१.५

[सम्पाद्यताम्]

गन्धात्
जलम् (इदं) पृथ्वीसंयुक्तं, यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् चन्दनमिश्रितोदकवत्। न्या.र.म.

गुणत्वात्
अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:) क्वचिदाश्रित: यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं यथा तन्तु:।

[सम्पाद्यताम्]

घटप्रागभावविरोधित्वात्
-प्रागभाव: (घट-) घटात्यन्ताभावानधिकरण: यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् प्रतियोगिघटवत्। अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्

[सम्पाद्यताम्]

चाक्षुषत्वात्
रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं) सावयवम् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वं यथा पट:।

[सम्पाद्यताम्]

तत: मोक्षसम्भवात्
कर्तृत्वम् (आत्मन:) न स्वाभाविकम् यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:। यथा अग्ने: औष्ण्यम्

तत: मोक्षसम्भवात्
कर्तृत्वम् आत्मन: न स्वाभाविकम् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:। यथा अग्ने: औष्ण्यम् ब्र.सू.भाष्यम्२.३.४०

[सम्पाद्यताम्]

देहे सति सत्त्वात्, देहाभावे असत्त्वात्।
चैतन्यं देहधर्म: यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम् यथा गौरवर्ण:

[सम्पाद्यताम्]

नामरूपाभ्यां व्याकृतत्वात्
जगत् चेतनकर्तृकम् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं घटादिवत् भामती १.१.२

नि:संज्ञत्वात्
मुग्ध: न स्वप्नावस्थ: यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् यथा कश्चन उदयन: ३.२.१०
निराकर्तु: स्वरूपभूतत्वात्
आत्मा निराकर्तुमशक्य: यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम् ब्र.सू.शां भा. २.३.७

नैमित्तिकद्रवत्वाधिकरणत्वात्
सुवर्णं न आप्यं यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव: घृतवत्

[सम्पाद्यताम्]

परिच्छिन्नत्वात्
विमतं(जगत्) मिथ्या यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् शुक्तिरजतवत् अ.सि. ग्रन्थारम्भ:

पीतत्वात्
सुवर्णं पार्थिवं यत्र पीतत्वं तत्र पार्थिवत्वम् हरिद्रावत्

पुनरुत्थानात्
मुग्ध: न मृत: यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त: ३.२.१०

पृथिवीसंयोगात्
जलं (निर्मल-) तद्गतपृथिवीगन्धवत् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत् न्या.र.म.

प्रत्यक्षस्पर्शाश्रयत्वात्
वायु: प्रत्यक्ष: यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम् घटवत्

प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, घटादिकं सद्रूपे कल्पितम्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्। अ.सि.

प्रमाणानामविषयत्वात्
आत्मा न निराकरणार्ह:, यन्नैवं तन्नैवं यथा आकाशादि ब्र.सू.शां भा. २.३.७

प्राणोष्मणो: सद्भावात्
मुग्ध: न मृत: यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०

[सम्पाद्यताम्]

महदारम्भकत्वात्
द्व्यणुक: (त्र्यणुक- अवयव:) सावयव: यत्र महदारम्भकत्वं तत्र सावयवत्वम् तन्तुवत्

[सम्पाद्यताम्]

रूपवत्वात्
सुवर्णं न वाय्वादिष्वन्तर्भूतम् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न घटवत्

[सम्पाद्यताम्]

विकारजनकत्वात्
ब्रह्म उत्पत्तिमत्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् आकाशादिवत्। ब्र.सू.२.३.९

विच्छेदकरत्वात्
आत्मा सद्वितीय: यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् सेतुवत् ब्र.सू.पराधिकरणं३.२.३१-३७

विभक्तत्वात्
आकाशं विकाररूपं, यत्र विभक्तत्वं तत्र विकाररूपत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

विभक्तत्वात्
घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिता: यत्र तत्र अद्वैतसिद्धि: परिच्छिन्नत्वप्र.

विभुत्वात्
आकाशं नित्यं यत्र विभुत्वं तत्र नित्यत्वम् आत्मवत् ब्र.सू.शां भा. २.३.७

[सम्पाद्यताम्]

समानविभक्तिकत्वात्,
नाड्यादीनाम् एकार्थत्वम्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम् यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७

सम्बन्धित्वात्
ब्रह्म सद्वितीयं यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् नरनगरवत् पराधिकरणं३.२.३१-३७

स्पर्शरहितत्वात्
मन: विभु यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं यथा आकाशम्


दृष्टान्तानुसारम्    अनुमानप्रयोगकोश:  साध्यानुसारम्
"https://sa.wikibooks.org/w/index.php?title=हेत्वनुसारम्&oldid=5945" इत्यस्माद् प्रतिप्राप्तम्