०२दिनचर्या

विकिपुस्तकानि तः
Jump to navigation Jump to search

अध्याय 02[सम्पाद्यताम्]

ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः ।
शरीर-चिन्तां निर्वर्त्य कृत-शौच-विधिस् ततः ॥ १ ॥

पदच्छेद: - ब्राह्मे मुहूर्ते उत्तिष्ठेत् स्वस्थ: रक्षार्थम् आयुष:।

अन्वय:- स्वस्थ: आयुष: रक्षार्थं ब्राह्मे मुहूर्ते उत्तिष्ठेत् ।

अन्वयार्थ:- स्वस्थ: मनुष्य: आयुष्यस्य रक्षणार्थम् ब्राह्मे मुहूर्ते जागृत: भवेत्। सरलार्थ:- नीरोग: मनुष्य: जीवनस्य रक्षणार्थं ब्राह्मे मुहूर्ते जागृत: भवेत्।


अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभादि-जम् ।
प्रातर् भुक्त्वा च मृद्व्-अग्रं कषाय-कटु-तिक्तकम् ॥ २ ॥

कनीन्य्-अग्र-सम-स्थौल्यं प्रगुणं द्वा-दशाङ्गुलम् ।
भक्षयेद् दन्त-पवनं दन्त-मांसान्य् अ-बाधयन् ॥ ३ ॥

२.३cv भक्षयेद् दन्त-धवनं नाद्याद् अ-जीर्ण-वमथु-श्वास-कास-ज्वरार्दिती ।
तृष्णास्य-पाक-हृन्-नेत्र-शिरः-कर्णामयी च तत् ॥ ४ ॥

सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् ।
चक्षुस् तेजो-मयं तस्य विशेषाच् छ्लेष्मतो भयम् ॥ ५ ॥

२.५dv विशेषाच् छ्लेष्मणो भयम् भुक्त-वांश् च शिरः-स्नातः श्रान्तः छर्दन-नावनैः ।
रात्रौ जागरितश् चापि नाञ्ज्याज् ज्वरित एव च ॥ ५.१+१ ॥

योजयेत् सप्त-रात्रे ऽस्मात् स्रावणार्थं रसाञ्जनम् ।
ततो नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत् ॥ ६ ॥

२.६bv स्रावणार्थे रसाञ्जनम् ताम्बूलं क्षत-पित्तास्र-रूक्षोत्कुपित-चक्षुषाम् ।
विष-मूर्छा-मदार्तानाम् अ-पथ्यं शोषिणाम् अपि ॥ ७ ॥

अभ्यङ्गम् आचरेन् नित्यं स जरा-श्रम-वात-हा ।
दृष्टि-प्रसाद-पुष्ट्य्-आयुः-स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥ ८ ॥

शिरः-श्रवण-पादेषु तं विशेषेण शीलयेत् ।
वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-कृत-संशुद्ध्य्-अ-जीर्णिभिः ॥ ९ ॥

लाघवं कर्म-सामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः ।
विभक्त-घन-गात्र-त्वं व्यायामाद् उपजायते ॥ १० ॥

वात-पित्तामयी बालो वृद्धो ऽ-जीर्णो च तं त्यजेत् ।
अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥ ११ ॥

शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा ।
तं कृत्वानु-सुखं देहं मर्दयेच् च समन्ततः ॥ १२ ॥

तृष्णा क्षयः प्रतमको रक्त-पित्तं श्रमः क्लमः ।
अति-व्यायामतः कासो ज्वरश् छर्दिश् च जायते ॥ १३ ॥

व्यायाम-जागराध्व-स्त्री-हास्य-भाष्यादि-साहसम् ।
गजं सिंह इवाकर्षन् भजन्न् अति विनश्यति ॥ १४ ॥

२.१४dv भजन् यतो ऽति नश्यति उद्वर्तनं कफ-हरं मेदसः प्रविलायनम् ।
स्थिरी-करणम् अङ्गानां त्वक्-प्रसाद-करं परम् ॥ १५ ॥

दीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जा-बल-प्रदम् ।
कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह-पाप्म-जित् ॥ १६ ॥

२.१६bv स्नानम् ओजो-बल-प्रदम् उष्णाम्बुनाधः-कायस्य परिषेको बलावहः ।
तेनैव तूत्तमाङ्गस्य बल-हृत्-केश-चक्षुषाम् ॥ १७ ॥

२.१७cv तेनैव चोत्तमाङ्गस्य २.१७cv स एव चोत्तमाङ्गस्य २.१७cv स एव तूत्तमाङ्गस्य स्नानम् अर्दित-नेत्रास्य-कर्ण-रोगातिसारिषु ।
आध्मान-पीनसा-जीर्ण-भुक्त-वत्सु च गर्हितम् ॥ १८ ॥

जीर्णे हितं मितं चाद्यान् न वेगान् ईरयेद् बलात् ।
न वेगितो ऽन्य-कार्यः स्यान् ना-जित्वा साध्यम् आमयम् ॥ १९ ॥

सुखार्थाः सर्व-भूतानां मताः सर्वाः प्रवृत्तयः ।
सुखं च न विना धर्मात् तस्माद् धर्म-परो भवेत् ॥ २० ॥

भक्त्या कल्याण-मित्राणि सेवेतेतर-दूर-गः ।
हिंसा-स्तेयान् यथा-कामं पैशुन्यं परुषान्-ऋते ॥ २१ ॥

संभिन्नालापं व्यापादम् अभिध्यां दृग्-विपर्ययम् ।
पापं कर्मेति दश-धा काय-वाङ्-मानसैस् त्यजेत् ॥ २२ ॥

अ-वृत्ति-व्याधि-शोकार्तान् अनुवर्तेत शक्तितः ।
आत्म-वत् सततं पश्येद् अपि कीट-पिपीलिकम् ॥ २३ ॥

अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपातिथीन् ।
वि-मुखान् नार्थिनः कुर्यान् नावमन्येत नाक्षिपेत् ॥ २४ ॥

उपकार-प्रधानः स्याद् अपकार-परे ऽप्य् अरौ ।
संपद्-विपत्स्व् एक-मना हेताव् ईर्ष्येत् फले न तु ॥ २५ ॥

काले हितं मितं ब्रूयाद् अ-विसंवादि पेशलम् ।
पूर्वाभिभाषी सु-मुखः सु-शीलः करुणा-मृदुः ॥ २६ ॥

नैकः सुखी न सर्व-त्र विश्रब्धो न च शङ्कितः ।
न कञ्-चिद् आत्मनः शत्रुं नात्मानं कस्य-चिद् रिपुम् ॥ २७ ॥

प्रकाशयेन् नापमानं न च निः-स्नेह-तां प्रभोः ।
जनस्याशयम् आलक्ष्य यो यथा परितुष्यति ॥ २८ ॥

२.२८av प्रकाशयेन् नावमानं तं तथैवानुवर्तेत पराराधन-पण्डितः ।
न पीडयेद् इन्द्रियाणि न चैतान्य् अति लालयेत् ॥ २९ ॥

त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् ।
अनुयायात् प्रति-पदं सर्व-धर्मेषु मध्यमाम् ॥ ३० ॥

नीच-रोम-नख-श्मश्रुर् निर्-मलाङ्घ्रि-मलायनः ।
स्नान-शीलः सु-सुरभिः सु-वेषो ऽन्-उल्बणोज्ज्वलः ॥ ३१ ॥

२.३१cv स्नान-शीलः स-सुरभिः धारयेत् सततं रत्न-सिद्ध-मन्त्र-महौषधीः ।
सातप-त्र-पद-त्राणो विचरेद् युग-मात्र-दृक् ॥ ३२ ॥

निशि चात्ययिके कार्ये दण्डी मौली सहाय-वान् ।
चैत्य-पूज्य-ध्वजा-शस्त-च्छाया-भस्म-तुषा-शुचीन् ॥ ३३ ॥

नाक्रामेच् छर्करा-लोष्ट-बलि-स्नान-भुवो न च ।
नदीं तरेन् न बाहुभ्यां नाग्नि-स्कन्धम् अभिव्रजेत् ॥ ३४ ॥

संदिग्ध-नावं वृक्षं च नारोहेद् दुष्ट-यान-वत् ।
ना-संवृत-मुखः कुर्यात् क्षुति-हास्य-विजृम्भणम् ॥ ३५ ॥

२.३५dv क्षुतिं हास्यं विजृम्भणम् २.३५dv क्षुत्-हास्यं च विजृम्भणम् नासिकां न विकुष्णीयान् ना-कस्माद् विलिखेद् भुवम् ।
नाङ्गैश् चेष्टेत वि-गुणं नासीतोत्कटकश् चिरम् ॥ ३६ ॥

२.३६bv ना-कस्माद् विलिखेन् महीम् २.३६dv नासीतोत्कटक-स्थितः देह-वाक्-चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्तयेत् ।
नोर्ध्व-जानुश् चिरं तिष्ठेन् नक्तं सेवेत न द्रुमम् ॥ ३७ ॥

तथा चत्वर-चैत्यान्तश्-चतुष्-पथ-सुरालयान् ।
सूनाटवी-शून्य-गृह-श्मशानानि दिवापि न ॥ ३८ ॥

अ-संमार्जितम् आदर्शम् अन्-उपस्कृत-कामिनीम् ।
रजस्वलां च नेक्षेत सदा प्रातर् अ-मङ्गलम् ॥ ३८+१ ॥

सर्व-थेक्षेत नादित्यं न भारं शिरसा वहेत् ।
नेक्षेत प्रततं सूक्ष्मं दीप्ता-मेध्या-प्रियाणि च ॥ ३९ ॥

मद्य-विक्रय-संधान-दानादानानि नाचरेत् ।
पुरो-वातातप-रजस्-तुषार-परुषानिलान् ॥ ४० ॥

अन्-ऋजुः क्षवथूद्गार-कास-स्वप्नान्न-मैथुनम् ।
कूल-च्छायां नृप-द्विष्टं व्याल-दंष्ट्रि-विषाणिनः ॥ ४१ ॥

हीनान्-आर्याति-निपुण-सेवां विग्रहम् उत्तमैः ।
संध्यास्व् अभ्यवहार-स्त्री-स्वप्नाध्ययन-चिन्तनम् ॥ ४२ ॥

शत्रु-सत्त्र-गणाकीर्ण-गणिका-पणिकाशनम् ।
गात्र-वक्त्र-नखैर् वाद्यं हस्त-केशावधूननम् ॥ ४३ ॥

तोयाग्नि-पूज्य-मध्येन यानं धूमं शवाश्रयम् ।
मद्याति-सक्तिं विश्रम्भ-स्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥ ४४ ॥

आचार्यः सर्व-चेष्टासु लोक एव हि धी-मतः ।
अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥ ४५ ॥

आर्द्र-संतान-ता त्यागः काय-वाक्-चेतसां दमः ।
स्वार्थ-बुद्धिः परार्थेषु पर्याप्तम् इति सद्-व्रतम् ॥ ४६ ॥

नक्तन्-दिनानि मे यान्ति कथम्-भूतस्य संप्रति ।
दुःख-भाङ् न भवत्य् एवं नित्यं संनिहित-स्मृतिः ॥ ४७ ॥

एवं कृत्स्न-दिनं नीत्वा रात्रौ यामे गृहे गते ।
देवान् ऋषीन् गुरून् स्मृत्वा ततः शयनम् आचरेत् ॥ ४७+१ ॥

२.४७+१bv रात्रेर् यामे गते सति इत्य् आचारः समासेन यं प्राप्नोति समाचरन् ।
आयुर् आरोग्यम् ऐश्वर्यं यशो लोकांश् च शाश्वतान् ॥ ४८ ॥

वर्ग:अष्टाङ्गहृदयम्- पदच्छेद-अन्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=०२दिनचर्या&oldid=5097" इत्यस्माद् प्रतिप्राप्तम्