०१ तमध्वरे …

विकिपुस्तकानि तः
Jump to navigation Jump to search

मूलम् –
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ।।५.१।।

पदच्छेदः
तम् अध्वरे विश्वजिति क्षिति–ईशं निशेषः–विश्राणित–कोशजातम्।उपात्तविद्यः गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तु–शिष्य॥।

अन्वयः
तम् विश्वजिति अध्वरे निशेषः–विश्राणित–कोशजातं क्षितिशम्(रघुं),उपात्तविद्यः गुरुदक्षिणार्थी वरतन्तु–शिष्य कौत्सः प्रपेदे ॥।

सरलार्थः
रघुराजः विश्वजित्–नामकं यज्ञं सम्पादितवान्। तस्मिन् यज्ञे सः सर्वं धनं दानरूपेण दत्तवान्। अनन्तरं वरतन्तोः शिष्यः कौत्सः तं प्रति आगतवान्। कौत्सस्य विद्याध्ययनं समाप्तम्। सः गुरुदक्षिणार्थं धनम् इच्छति स्म।।

सन्धिः -
क्षितीशम् ≈ क्षिति-ईशम्। अकः सवर्णे दीर्घः।(६.१.१०१)

समासः –
१ उपात्ता विद्या येन सः उपात्तविद्यः ।अनेकमन्यपदार्थे। ()
२ वरतन्तोः शिष्यः वरतन्तुशिष्यः। षष्ठी।()

मल्लिनाथटीका -
तमिति।विश्वजिति विश्वजित्-नाम्नि अध्वरे यज्ञे।‘यज्ञः सहोऽध्वरो यागः’ इत्यमरः।
निःशेषं विश्राणितं दत्तम।श्रण दाने चुरादिः।कोशानाम् अर्थराशीनां जातं समूहः येन तथोक्तम्।‘कोशोऽस्त्री कुण्डले दिव्ये शास्त्रेऽर्थो वे गृहे ततौ’ इति यादवः।‘जातम् जनिसमूहयोः’ इति शाश्वतः।एतेन कौत्सस्य अनवसरप्राप्तिं सूचयति।
तम् क्षितीशं रघुम्
उपात्तविद्यः लब्धविद्यः
वरतन्तोः शिष्यः कौत्सः ।ऋष्यन्धक- इत्यण्।इञोऽपवादः।
गुरुदक्षिणार्थी । पुष्करादिभ्यो देशे इत्यत्र अर्थाच्चासन्निहिते तदन्तात् चेतीनिः।अप्रत्याख्येय इति भावः।
प्रपेदे प्राप।
अस्मिन् सर्गे वृत्तम् उपजातिः।तल्लक्षणं तु – ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः।‘उपेन्द्रवज्रा जतजास्ततो गौ।अनन्तरोदीरितलक्षभाजौ पादौ यदियौ उपजातयस्ताः’ इति

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=०१_तमध्वरे_…&oldid=6025" इत्यस्माद् पुनः प्राप्तिः