११ तवार्हतो ...

विकिपुस्तकानि तः

मूलम्
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्मां।।५.११।।

पदच्छेदः
तव अर्हतः न अभिगमेन तृप्तं मनः नियोग–क्रियया उत्सुकं मे।अपि आज्ञया शासितुः आत्मना वा प्राप्तः असि सम्भावयितुं वनात् माम्॥११॥

अन्वयः
अर्हतः तव अभिगमेन मे मनः न तृप्तं नियोग–क्रियया उत्सुकम्।शासितुः आज्ञया अपि आत्मना वा मां सम्भावयितुं वनात् प्राप्तः असि? ११

सरलार्थः
तव आगमनमात्रेण मम मनः न तृप्तम्। त्वं पूज्यः असि अतः तव आज्ञा का इति ज्ञात्वा तस्याः पालनार्थं मम मनः उत्सुकम्।त्वं वनाद् अत्र केन प्रयेजनेन आगतः असि? गुरोः कार्यार्थम् अथवा स्वकार्यार्थम्? तव वा,तव गुरोः वा आज्ञापालने अहं सम्मानम् अनुभवामि।११

सन्धिः

समासः

मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः

"https://sa.wikibooks.org/w/index.php?title=११_तवार्हतो_...&oldid=6036" इत्यस्माद् प्रतिप्राप्तम्