०९द्रव्यादिविज्ञानीय:

विकिपुस्तकानि तः
Jump to navigation Jump to search

द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः । पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ १ ॥
पदच्छेद:-
द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः । पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ १ ॥

अम्बु-योन्य्-अग्नि-पवन-नभसाम् समवायतः ।तन्-निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥ २ ॥
पदच्छेद:-
अम्बु-योनि अग्नि-पवन-नभसां समवायतः ।तत्-निर्वृत्ति: विशेष: च व्यपदेश: तु भूयसा ॥ २ ॥
९.२dv व्यपदेशश् च भूयसा

तस्मान् नैक-रसं द्रव्यं भूत-संघात-संभवात् । नैक-दोषास् ततो रोगास् तत्र व्यक्तो रसः स्मृतः ॥ ३ ॥
पदच्छेद:-
तस्मात् न एक-रसं द्रव्यं भूत-संघात-संभवात् । न एक-दोषा: ततो रोगा: तत्र व्यक्त: रसः स्मृतः ॥ ३ ॥
९.३av तन् नैक-भूत-जं द्रव्यं

अ-व्यक्तो ऽनु-रसः किञ्-चिद् अन्ते व्यक्तो ऽपि चेष्यते । गुर्व्-आदयो गुणा द्रव्ये पृथिव्य्-आदौ रसाश्रये ॥ ४ ॥
पदच्छेद:-
अ-व्यक्त: अनु-रसः किञ्-चिद् अन्ते व्यक्त: अपि च इष्यते । गुरु-आदय: गुणा: द्रव्ये पृथिवी-आदौ रस-आश्रये ॥ ४ ॥

रसेषु व्यपदिश्यन्ते साहचर्योपचारतः । तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥ ५ ॥
पदच्छेद:-
रसेषु व्यपदिश्यन्ते साहचर्य-उपचारतः । तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥ ५ ॥

पार्थिवं गौरव-स्थैर्य-संघातोपचयावहम् । द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रसोल्बणम् ॥ ६ ॥
पदच्छेद:-
पार्थिवं गौरव-स्थैर्य-संघात-उपचय-आवहम् । द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रस-उल्बणम् ॥ ६ ॥
९.६dv -मन्द-सान्द्र-गुणोल्बणम्

आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् । रूक्ष-तीक्ष्णोष्ण-विशद-सूक्ष्म-रूप-गुणोल्बणम् ॥ ७ ॥
पदच्छेद:-
आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् । रूक्ष-तीक्ष्ण-उष्ण-विशद-सूक्ष्म-रूप-गुण-उल्बणम् ॥ ७ ॥

आग्नेयं दाह-भा-वर्ण-प्रकाश-पचनात्मकम् । वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुणोल्बणम् ॥ ८ ॥
पदच्छेद:-
आग्नेयं दाह-भा-वर्ण-प्रकाश-पचन-आत्मकम् । वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुण-उल्बणम् ॥ ८ ॥

रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् । नाभसं सूक्ष्म-विशद-लघु-शब्द-गुणोल्बणम् ॥ ९ ॥
पदच्छेद:-
रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् । नाभसं सूक्ष्म-विशद-लघु-शब्द-गुण-उल्बणम् ॥ ९ ॥
९.९bv -विचार-ग्लपनात्मकम्

सौषिर्य-लाघव-करं जगत्य् एवम् अन्-औषधम् । न किञ्-चिद् विद्यते द्रव्यं वशान् नानार्थ-योगयोः ॥ १० ॥
पदच्छेद:-
सौषिर्य-लाघव-करं जगति एवम् अन्-औषधम् । न किञ्-चिद् विद्यते द्रव्यं वशात् नाना अर्थ-योगयोः ॥ १० ॥

द्रव्यम् ऊर्ध्व-गमं तत्र प्रायो ऽग्नि-पवनोत्कटम् । अधो-गामि च भूयिष्ठं भूमि-तोय-गुणाधिकम् ॥ ११ ॥
पदच्छेद:-
द्रव्यम् ऊर्ध्व-गमं तत्र प्राय: अग्नि-पवन-उत्कटम् । अधो-गामि च भूयिष्ठं भूमि-तोय-गुण-अधिकम् ॥ ११ ॥

इति द्रव्यं रसान् भेदैर् उत्तर-त्रोपदेक्ष्यते । वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥ १२ ॥
पदच्छेद:-
इति द्रव्यं रसान् भेदै: उत्तर-त्र उपदेक्ष्यते । वीर्यं पुन: वदन्ति एके गुरु स्निग्धं हिमं मृदु ॥ १२ ॥
९.१२av इति द्रव्यं रसो भेदैर्

लघु रूक्षोष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा । चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥ १३ ॥
पदच्छेद:-
लघु रूक्ष-उष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा । चरक: तु आह वीर्यं तत् क्रियते येन या क्रिया ॥ १३ ॥
९.१३cv चरकस् त्व् आह वीर्यं तु ९.१३dv येन या क्रियते क्रिया

ना-वीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा । गुर्व्-आदिष्व् एव वीर्याख्या तेनान्व्-अर्थेति वर्ण्यते ॥ १४ ॥
पदच्छेद:-
न-अवीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा । गुरु-आदिषु एव वीर्य-आख्या तेन अनु-अर्था इति वर्ण्यते ॥ १४ ॥

समग्र-गुण-सारेषु शक्त्य्-उत्कर्ष-विवर्तिषु । व्यवहाराय मुख्य-त्वाद् बह्व्-अग्र-ग्रहणाद् अपि ॥ १५ ॥
पदच्छेद:-
समग्र-गुण-सारेषु शक्ति-उत्कर्ष-विवर्तिषु । व्यवहाराय मुख्य-त्वाद् बहु-अग्र-ग्रहणाद् अपि ॥ १५ ॥
९.१५av समग्र-गुण-सार-त्वाच् ९.१५bv छक्त्य्-उत्कर्ष-विवर्तनात्

अतश् च विपरीत-त्वात् संभवत्य् अपि नैव सा । विवक्ष्यते रसाद्येषु वीर्यं गुर्व्-आदयो ह्य् अतः ॥ १६ ॥
पदच्छेद:-
अत: च विपरीतत्वात् संभवति अपि न एव सा । विवक्ष्यते रस-आद्येषु वीर्यं गुरु-आदयो हि अतः ॥ १६ ॥

उष्णं शीतं द्वि-धैवान्ये वीर्यम् आचक्षते ऽपि च । नानात्मकम् अपि द्रव्यम् अग्नी-षोमौ महा-बलौ ॥ १७ ॥
पदच्छेद:-
उष्णं शीतं द्विधा एव अन्ये वीर्यम् आचक्षते अपि च । नाना-आत्मकम् अपि द्रव्यम् अग्नि-सोमौ महा-बलौ ॥ १७ ॥

व्यक्ता-व्यक्तं जगद् इव नातिक्रामति जातु चित् । तत्रोष्णं भ्रम-तृड्-ग्लानि-स्वेद-दाहाशु-पाकि-ताः ॥ १८ ॥
पदच्छेद:-
व्यक्त-अव्यक्तं जगद् इव न अतिक्रामति जातु चित् । तत्र उष्णं भ्रम-तृड्-ग्लानि-स्वेद-दाह-आशु-पाकिताः ॥ १८ ॥
९.१८av व्यक्ता-व्यक्तं जगद् इदं ९.१८av व्यक्ताव्यक्तं यथा विश्वं

शमं च वात-कफयोः करोति शिशिरं पुनः । ह्लादनं जीवनं स्तम्भं प्रसादं रक्त-पित्तयोः ॥ १९ ॥
पदच्छेद:-
शमं च वात-कफयोः करोति शिशिरं पुनः । ह्लादनं जीवनं स्तम्भं प्रसादं रक्त-पित्तयोः ॥ १९ ॥

जाठरेणाग्निना योगाद् यद् उदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ २० ॥
पदच्छेद:-
जाठरेण अग्निना योगाद् यद् उदेति रस-अन्तरम् । रसानां परिणाम-अन्ते स: विपाक: इति स्मृतः ॥ २० ॥

स्वादुः पटुश् च मधुरम् अम्लो ऽम्लं पच्यते रसः । तिक्तोषण-कषायाणां विपाकः प्राय-शः कटुः ॥ २१ ॥
पदच्छेद:-
स्वादुः पटु: च मधुरम् अम्ल: अम्लं पच्यते रसः । तिक्त-उषण-कषायाणां विपाकः प्रायशः कटुः ॥ २१ ॥

रसैर् असौ तुल्य-फलस् तत्र द्रव्यं शुभा-शुभम् । किञ्-चिद् रसेन कुरुते कर्म पाकेन चापरम् ॥ २२ ॥
पदच्छेद:-
रसै: असौ तुल्यफल: तत्र द्रव्यं शुभ-अशुभम् । किञ्-चिद् रसेन कुरुते कर्म पाकेन च अपरम् ॥ २२ ॥

गुणान्तरेण वीर्येण प्रभावेणैव किञ्-च-न । यद् यद् द्रव्ये रसादीनां बल-वत्-त्वेन वर्तते ॥ २३ ॥
पदच्छेद:-
गुण-अन्तरेण वीर्येण प्रभावेण एव किञ्-चन । यद् यद् द्रव्ये रसादीनां बलवत्वेन वर्तते ॥ २३ ॥

अभिभूयेतरांस् तत् तत् कारणत्वं प्रपद्यते । विरुद्ध-गुण-संयोगे भूयसाल्पं हि जीयते ॥ २४ ॥
पदच्छेद:-
अभिभूय इतरान् तत् तत् कारणत्वं प्रपद्यते । विरुद्ध-गुण-संयोगे भूयसा अल्पं हि जीयते ॥ २४ ॥

रसं विपाकस् तौ वीर्यं प्रभावस् तान्य् अपोहति । बल-साम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥ २५ ॥
पदच्छेद:-
रसं विपाक: तौ वीर्यं प्रभाव: तानि अपोहति । बलसाम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥ २५ ॥
९.२५bv प्रभावस् तान् व्यपोहति

रसादि-साम्ये यत् कर्म विशिष्टं तत् प्रभाव-जम् । दन्ती रसाद्यैस् तुल्यापि चित्रकस्य विरेचनी ॥ २६ ॥
पदच्छेद:-
रस-आदि-साम्ये यत् कर्म विशिष्टं तत् प्रभाव-जम् । दन्ती रसाद्यै: तुल्या अपि चित्रकस्य विरेचनी ॥ २६ ॥

मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । इति सामान्यतः कर्म द्रव्यादीनां पुनश् च तत् ॥ २७ ॥
पदच्छेद:-
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । इति सामान्यतः कर्म द्रव्यादीनां पुन: च तत् ॥ २७ ॥

विचित्र-प्रत्ययारब्ध-द्रव्य-भेदेन भिद्यते । स्वादुर् गुरुश् च गोधूमो वात-जिद् वात-कृद् यवः ॥ २८ ॥
पदच्छेद:-
विचित्र-प्रत्यय-आरब्ध-द्रव्य-भेदेन भिद्यते । स्वादु: गुरु: च गोधूम: वात-जित् वात-कृत् यवः ॥ २८ ॥

उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥ २८ऊ̆ ॥

पदच्छेद:-
उष्णा: मत्स्याः पयः शीतं कटुः सिंह: न शूकरः ॥ २८ऊ̆ ॥

 वर्ग: : सूत्रस्थान-पदच्छेदान्वयार्थसहितम्