१९ ततो यथावद्...

विकिपुस्तकानि तः

मूलम्
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतं आचचक्षे।।५.१९।।

पदच्छेदः
ततः यथावद् विहित–अध्वराय तस्मै स्मय–आवेश–विवर्जिताय।वर्णाश्रमाणां गुरवे सः वर्णी विचक्षणः प्रस्तुतम् आचचक्षे॥१९॥

अन्वयः
ततः यथावद् विहित–अध्वराय, स्मय–आवेश–विवर्जिताय, वर्णाश्रमाणां गुरवे, तस्मै (रघुराजाय) सः विचक्षणः वर्णी(कौत्सः) प्रस्तुतम् आचचक्षे।१९

सरलार्थः
अनन्तरं यथाशास्त्रं येन यागः कृतः,यः गर्वाभिनिवेशून्यः, तस्मै वर्णानाम् आश्रमाणां च प्रमुखाय (रघुराजाय) सः चतुरः ब्रह्मचारी कौत्सः प्रस्तुतविषयम् उक्तवान्।१९

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१९_ततो_यथावद्...&oldid=6044" इत्यस्माद् प्रतिप्राप्तम्