१४ भक्तिः प्रतीक्ष्येषु...

विकिपुस्तकानि तः

मूलम्
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे।व्यतीतकालस्त्वहं अभ्युपेतस्त्वां अर्थिभावादिति मे विषादः ।।५.१४।।
पदच्छेदः

भक्तिः प्रतीक्ष्येषु कुलोचिता पूर्वान् महाभाग तया अतिशेषे।व्यतीतकालः तु अहम् अभ्युपेतः त्वाम् अर्थिभावाद् इति मे विषादः॥१४॥

अन्वयः
प्रतीक्ष्येषु भक्तिः ते कुलोचिता। हे महाभाग, तया पूर्वान् अतिशेषे।पूज्यानां विषये भक्तिः तव कुले उचिता। हे महाभाग,(त्वं) तया (भक्त्या)पूर्वजेभ्यः अपि विशिष्टः असि।१४

सरलार्थः
तु व्यतीतकालः(सन्) अहं अर्थिभावात् त्वाम् अभ्युपेतः इति मे विषादः।परं यस्य उचितः कालः गतः तादृशः अहं याचकभावेन त्वां प्रति आगतः इति मम खेदः।१४

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः