०९ नीवारपाकादि...

विकिपुस्तकानि तः

मूलम्
नीवारपाकादि कडङ्गरीयैरामृश्यते जानपदैर्न कच्चित्।कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः।।५.९

पदच्छेदः
नीवारपाकादि कडङ्गरीयैः आमृश्यते जानपदौ न कच्चित्।काल उपपन्न–अतिथि–कल्प्य–भागं वन्यं शरीरं–स्थितिसाधनं वः॥९॥

अन्वयः
काल उपपन्न–अतिथि–कल्प्य–भागं वः शरीरं–स्थितिसाधनं, वन्यं नीवारपाकादि जानपदौ कडङ्गरीयैः न आमृश्यते कच्चित्॥

सरलार्थः
आश्रमवासिनः जनाः वने उत्पन्नेन धान्येन उदरनिर्वाहं कुर्वन्ति। परिपक्वं धान्यं ते वनाद् आनयन्ति,अतिथिनां कृते रक्षन्ति च। एतद् धान्यं ग्राम्यपशवः न भक्षयन्ति खलु ? यतः एते पशवः कडङ्गरेण पोषिताः सन्ति।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः  
"https://sa.wikibooks.org/w/index.php?title=०९_नीवारपाकादि...&oldid=6033" इत्यस्माद् प्रतिप्राप्तम्