०६ आधारबन्धप्रमुखैः ...

विकिपुस्तकानि तः

मूलम्
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं ।कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् । । ५.६ । ।

पदच्छेदः
आधारबन्ध–प्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम्।कञ्चित् न वायु–आदिः उपप्लवः वः श्रमच्छिदाम् आश्रम–पादपानाम् ॥६॥

अन्वयः
आधारबन्ध–प्रमुखैः प्रयत्नैः सुतनिर्विशेषमं संवर्धितानां श्रमच्छिदाम्वः आश्रम–पादपानाम् वायु–आदिः उपप्लवः न कञ्चित् ॥

सरलार्थः
युष्माभिः आश्रमे वृक्षाः पुत्रवत् पालिताः।तदर्थं आलवालनिर्माणं,जलचिञ्चनम् इत्यादयः प्रयासाः कृताः।ते वृक्षाः अपि युष्माकं श्रम–परिहारं कुर्वन्ति।झञ्झावातः दावाग्निः इति एतादृशाः तेषां बाधकराः न भवन्ति खलु।

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः  
"https://sa.wikibooks.org/w/index.php?title=०६_आधारबन्धप्रमुखैः_...&oldid=6030" इत्यस्माद् प्रतिप्राप्तम्