०८मात्राशितीय:

विकिपुस्तकानि तः

मात्राशी सर्व-कालं स्यान् मात्रा ह्य् अग्नेः प्रवर्तिका । मात्रां द्रव्याण्य् अपेक्षन्ते गुरूण्य् अपि लघून्य् अपि ॥ १ ॥
पदच्छेद:-
मात्राशी सर्व-कालं स्यात् मात्रा हि अग्नेः प्रवर्तिका । मात्रां द्रव्याणि अपेक्षन्ते गुरूणि अपि लघूनि अपि ॥ १ ॥

गुरूणाम् अर्ध-सौहित्यं लघूनां नाति-तृप्त-ता । मात्रा-प्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥ २ ॥
पदच्छेद:-
गुरूणाम् अर्ध-सौहित्यं लघूनां न अति-तृप्त-ता । मात्रा-प्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥ २ ॥

भोजनं हीन-मात्रं तु न बलोपचयौजसे । सर्वेषां वात-रोगाणां हेतु-तां च प्रपद्यते ॥ ३ ॥
पदच्छेद:-
भोजनं हीन-मात्रं तु न बल-उपचय-ओजसे । सर्वेषां वात-रोगाणां हेतुतां च प्रपद्यते ॥ ३ ॥

अति-मात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् । पीड्यमाना हि वाताद्या युग-पत् तेन कोपिताः ॥ ४ ॥
पदच्छेद:-
अति-मात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् । पीड्यमाना हि वाताद्या: युगपत् तेन कोपिताः ॥ ४ ॥ ८.४cv संपीड्यमाना वाताद्या

आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते । विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥ ५ ॥
पदच्छेद:-
आमेन अन्नेन दुष्टेन तद् एव आविश्य कुर्वते । विष्टम्भयन्त: अलसकं च्यावयन्त: विषूचिकाम् ॥ ५ ॥

अधरोत्तर-मार्गाभ्यां सहसैवा-जितात्मनः । प्रयाति नोर्ध्वं नाधस्-ताद् आहारो न च पच्यते ॥ ६ ॥
पदच्छेद:-
अधर-उत्तर-मार्गाभ्यां सहसा एव अजितात्मनः । प्रयाति न ऊर्ध्वं न अधस्ताद् आहार: न च पच्यते ॥ ६ ॥

आमाशये ऽलसी-भूतस् तेन सो ऽलसकः स्मृतः ।विविधैर् वेदनोद्भेदैर् वाय्व्-आदि-भृश-कोपतः ॥ ७ ॥
पदच्छेद:-
आमाशये अलसी-भूत: तेन स: अलसकः स्मृतः । विविधै: वेदनोद्भेदै: वायु-आदि-भृश-कोपतः ॥ ७ ॥

सूचीभिर् इव गात्राणि विध्यतीति विषूचिका।तत्र शूल-भ्रमानाह-कम्प-स्तम्भादयोऽनिलात् ॥८ ॥
पदच्छेद:-
सूचीभि: इव गात्राणि विध्यति इति विषूचिका । तत्र शूल-भ्रम-आनाह-कम्प-स्तम्भ-आदय: अनिलात् ॥ ८ ॥

पित्ताज् ज्वरातिसारान्तर्-दाह-तृट्-प्रलयादयः । कफाच् छर्द्य्-अङ्ग-गुरु-ता-वाक्-सङ्ग-ष्ठीवनादयः ॥ ९ ॥
पदच्छेद:-
पित्तात् ज्वर-अतिसार-अन्तर्-दाह-तृट्-प्रलय-आदयः । कफात् छर्दि-अङ्ग-गुरुता-वाक्-सङ्ग-ष्ठीवन-आदयः ॥ ९ ॥

विशेषाद् दुर्-बलस्याल्प-वह्नेर् वेग-विधारिणः । पीडितं मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥ १० ॥
पदच्छेद:-
विशेषाद् दुर्बलस्य अल्पवह्ने: वेग-विधारिणः । पीडितं मारुतेन अन्नं श्लेष्मणा रुद्धम् अन्तरा ॥ १० ॥

अलसं क्षोभितं दोषैः शल्य-त्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रांश् छर्द्य्-अतीसार-वर्जितान् ॥ ११ ॥
पदच्छेद:-
अलसं क्षोभितं दोषैः शल्यत्वेन एव संस्थितम् । शूलादीन् कुरुते तीव्रान् छर्दि--अतीसार-वर्जितान् ॥ ११ ॥
८.११bv शल्य-त्वेनेव संस्थितम्

सो ऽलसो ऽत्य्-अर्थ-दुष्टास् तु दोषा दुष्टाम-बद्ध-खाः । यान्तस् तिर्यक् तनुं सर्वां दण्ड-वत् स्तम्भयन्ति चेत् ॥ १२ ॥
पदच्छेद:-
स: अलस: अत्यर्थ-दुष्टा: तु दोषा: दुष्ट-आमबद्धखाः । यान्त: तिर्यक् तनुं सर्वां दण्डवत् स्तम्भयन्ति चेत् ॥ १२ ॥

दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् । विरुद्धाध्यशना-जीर्ण-शीलिनो विष-लक्षणम् ॥ १३ ॥
पदच्छेद:-
दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् । विरुद्ध-अध्यशन-अजीर्णशीलिनो विषलक्षणम् ॥ १३ ॥

आम-दोषं महा-घोरं वर्जयेद् विष-संज्ञकम् ।
विष-रूपाशु-कारि-त्वाद् विरुद्धोपक्रम-त्वतः ॥ १४ ॥
पदच्छेद:-
आमदोषं महाघोरं वर्जयेद् विषसंज्ञकम् ।
विषरूप-आशुकारित्वाद् विरुद्ध-उपक्रमत्वतः ॥ १४ ॥
अथामम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् ।
पीत्वा सोग्रा-पटु-फलं वार्य् उष्णं योजयेत् ततः ॥ १५ ॥
पदच्छेद:-
अथ आमम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् ।
पीत्वा सोग्रा-पटु-फलं वारि उष्णं योजयेत् ततः ॥ १५ ॥

स्वेदनं फल-वर्तिं च मल-वातानुलोमनीम् ।
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ १६ ॥
पदच्छेद:-
स्वेदनं फल-वर्तिं च मल-वात-अनुलोमनीम् ।
नाम्यमानानि च अङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ १६ ॥

मदनं पिप्पली कुष्ठं वचा गौराश् च सर्षपाः ।
गुड-क्षार-समायुक्ता फल-वर्तिः प्रशस्यते ॥ १६.१+१ ॥
पदच्छेद:-
मदनं पिप्पली कुष्ठं वचा गौरा: च सर्षपाः ।
गुड-क्षार-समायुक्ता: फल-वर्तिः प्रशस्यते ॥ १६.१+१ ॥

विषूच्याम् अति-वृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते ।
तद्-अहश् चोपवास्यैनं विरिक्त-वद् उपाचरेत् ॥ १७ ॥
पदच्छेद:-
विषूच्याम् अति-वृद्धायां पार्ष्ण्यो: दाहः प्रशस्यते ।
तद्-अह: च उपवास्य एनं विरिक्त-वद् उपाचरेत् ॥ १७ ॥

तीव्रार्तिर् अपि ना-जीर्णी पिबेच् छूल-घ्नम् औषधम् ।
आम-सन्नो ऽनलो नालं पक्तुं दोषौषधाशनम् ॥ १८ ॥
पदच्छेद:-
तीव्रार्ति: अपि न अजीर्णी पिबेत् शूलघ्नम् औषधम् ।
आम-सन्न: अनल: न अलं पक्तुं दोष-औषध-अशनम् ॥ १८ ॥

निहन्याद् अपि चैतेषां विभ्रमः सहसातुरम् ।
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्ध-गुरूदरे ॥ १९ ॥
पदच्छेद:-
निहन्याद् अपि च एतेषां विभ्रमः सहसा आतुरम् ।
जीर्ण-अशने तु भैषज्यं युञ्ज्यात् स्तब्ध-गुरु-उदरे ॥ १९ ॥

दोष-शेषस्य पाकार्थम् अग्नेः संधुक्षणाय च ।
शान्तिर् आम-विकाराणां भवति त्व् अपतर्पणात् ॥ २० ॥
पदच्छेद:-
दोष-शेषस्य पाकार्थम् अग्नेः संधुक्षणाय च ।
शान्ति: आम-विकाराणां भवति तु अपतर्पणात् ॥ २० ॥

त्रि-विधं त्रि-विधे दोषे तत् समीक्ष्य प्रयोजयेत् ।
तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घन-पाचनम् ॥ २१ ॥
पदच्छेद:-
त्रिविधं त्रिविधे दोषे तत् समीक्ष्य प्रयोजयेत् ।
तत्र अल्पे लङ्घनं पथ्यं मध्ये लङ्घन-पाचनम् ॥ २१ ॥

प्रभूते शोधनं तद् धि मूलाद् उन्मूलयेन् मलान् ।
एवम् अन्यान् अपि व्याधीन् स्व-निदान-विपर्ययात् ॥ २२ ॥
पदच्छेद:-
प्रभूते शोधनं तद् हि मूलाद् उन्मूलयेत् मलान् ।
एवम् अन्यान् अपि व्याधीन् स्व-निदान-विपर्ययात् ॥ २२ ॥

चिकित्सेद् अनुबन्धे तु सति हेतु-विपर्ययम् ।
त्यक्त्वा यथा-यथं वैद्यो युञ्ज्याद् व्याधि-विपर्ययम् ॥ २३ ॥
पदच्छेद:-
चिकित्सेद् अनुबन्धे तु सति हेतु-विपर्ययम् ।
त्यक्त्वा यथा-यथं वैद्यो युञ्ज्याद् व्याधि-विपर्ययम् ॥ २३ ॥

तद्-अर्थ-कारि वा पक्वे दोषे त्व् इद्धे च पावके ।
हितम् अभ्यञ्जन-स्नेह-पान-वस्त्य्-आदि युक्तितः ॥ २४ ॥
पदच्छेद:-
तद्-अर्थ-कारि वा पक्वे दोषे तु इद्धे च पावके ।
हितम् अभ्यञ्जन-स्नेह-पान-बस्ति-आदि युक्तितः ॥ २४ ॥

अ-जीर्णं च कफाद् आमं तत्र शोफो ऽक्षि-गण्डयोः ।
सद्यो-भुक्त इवोद्गारः प्रसेकोत्क्लेश-गौरवम् ॥ २५ ॥

पदच्छेद:-
अ-जीर्णं च कफाद् आमं तत्र शोफो ऽक्षि-गण्डयोः ।
सद्यो-भुक्त इवोद्गारः प्रसेकोत्क्लेश-गौरवम् ॥ २५ ॥

विष्टब्धम् अनिलाच् छूल-विबन्धाध्मान-साद-कृत् ।
पित्ताद् विदग्धं तृण्-मोह-भ्रमाम्लोद्गार-दाह-वत् ॥ २६ ॥
पदच्छेद:-
विष्टब्धम् अनिलात् छूल-विबन्ध-आध्मान-साद-कृत् ।
पित्ताद् विदग्धं तृट्-मोह-भ्रम-अम्ल-उद्गार-दाह-वत् ॥ २६ ॥
८.२६dv -भ्रमाम्लोद्गार-दाह-कृत्

लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् । विदग्धे वमनं यद् वा यथावस्थं हितं भवेत् ॥ २७ ॥
पदच्छेद:-
लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् । विदग्धे वमनं यद् वा यथा-अवस्थं हितं भवेत् ॥ २७ ॥
८.२७dv यथावस्थं हितं भजेत्

गरीयसो भवेल् लीनाद् आमाद् एव विलम्बिका । कफ-वातानुबद्धाम-लिङ्गा तत्-सम-साधना ॥ २८ ॥ पदच्छेद:-
गरीयस: भवेद् लीनाद् आमाद् एव विलम्बिका । कफ-वात-अनुबद्ध-आमलिङ्गा तत्-सम-साधना ॥ २८ ॥
८.२८cv कफ-वातानुविद्धाम-

अ-श्रद्धा हृद्-व्यथा शुद्धे ऽप्य् उद्गारे रस-शेषतः । शयीत किञ्-चिद् एवात्र सर्व: च अनशितो दिवा ॥ २९ ॥
पदच्छेद:-
अ-श्रद्धा हृद्-व्यथा शुद्धे अपि उद्गारे रस-शेषतः । शयीत किञ्-चिद् एव अत्र सर्व: च अन्-अशितो दिवा ॥ २९ ॥
८.२९dv सर्वश् चान्-अशितो दिवा

स्वप्याद् अ-जीर्णी संजात-बुभुक्षो ऽद्यान् मितं लघु । विबन्धो ऽति-प्रवृत्तिर् वा ग्लानिर् मारुत-मूढ-ता ॥ ३० ॥
पदच्छेद:-
स्वप्याद् अ-जीर्णी संजात-बुभुक्ष: अद्यात् मितं लघु । विबन्ध: अति-प्रवृत्ति: वा ग्लानि: मारुत-मूढ-ता ॥ ३० ॥
८.३०dv ग्लानिर् मारुत-शूल-ता

अ-जीर्ण-लिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः । न चाति-मात्रम् एवान्नम् आम-दोषाय केवलम् ॥ ३१ ॥
पदच्छेद:-
अ-जीर्ण-लिङ्गं सामान्यं विष्टम्भ: गौरवं भ्रमः । न च अति-मात्रम् एव अन्नम् आम-दोषाय केवलम् ॥ ३१ ॥

द्विष्ट-विष्टम्भि-दग्धाम-गुरु-रूक्ष-हिमा-शुचि । विदाहि शुष्कम् अत्य्-अम्बु-प्लुतं चान्नं न जीर्यति ॥ ३२ ॥
पदच्छेद:-
द्विष्ट-विष्टम्भि-दग्ध-आम-गुरु-रूक्ष-हिम-अशुचि । विदाहि शुष्कम् अत्य्-अम्बु-प्लुतं च अन्नं न जीर्यति ॥ ३२ ॥

उपतप्तेन भुक्तं च शोक-क्रोध-क्षुद्-आदिभिः । मिश्रं पथ्यम् अ-पथ्यं च भुक्तं समशनं मतम् ॥ ३३ ॥
पदच्छेद:-
उपतप्तेन भुक्तं च शोक-क्रोध-क्षुद्-आदिभिः । मिश्रं पथ्यम् अ-पथ्यं च भुक्तं समशनं मतम् ॥ ३३ ॥
८.३३bv शोक-क्रोध-क्षुधादिभिः ८.३३bv क्रोध-शोक-भयादिभिः

विद्याद् अध्यशनं भूयो भुक्तस्योपरि भोजनम् । अ-काले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥ ३४ ॥
पदच्छेद:-
विद्याद् अध्यशनं भूय: भुक्तस्य उपरि भोजनम् । अ-काले बहु च अल्पं वा भुक्तं तु विषमाशनम् ॥ ३४ ॥

त्रीण्य् अप्य् एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा । काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्-मनाः ॥ ३५ ॥
पदच्छेद:-
त्रीणि अपि एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा । काले सात्म्यं शुचि हितं स्निग्ध-उष्णं लघु तन्-मनाः ॥ ३५ ॥

षड्-रसं मधुर-प्रायं नाति-द्रुत-विलम्बितम् । स्नातः क्षुद्-वान् विविक्त-स्थो धौत-पाद-कराननः ॥ ३६ ॥
पदच्छेद:-
षड्-रसं मधुर-प्रायं न-अति-द्रुत-विलम्बितम् । स्नातः क्षुद्-वान् विविक्त-स्थ: धौत-पाद-कर-आननः ॥ ३६ ॥

तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् । प्रत्यवेक्ष्य तिरश्चो ऽपि प्रतिपन्न-परिग्रहान् ॥ ३७ ॥
पदच्छेद:-
तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् । प्रत्यवेक्ष्य तिरश्च: अपि प्रतिपन्न-परिग्रहान् ॥ ३७ ॥

समीक्ष्य सम्यग् आत्मानम् अ-निन्दन्न् अ-ब्रुवन् द्रवम् । इष्टम् इष्टैः सहाश्नीयाच् छुचि-भक्त-जनाहृतम् ॥ ३८ ॥
पदच्छेद:-
समीक्ष्य सम्यग् आत्मानम् अ-निन्दन् अ-ब्रुवन् द्रवम् । इष्टम् इष्टैः सह अश्नीयात् शुचि-भक्त-जन-आहृतम् ॥ ३८ ॥

भोजनं तृण-केशादि-जुष्टम् उष्णी-कृतं पुनः । शाकावरान्न-भूयिष्ठम् अत्य्-उष्ण-लवणं त्यजेत् ॥ ३९ ॥
पदच्छेद:-
भोजनं तृण-केश-आदि-जुष्टम् उष्णी-कृतं पुनः । शाक-अवरान्न-भूयिष्ठम् अत्य्-उष्ण-लवणं त्यजेत् ॥ ३९ ॥

किलाट-दधि-कूचीका-क्षार-शुक्ताम-मूलकम् । कृश-शुष्क-वराहावि-गो-मत्स्य-महिषामिषम् ॥ ४० ॥
पदच्छेद:-
किलाट-दधि-कूचीका-क्षार-शुक्त-आम-मूलकम् । कृश-शुष्क-वराह-आवि-गो-मत्स्य-महिष-आमिषम् ॥ ४० ॥
८.४०bv -क्षार-शुक्ताम्ल-मूलकम्

माष-निष्पाव-शालूक-बिस-पिष्ट-विरूढकम् । शुष्क-शाकानि यवकान् फाणितं च न शीलयेत् ॥ ४१ ॥
पदच्छेद:-
माष-निष्पाव-शालूक-बिस-पिष्ट-विरूढकम् । शुष्क-शाकानि यवकान् फाणितं च न शीलयेत् ॥ ४१ ॥
८.४१bv -तिल-पिष्ट-विरूढकम्

शीलयेच् छालि-गोधूम-यव-षष्टिक-जाङ्गलम् । सूनिषण्णक-जीवन्ती-बाल-मूलक-वास्तुकम् ॥ ४२ ॥
पदच्छेद:-
शीलयेत् शालि-गोधूम-यव-षष्टिक-जाङ्गलम् । सूनिषण्णक-जीवन्ती-बाल-मूलक-वास्तुकम् ॥ ४२ ॥

पथ्यामलक-मृद्वीका-पटोली-मुद्ग-शर्कराः । घृत-दिव्योदक-क्षीर-क्षौद्र-दाडिम-सैन्धवम् ॥ ४३ ॥
पदच्छेद:-
पथ्या-आमलक-मृद्वीका-पटोली-मुद्ग-शर्कराः । घृत-दिव्य-उदक-क्षीर-क्षौद्र-दाडिम-सैन्धवम् ॥ ४३ ॥

त्रि-फलां मधु-सर्पिर्भ्यां निशि नेत्र-बलाय च । स्वास्थ्यानुवृत्ति-कृद् यच् च रोगोच्छेद-करं च यत् ॥ ४४ ॥
पदच्छेद:-
त्रि-फलां मधु-सर्पिर्भ्यां निशि नेत्र-बलाय च । स्वास्थ्य-अनुवृत्ति-कृद् यत् च रोग-उच्छेद-करं च यत् ॥ ४४ ॥

बिसेक्षु-मोच-चोचाम्र-मोदकोत्कारिकादिकम् । अद्याद् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ ४५ ॥
पदच्छेद:-
बिस-इक्षु-मोच-चोच-आम्र-मोदक-उत्कारिका-आदिकम् । अद्यात् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ ४५ ॥

विपरीतम् अतश् चान्ते मध्ये ऽम्ल-लवणोत्कटम् । अन्नेन कुक्षेर् द्वाव् अंशौ पानेनैकं प्रपूरयेत् ॥ ४६ ॥
पदच्छेद:-
विपरीतम् अत: च अन्ते मध्ये अम्ल-लवण-उत्कटम् । अन्नेन कुक्षे: द्वौ अंशौ पानेन एकं प्रपूरयेत् ॥ ४६ ॥

आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् । अनु-पानं हिमं वारि यव-गोधूमयोर् हितम् ॥ ४७ ॥
पदच्छेद:-
आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् । अनु-पानं हिमं वारि यव-गोधूमयो: हितम् ॥ ४७ ॥

दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्ट-मयेषु तु । शाक-मुद्गादि-विकृतौ मस्तु-तक्राम्ल-काञ्जिकम् ॥ ४८ ॥
पदच्छेद:-
दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्ट-मयेषु तु । शाक-मुद्ग-आदि-विकृतौ मस्तु-तक्र-अम्ल-काञ्जिकम् ॥ ४८ ॥
८.४८bv कोष्णं पिष्ट-मयेषु च

सुरा कृशानां पुष्ट्य्-अर्थं स्थूलानां तु मधूदकम् । शोषे मांस-रसो मद्यं मांसे स्व्-अल्पे च पावके ॥ ४९ ॥
पदच्छेद:-
सुरा कृशानां पुष्टि-अर्थं स्थूलानां तु मधु-उदकम् । शोषे मांस-रस; मद्यं मांसे सु-अल्पे च पावके ॥ ४९ ॥
८.४९bv स्थूलानां च मधूदकम् ८.४९dv मांसेष्व् अल्पे च पावके

व्याध्य्-औषधाध्व-भाष्य-स्त्री-लङ्घनातप-कर्मभिः । क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥ ५० ॥
पदच्छेद:-
व्याधि-औषध-अध्व-भाष्य-स्त्री-लङ्घन-आतप-कर्मभिः । क्षीणे वृद्धे च बाले च पयः पथ्यं यथा अमृतम् ॥ ५० ॥
८.५०av व्याध्य्-औषधाध्व-भार-स्त्री-

विपरीतं यद् अन्नस्य गुणैः स्याद् अ-विरोधि च । अनु-पानं समासेन सर्व-दा तत् प्रशस्यते ॥ ५१ ॥
पदच्छेद:-
विपरीतं यद् अन्नस्य गुणैः स्याद् अ-विरोधि च । अनु-पानं समासेन सर्व-दा तत् प्रशस्यते ॥ ५१ ॥

अनु-पानं करोत्य् ऊर्जां तृप्तिं व्याप्तिं दृढाङ्ग-ताम् । अन्न-संघात-शैथिल्य-विक्लित्ति-जरणानि च ॥ ५२ ॥
पदच्छेद:-
अनु-पानं करोति ऊर्जां तृप्तिं व्याप्तिं दृढ-अङ्ग-ताम् । अन्न-संघात-शैथिल्य-विक्लित्ति-जरणानि च ॥ ५२ ॥

नोर्ध्व-जत्रु-गद-श्वास-कासोरः-क्षत-पीनसे । गीत-भाष्य-प्रसङ्गे च स्वर-भेदे च तद् धितम् ॥ ५३ ॥
पदच्छेद:-
न ऊर्ध्व-जत्रु-गद-श्वास-कास-उरः-क्षत-पीनसे । गीत-भाष्य-प्रसङ्गे च स्वर-भेदे च तद् हितम् ॥ ५३ ॥

प्रक्लिन्न-देह-मेहाक्षि-गल-रोग-व्रणातुराः । पानं त्यजेयुः सर्वश् च भाष्याध्व-शयनं त्यजेत् ॥ ५४ ॥
पदच्छेद:-
प्रक्लिन्न-देह-मेह-अक्षि-गल-रोग-व्रण-आतुराः । पानं त्यजेयुः सर्व: च भाष्य-अध्व-शयनं त्यजेत् ॥ ५४ ॥

पीत्वा भुक्त्वातपं वह्निं यानं प्लवन-वाहनम् ॥ ५५अब् ॥
पदच्छेद:-
पीत्वा भुक्त्वा आतपं वह्निं यानं प्लवन-वाहनम् ॥ ५५अब् ॥

प्रसृष्टे विण्-मूत्रे हृदि सु-वि-मले दोषे स्व-पथ-गे ॥ ५५च् ॥ विशुद्धे चोद्गारे क्षुद्-उपगमने वाते ऽनुसरति ॥ ५५द् ॥
तथाग्नाव् उद्रिक्ते विशद-करणे देहे च सु-लघौ ॥ ५५ए ॥ प्रयुञ्जीताहारं विधि-नियमितं कालः स हि मतः ॥ ५५f ॥
८.५५fव् प्रयुञ्जीताहारं विधि-नियमितः कालः स हि मतः पदच्छेद:-
प्रसृष्टे विण्-मूत्रे हृदि सु-वि-मले दोषे स्व-पथ-गे ॥ ५५च् ॥ विशुद्धे च उद्गारे क्षुद्-उपगमने वाते अनुसरति ॥ ५५द् ॥
तथा अग्नौ उद्रिक्ते विशद-करणे देहे च सु-लघौ ॥ ५५ए ॥ प्रयुञ्जीत आहारं विधि-नियमित: कालः स हि मतः ॥ ५५f ॥

 वर्ग: : सूत्रस्थान-पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=०८मात्राशितीय:&oldid=5197" इत्यस्माद् प्रतिप्राप्तम्