१८ एतावदुक्त्वा ...

विकिपुस्तकानि तः

मूलम्
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तं अन्वयुङ्क्त।।५.१८।।

पदच्छेदः
एतावद् उक्त्त्वा प्रतियातुकामं शिष्यं महर्षेः नृपतिः नृपतिः।किं वस्तु विद्वन् गुरवे प्रदेयं त्वया कियद् वा इति तम् अन्वयुङ्क्त॥१८॥

अन्वयः
एतावद् उक्त्त्वा प्रतियातुकामं महर्षेः शिष्यं(कौत्सं) नृपतिः(रघुः) निषिध्य,हे विद्वन्, त्वया गुरवे प्रदेयं वस्तु किं,कियद् वा इति तम् अन्वयुङ्क्त॥१८

सरलार्थः
एतावद् उक्त्त्वा प्रतिगमनेच्युकं मिनेः शिष्यं राजा निर्वाय हे पण्डित,त्वया गुरोः कृते देयं वस्तु किम्(अस्ति) कियत्परिणाम्(अस्ति) इति तं पृष्टवान्।१८

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१८_एतावदुक्त्वा_...&oldid=6043" इत्यस्माद् प्रतिप्राप्तम्