ह...

विकिपुस्तकानि तः
Jump to navigation Jump to search

हेतुः =
लिङ्गम् ।साधकम् ।साधनम्।
यथा पर्वतो वह्निमान् धूमात् इत्यनुमाने धूमः हेतुः, लिङ्गं, साधकं,साधनं वा।
यथा भीमसेनः बलवान्, उत्तमव्यायामशक्तेः इत्यनुमाने उत्तमव्यायामशक्तिः हेतुः, लिङ्गं, साधकं, साधनं वा।

हेतुत्वम् =
कारणत्वम्। जनकत्वम्। प्रयोजकत्वम् (व्यवहितकारणे)।
यथा पटं प्रति तन्तूनां हेतुत्वं, कारणत्वं, जनकत्वं वा विद्यते।
पटं प्रति कार्पासस्य प्रयोजकत्वं विद्यते।
यथा अन्नरसं प्रति अन्नस्य हेतुत्वं, कारणत्वं, जनकत्वं वा विद्यते।
अन्नरसं प्रति पञ्चभूतानां प्रयोजकत्वं विद्यते।

हेतुमत्त्वम् =
कार्यत्वम्। जन्यत्वम्। प्रयोज्यत्वम् (व्यवहितकार्ये)।
यथा पटे तन्तुहेतुमत्त्वं, तन्तुकार्यत्वं , तन्तुजन्यत्वं, कार्पासप्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।
यथा अन्नरसे (अन्न-)हेतुमत्त्वं, (अन्न-)कार्यत्वं, (अन्न-)जन्यत्वं, (पञ्चभूत-) प्रयोज्यत्वं (व्यवहितकार्यत्वं) वा विद्यते।

हेतुहेतुमद्भावः =
कार्यकारणभावः। जन्यजनकभावः। साध्यसाधनभावः।
यथा तन्तुपटयोः हेतुहेतुमद्भावः,कार्यकारणभावः, जन्यजनकभावः,साध्यसाधनभावः वा विद्यते।
यथा जलकफयोः हेतुहेतुमद्भावः,कार्यकारणभावः, जन्यजनकभावः, साध्यसाधनभावः वा विद्यते।

हेत्वाभासः =
असद्धेतुः।दुष्टहेतुः।
यथा ‘पर्वतो वह्निमान् पार्थिवत्वात्’ इत्यनुमाने पार्थिवत्वमिति हेत्वाभासः असद्धेतुः, दुष्टहेतुः, वा।
यथा ‘देवदत्तः तीक्ष्णाग्निः बहुभोजनत्वात्’ इति अनुमाने बहुभोजनत्वम् इति हेत्वाभासः असद्धेतुः, दुष्टहेतुः, वा।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=ह...&oldid=6469" इत्यस्माद् प्रतिप्राप्तम्