१०रसभेदीय:

विकिपुस्तकानि तः
मूलम् पदच्छेद: अन्वय: सरलार्थ:
क्ष्माम्भो-ऽग्नि-क्ष्माम्बु-तेजः-ख-वाय्व्-अग्न्य्-अनिल-गो-ऽनिलैः ।
द्वयोल्बणैः क्रमाद् भूतैर् मधुरादि-रसोद्भवः ॥ १ ॥
क्ष्म-अम्भो-अग्नि-क्ष्म-अम्बु-तेजः-ख-वायु-अग्नि-अनिल-गो-अनिलैः ।
द्वय-उल्बणैः क्रमाद् भूतै: मधुर-आदि-रस-उद्भवः ॥ १ ॥
तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति ।

आस्वाद्यमानो देहस्य ह्लादनो ऽक्ष-प्रसादनः ॥ २ ॥
१०.२bv यो वक्त्रम् उपलिम्पति

तेषां विद्याद् रसं स्वादुं य: वक्त्रम् अनुलिम्पति ।

आस्वाद्यमान: देहस्य ह्लादन: अक्ष-प्रसादनः ॥ २ ॥

प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् ।

हर्षणो रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥ ३ ॥
१०.३bv अम्लः स्रावयते मुखम्

प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् ।

हर्षण: रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥ ३ ॥

लवणः स्यन्दयत्य् आस्यं कपोल-गल-दाह-कृत् ।

तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥ ४ ॥
१०.४dv रसनां प्रतिहन्ति च

लवणः स्यन्दयति आस्यं कपोल-गल-दाह-कृत् ।

तिक्त: विशदयति आस्यं रसनं प्रतिहन्ति च ॥ ४ ॥

उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः ।

स्रावयत्य् अक्षि-नासास्यं कपोलं दहतीव च ॥ ५ ॥

उद्वेजयति जिह्वा-अग्रं कुर्वन् चिमिचिमां कटुः ।

स्रावयति अक्षि-नासा-आस्यं कपोलं दहति इव च ॥ ५ ॥

कषायो जडयेज् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् ।

रसानाम् इति रूपाणि कर्माणि मधुरो रसः ॥ ६ ॥

कषाय: जडयेत् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् ।

रसानाम् इति रूपाणि कर्माणि मधुर: रसः ॥ ६ ॥

आ-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् ।

बाल-वृद्ध-क्षत-क्षीण-वर्ण-केशेन्द्रियौजसाम् ॥ ७ ॥

आ-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् ।

बाल-वृद्ध-क्षत-क्षीण-वर्ण-केश-इन्द्रिय-ओजसाम् ॥ ७ ॥

प्रशस्तो बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः ।

आयुष्यो जीवनः स्निग्धः पित्तानिल-विषापहः ॥ ८ ॥

प्रशस्त: बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः ।

आयुष्य: जीवनः स्निग्धः पित्त-अनिल-विष-अपहः ॥ ८॥

कुरुते ऽत्य्-उपयोगेन स मेदः-श्लेष्म-जान् गदान् ।

स्थौल्याग्नि-साद-संन्यास-मेह-गण्डार्बुदादिकान् ॥ ९ ॥
< १०.९bv स मेदः-कफ-जान् गदान्

कुरुते अति-उपयोगेन स: मेदः-श्लेष्म-जान् गदान् ।

स्थौल्य-अग्नि-साद-संन्यास-मेह-गण्ड-अर्बुद-आदिकान् ॥ ९ ॥

अम्लो ऽग्नि-दीप्ति-कृत् स्निग्धो हृद्यः पाचन-रोचनः ।

उष्ण-वीर्यो हिम-स्पर्शः प्रीणनः क्लेदनो लघुः ॥ १० ॥
१०.१०cv उष्ण-वीर्यो हिमः स्पर्शे १०.१०dv प्रीणनो भेदनो लघुः

अम्ल: अग्नि-दीप्ति-कृत् स्निग्ध: हृद्यः पाचन-रोचनः ।

उष्ण-वीर्य: हिम-स्पर्शः प्रीणनः क्लेदन: लघुः ॥ १० ॥

करोति कफ-पित्तास्रं मूढ-वातानुलोमनः ।

सो ऽत्य्-अभ्यस्तस् तनोः कुर्याच् छैथिल्यं तिमिरं भ्रमम् ॥ ११ ॥
१०.११bv मूढ-वातानुलोमनम्

करोति कफ-पित्त-अस्रं मूढ-वात-अनुलोमनः ।

स: अति-अभ्यस्त: तनोः कुर्यात् शैथिल्यं तिमिरं भ्रमम् ॥ ११ ॥

कण्डू-पाण्डु-त्व-वीसर्प-शोफ-विस्फोट-तृड्-ज्वरान् ।

लवणः स्तम्भ-संघात-बन्ध-विध्मापनो ऽग्नि-कृत् ॥ १२ ॥

कण्डू-पाण्डुत्व-वीसर्प-शोफ-विस्फोट-तृड्-ज्वरान् ।

लवणः स्तम्भ-संघात-बन्ध-विध्मापन: अग्नि-कृत् ॥ १२ ॥

स्नेहनः स्वेदनस् तीक्ष्णो रोचनश् छेद-भेद-कृत् ।
सो ऽति-युक्तो ऽस्र-पवनं खलतिं पलितं वलीम् ॥ १३ ॥

स्नेहनः स्वेदन: तीक्ष्ण: रोचन: छेद-भेद-कृत् ।

स: अति-युक्त: अस्र-पवनं खलतिं पलितं वलीम् ॥ १३ ॥

तृट्-कुष्ठ-विष-वीसर्पान् जनयेत् क्षपयेद् बलम् ।

तिक्तः स्वयम् अ-रोचिष्णुर् अ-रुचिं कृमि-तृड्-विषम् ॥ १४ ॥

तृट्-कुष्ठ-विष-वीसर्पान् जनयेत् क्षपयेद् बलम् ।

तिक्तः स्वयम् अ-रोचिष्णु: अ-रुचिं कृमि-तृड्-विषम् ॥ १४ ॥

कुष्ठ-मूर्छा-ज्वरोत्क्लेश-दाह-पित्त-कफाञ् जयेत् ।

क्लेद-मेदो-वसा-मज्ज-शकृन्-मूत्रोपशोषणः ॥ १५ ॥

कुष्ठ-मूर्छा-ज्वर-उत्क्लेश-दाह-पित्त-कफान् जयेत् ।

क्लेद-मेदस्-वसा-मज्जन्-शकृत्-मूत्र-उपशोषणः ॥ १५ ॥

लघुर् मेध्यो हिमो रूक्षः स्तन्य-कण्ठ-विशोधनः ।

धातु-क्षयानिल-व्याधीन् अति-योगात् करोति सः ॥ १६ ॥
१०.१६cv धातु-क्षयं चल-व्याधीन्

लघु: मेध्य: हिम: रूक्षः स्तन्य-कण्ठ-विशोधनः ।

धातु-क्षय-अनिल-व्याधीन् अति-योगात् करोति सः ॥ १६ ॥

कटुर् गलामयोदर्द-कुष्ठालसक-शोफ-जित् ।

व्रणावसादनः स्नेह-मेदः-क्लेदोपशोषणः ॥ १७ ॥

कटु: गलामय-उदर्द-कुष्ठ-अलसक-शोफ-जित् ।

व्रण-अवसादनः स्नेह-मेदः-क्लेद-उपशोषणः ॥ १७ ॥

दीपनः पाचनो रुच्यः शोधनो ऽन्नस्य शोषणः ।

छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥ १८ ॥ १०.१८bv शोधनो ऽन्नस्य हाषणः

दीपनः पाचन: रुच्यः शोधन: अन्नस्य शोषणः ।

छिनत्ति बन्धान् स्रोतांसि विवृणोति कफ-अपहः ॥ १८ ॥

कुरुते सो ऽति-योगेन तृष्णां शुक्र-बल-क्षयम् ।

मूर्छाम् आकुञ्चनं कम्पं कटी-पृष्ठादिषु व्यथाम् ॥ १९ ॥
१०.१९av कुरुते सो ऽति-वेगेन

कुरुते स: अति-योगेन तृष्णां शुक्र-बल-क्षयम् ।

मूर्छाम् आकुञ्चनं कम्पं कटी-पृष्ठ-आदिषु व्यथाम् ॥ १९ ॥

कषायः पित्त-कफ-हा गुरुर् अस्र-विशोधनः ।

पीडनो रोपणः शीतः क्लेद-मेदो-विशोषणः ॥ २० ॥

कषायः पित्त-कफ-हा गुरु: अस्र-विशोधनः ।

पीडन: रोपणः शीतः क्लेद-मेदो-विशोषणः ॥ २० ॥

आम-संस्तम्भनो ग्राही रूक्षो ऽति त्वक्-प्रसादनः । br>

करोति शीलितः सो ऽति विष्टम्भाध्मान-हृद्-रुजः ॥ २१ ॥

आम-संस्तम्भन: ग्राही रूक्ष: अति त्वक्-प्रसादनः ।

करोति शीलितः स: अति विष्टम्भ-आध्मान-हृद्-रुजः ॥ २१ ॥

तृट्-कार्श्य-पौरुष-भ्रंश-स्रोतो-रोध-मल-ग्रहान् ।

घृत-हेम-गुडाक्षोट-मोच-चोच-परूषकम् ॥ २२ ॥
१०.२२bv -स्रोतो-रोध-गल-ग्रहान् १०.२२bv -स्रोतो-बन्ध-मल-ग्रहान्

तृट्-कार्श्य-पौरुष-भ्रंश-स्रोतो-रोध-मल-ग्रहान् ।

घृत-हेम-गुड-आक्षोट-मोच-चोच-परूषकम् ॥ २२ ॥

अभीरु-वीरा-पनस-राजादन-बला-त्रयम् ।

मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥ २३ ॥ अभीरु-वीरा-पनस-राजादन-बला-त्रयम् ।

मेदे चतस्रः पर्णिन्य: जीवन्ती जीवक-ऋषभौ ॥ २३ ॥
मधूकं मधुकं बिम्बी विदारी श्रावणी-युगम् ।

क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥ २४ ॥
१०.२४cv क्षीरशुक्ला तवक्षीरी मूलम्

मधूकं मधुकं बिम्बी विदारी श्रावणी-युगम् ।

क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥ २४ ॥

क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर् मधुरो गणः ।

अम्लो धात्री-फलाम्लीका-मातुलुङ्गाम्ल-वेतसम् ॥ २५ ॥

क्षीर-इक्षु-गोक्षुर-क्षौद्र-द्राक्षादि: मधुर: गणः ।

अम्ल: धात्री-फल-अम्लीका-मातुलुङ्ग-अम्ल-वेतसम् ॥ २५ ॥

दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि ।

आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥ २६ ॥

दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि ।

आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥ २६ ॥

वृक्षाम्ल-कोल-लिकुच-कोशाम्लातक-धन्वनम् ।

मस्तु-धान्याम्ल-मद्यानि जम्बीरं तिल-कण्टकम् ॥ २६+१ ॥

वृक्षाम्ल-कोल-लिकुच-कोशाम्लातक-धन्वनम् ।

मस्तु-धान्याम्ल-मद्यानि जम्बीरं तिल-कण्टकम् ॥ २६+१ ॥

वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् ।

रोमकं पांसु-जं सीसं क्षारश् च लवणो गणः ॥ २७ ॥
१०.२७dv क्षाराश् च लवणो गणः

वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् ।

रोमकं पांसु-जं सीसं क्षार: च लवण: गणः ॥ २७ ॥

तिक्तः पटोली त्रायन्ती वालकोशीर-चन्दनम् ।

भूनिम्ब-निम्ब-कटुका-तगरागुरु-वत्सकम् ॥ २८ ॥

तिक्तः पटोली त्रायन्ती वालक-उशीर-चन्दनम् ।

भूनिम्ब-निम्ब-कटुका-तगर-अगुरु-वत्सकम् ॥ २८ ॥

नक्तमाल-द्वि-रजनी-मुस्त-मूर्वाटरूषकम् ।

पाठापामार्ग-कांस्यायो-गुडूची-धन्वयासकम् ॥ २९ ॥

नक्तमाल-द्वि-रजनी-मुस्त-मूर्वा-आटरूषकम् ।

पाठा-अपामार्ग-कांस्य-अयो-गुडूची-धन्वयासकम् ॥ २९ ॥

पञ्च-मूलं महद् व्याघ्र्यौ विशालातिविषा वचा ।

कटुको हिङ्गु-मरिच-कृमिजित्-पञ्च-कोलकम् ॥ ३० ॥
१०.३०cv कटुको हिङ्गु-मरिचं १०.३०dv कृमिजित्-पञ्च-कोलकम्

पञ्च-मूलं महद् व्याघ्र्यौ विशाला अतिविषा वचा ।

कटुक: हिङ्गु-मरिच-कृमिजित्-पञ्च-कोलकम् ॥ ३० ॥

कुठेराद्या हरितकाः पित्तं मूत्रम् अरुष्करम् ।

वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥ ३१ ॥
१०.३१bv पित्तं मूत्रम् अरुष्करः १०.३१cv वर्गः कषायः पथ्याक्षः

कुठेराद्या: हरितकाः पित्तं मूत्रम् अरुष्करम् ।

वर्गः कषायः पथ्या अक्षं शिरीषः खदिरो मधु ॥ ३१ ॥

कदम्बोदुम्बरं मुक्ता-प्रवालाञ्जन-गैरिकम् ।

बालं कपित्थं खर्जूरं बिस-पद्मोत्पलादि च ॥ ३२ ॥
१०.३२dv बिस-पद्मोत्पलानि च

कदम्ब-उदुम्बरं मुक्ता-प्रवाल-अञ्जन-गैरिकम् ।

बालं कपित्थं खर्जूरं बिस-पद्म-उत्पलादि च ॥ ३२ ॥

मधुरं श्लेष्मलं प्रायो जीर्णाच् छालि-यवाद् ऋते ।

मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥ ३३ ॥

मधुरं श्लेष्मलं प्राय: जीर्णात् शालि-यवाद् ऋते ।

मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गल-आमिषात् ॥ ३३ ॥

प्रायो ऽम्लं पित्त-जननं दाडिमामलकाद् ऋते ।

अ-पथ्यं लवणं प्रायश् चक्षुषो ऽन्यत्र सैन्धवात् ॥ ३४ ॥

प्राय: अम्लं पित्त-जननं दाडिम-आमलकाद् ऋते ।

अ-पथ्यं लवणं प्राय: चक्षुष: आन्यत्र सैन्धवात् ॥ ३४ ॥

तिक्तं कटु च भूयिष्ठम् अ-वृष्यं वात-कोपनम् ।

ऋते ऽमृता-पटोलीभ्यां शुण्ठी-कृष्णा-रसोनतः ॥ ३५ ॥

तिक्तं कटु च भूयिष्ठम् अ-वृष्यं वात-कोपनम् ।

ऋते अमृता-पटोलीभ्यां शुण्ठी-कृष्णा-रसोनतः ॥ ३५ ॥

कषायं प्रायशः शीतं स्तम्भनं चाभयां विना ।

रसाः कट्व्-अम्ल-लवणा वीर्येणोष्णा यथोत्तरम् ॥ ३६ ॥
१०.३६bv स्तम्भनं चाभयामृते

कषायं प्रायशः शीतं स्तम्भनं च अभयां विना ।

रसाः कटु-अम्ल-लवणा: वीर्येण उष्णा: यथा-उत्तरम् ॥ ३६ ॥

तिक्तः कषायो मधुरस् तद्-वद् एव च शीतलाः ।

तिक्तः कटुः कषायश् च रूक्षा बद्ध-मलास् तथा ॥ ३७ ॥

तिक्तः कषाय: मधुर: तद्-वद् एव च शीतलाः ।

तिक्तः कटुः कषाय: च रूक्षा: बद्ध-मला: तथा ॥ ३७ ॥

पट्व्-अम्ल-मधुराः स्निग्धाः सृष्ट-विण्-मूत्र-मारुताः ।

पटोः कषायस् तस्माच् च मधुरः परमं गुरुः ॥ ३८ ॥

पटु-अम्ल-मधुराः स्निग्धाः सृष्ट-विण्-मूत्र-मारुताः ।

पटोः कषाय: तस्मात् च मधुरः परमं गुरुः ॥ ३८ ॥

लघुर् अम्लः कटुस् तस्मात् तस्माद् अपि च तिक्तकः ।

संयोगाः सप्त-पञ्चाशत् कल्पना तु त्रि-षष्टि-धा ॥ ३९ ॥

लघु: अम्लः कटु: तस्मात् तस्माद् अपि च तिक्तकः ।

संयोगाः सप्त-पञ्चाशत् कल्पना तु त्रि-षष्टि-धा ॥ ३९ ॥

लवणाद् अम्ल-मधुरौ कार्यौ स्यातां यथा-क्रमम् ।

वायोर् निर्-अनुबन्धस्य पाक-शान्ति-प्रवृत्तये ॥ ३९.१+१ ॥
१०.३९.१+१dv पाक-शान्ति-प्रसक्तये

लवणाद् अम्ल-मधुरौ कार्यौ स्यातां यथा-क्रमम् ।

वायो: निर्-अनुबन्धस्य पाक-शान्ति-प्रवृत्तये ॥ ३९.१+१ ॥

प्राक् तिक्तो मधुरः पश्चात् कषायो ऽन्ते विधीयते ।

तैः पित्तं शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितम् ॥ ३९.१+२ ॥

प्राक् तिक्त: मधुरः पश्चात् कषाय: अन्ते विधीयते ।

तैः पित्तं शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥ ३९.१+२ ॥

कटुः प्राक् तिक्तकः पश्चात् कषायो ऽन्ते विधीयते ।

तैः श्लेष्मा शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥ ३९.१+३ ॥
१०.३९.१+३av कटुकः प्राक् ततस् तिक्तः १०.३९.१+३dv पक्वो ऽच्छी-कृत-पिण्डितः

कटुः प्राक् तिक्तकः पश्चात् कषाय: अन्ते विधीयते ।

तैः श्लेष्मा शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥ ३९.१+३ ॥

रसानां यौगिक-त्वेन यथा-स्थूलं विभज्यते ।

एकैक-हीनास् तान् पञ्च-दश यान्ति रसा द्विके ॥ ४० ॥
१०.४०cv एकैक-हीनास् ते पञ्च- १०.४०dv -पञ्च यान्ति रसा द्विके

रसानां यौगिकत्वेन यथा-स्थूलं विभज्यते ।

एक-एक-हीना: तान् पञ्च-दश यान्ति रसा: द्विके ॥ ४० ॥

स्वादुर् द्विकेषु पञ्चाम्लश् चतुरो लवणस् त्रयम् ।

द्वौ तिक्तः कटुकश् चैकं याति पञ्च-दशेति तु ॥ ४०+१ ॥

स्वादु: द्विकेषु पञ्च अम्ल: चतुर: लवण: त्रयम् ।

द्वौ तिक्तः कटुक: च एकं याति पञ्च-दशेति तु ॥ ४०+१ ॥

त्रिके स्वादुर् दशाम्लः षट् त्रीन् पटुस् तिक्त एककम् ।

चतुष्केषु दश स्वादुश् चतुरो ऽम्लः पटुः सकृत् ॥ ४१ ॥
१०.४१cv चतुष्के तु दश स्वादुश्

त्रिके स्वादु: दश अम्लः षट् त्रीन् पटु: तिक्त: एककम् ।

चतुष्केषु दश स्वादु: चतुर: अम्लः पटुः सकृत् ॥ ४१ ॥

पञ्चकेष्व् एकम् एवाम्लो मधुरः पञ्च सेवते ।

द्रव्यम् एकं षड्-आस्वादम् अ-संयुक्ताश् च षड् रसाः ॥ ४२ ॥

पञ्चकेषु एकम् एव अम्ल: मधुरः पञ्च सेवते ।

द्रव्यम् एकं षड्-आस्वादम् अ-संयुक्ताश् च षड् रसाः ॥ ४२ ॥

षट् पञ्चका षट् च पृथग् रसाः स्युश् चतुर्-द्विकौ पञ्च-दश-प्रकारौ ।

भेदास् त्रिका विंशतिर् एकम् एव द्रव्यं षड्-आस्वादम् इति त्रि-षष्टिः ॥ ४३ ॥

षट् पञ्चका षट् च पृथग् रसाः स्यु: चतुर्-द्विकौ पञ्च-दश-प्रकारौ ।

भेदा: त्रिका विंशति: एकम् एव द्रव्यं षड्-आस्वादम् इति त्रि-षष्टिः ॥ ४३ ॥

ते रसानु-रसतो रस-भेदास् तारतम्य-परिकल्पनया च ।

संभवन्ति गणनां समतीता दोष-भेषज-वशाद् उपयोज्याः ॥ ४४ ॥

ते रस-अनु-रसत: रस-भेदा: तारतम्य-परिकल्पनया च ।

संभवन्ति गणनां समतीता: दोष-भेषज-वशाद् उपयोज्याः ॥ ४४ ॥

वर्ग:  सूत्रस्थान- पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=१०रसभेदीय:&oldid=5243" इत्यस्माद् प्रतिप्राप्तम्