सामग्री पर जाएँ

१.२.०४अन्तरधिकरणम्।

विकिपुस्तकानि तः

अन्तर उपपत्ते:।१.२.१३
पूर्वपक्ष:- ‘य एषोऽक्षिणि ... (छा. ४.१५.१)’ इत्यत्र पुरुषप्रतिरूप: प्रतिबिम्बो निर्दिश्यते, अक्ष्यधिकरणत्वात्, दृश्यते इति निर्देशात्।
वेदान्ती- न।‘अमृतमभयमेतद् ब्रह्म’ इति वर्णनात्।एतद् वर्णनं छायात्मनि पुरुषप्रतिरूपे नोपपद्यते।
पू.- तर्हि विज्ञानात्मा अत्र निर्दिष्ट इति मन्तव्यम्।रूपदर्शने तस्य चक्षु:सन्निहितत्वात् अक्षिणीति अधिकरणनिर्देश: सङ्गच्छते।आत्मशब्देन चास्य निर्देश: सुसङ्गतो भवति।
वे.- न। ‘अमृतमभयमेतद् ब्रह्म’ इति वर्णनात्।एतद् वर्णनं विज्ञानात्मनि नोपपद्यते।
पू.- तर्हि देवतात्मा इन्द्रियाधिष्ठाता आदित्यपुरुषोऽत्र निर्दिष्ट इति मन्तव्यम्।‘रश्मिभिरेषोऽत्र प्रतिष्ठित:’-(बृ.५.५.२) इति श्रुते:।तत्र अमृतत्वमपि सङ्गच्छते।
वे.- न, आत्मशब्देन तस्या: निर्देशासम्भवात्।अत: परमेश्वर: एवात्र निर्दिष्ट:,उपपत्ते:।अत्र निर्दिष्टं समग्रं गुणजातं परमेश्वरे एवोपपद्यते , तदेवम्-
एष आत्मा – परमेश्वरे मुख्यवृत्या उपपद्यते।
एतदमृतम् - श्रुतौ असकृत् श्रूयते।
एतदभयम् - श्रुतौ असकृत् श्रूयते।
एतद् ब्रह्म – स आत्मा तत्त्वमसि इति श्रुते:।
वर्त्मनि एव गच्छति – स अपहतपाप्मा सर्वदोषैरलिप्त:

स्थानादिव्यपदेशाच्च।१.२.१४
पू.-सर्वगतस्येश्वरस्य अक्षिस्थाननिर्देशो न युज्यते, तस्मादत्र ईश्वरो न निर्दिष्ट:।
वे.- स्थानादिव्यपदेशाच्च।चक्षुरिति एकमेव स्थानमुपदिष्टं चेद् आक्षेपोऽयमुचित: स्यात्।परं पृथिव्यादीनि अन्यानि अपि ईश्वरस्थानानि उक्तानि(बृ.३.७.३)।तेषु अन्यतमं स्थानं चक्षु:।
आदिपदेन नामरूपे अपि ब्रह्मण: अनामरूपस्य उपदिष्टे स्त:।-तस्योदिति नाम।हिरण्यश्मश्रू: इति च रूपम्(छा.१.६.६,७ ) स्थानाद्युपदेशोऽयमुपासनार्थ: यथा शालग्रामे विष्णुनिर्देश:।

सुखविशिष्टाभिधानादेव च ।१.२.१५
पू.- ननु कं ब्रह्म खं ब्रह्म इति निर्देशो न युज्यते , ब्रह्मण: एकत्वात्।कं खं ब्रह्म इति एकवारमेवोपादानमुचितम्।
वे.- न।तथा सति कं शब्द: विशेषणं भवति।तेन कंशब्दवाच्यस्य सुखस्य ध्येयत्वं न सिद्ध्यति, गुणत्वात्।तच्च नेष्टम्।अत: कं ब्रह्म खं ब्रह्म इत्येव निर्देश उचित:।
पू.- भवतु नाम एतद् सुखविशिष्टाभिधानं ब्रह्मणः।तथापि एतदभिधानं कृतमग्निभि:।अग्रे अक्षिपुरुषविषये वचनमुक्तमाचार्येण।अग्निवचने प्रकृतं यद् ब्रह्म, तदेव आचार्यवचने प्रकृतत्वेन कथं गृह्यते?
वे.- अग्नय: पूर्वम्, ‘एषा ... आत्मविद्या च’ इत्युपसंहरन्ति।‘आचार्यस्तु ते गतिं वक्ता’ इति गतिमात्राभिधानात् अर्थानतरविवक्षां वारयन्ति।अत: सत्यपि वक्तृभेदे नार्थान्तरं शङ्कनीयम्।
वे.- सुखविशिष्टं ब्रह्म उपक्रान्तम्।अतोऽयमपि प्रकृतस्य ब्रह्मण: निर्देश: इति युज्यते।
पू.- कुत्र सुखविशिष्टं ब्रह्म उपक्रान्तम्?
वे.-‘ कं ब्रह्म।खं ब्रह्म।... यदेव कं तदेव खं , यदेव खं तदेव कम्(छा. ४.१०.५)
अत्र कं नाम विषयेन्द्रियसम्पर्कजन्यं क्षयि सुखम्।खम्- भूताकाशम्।अनयो: परस्परविशेषणात् सुखस्वरूपं ब्रह्म इत्यर्थ: फलति।एवं सुखविशिष्टं ब्रह्म उपक्रमे विद्यतेऽतोऽत्रापि अक्षिपुरुषस्थले तदेव विवक्षितम्।

श्रुतोपनिषत्कगत्यभिधानाच्च। १.२.१६
वे.- श्रुता उपनिषद् येन स: श्रुतोपनिषत्क:।तस्य गति: श्रुतोपनिषत्कगति:।तस्या: अभिधानम् श्रुतोपनिषत्काभिधानम्।तदस्तीत्येतस्मात् हेतो: अक्षिस्थान: पुरुष: परमेश्वर:।
श्रुतोपनिषत्कस्य गति: (प्रश्न. १.१०,भ. गीता ८.२४) इत्यत्र उक्ता।सैव गतिरिह अक्षिपुरुषविदो भवतीत्यभिधीयते- अथ यदु... नावर्तन्ते (छा.४.१५.५)
वे.- छायात्मा विज्ञानात्मा देवतात्मा वा नात्र ग्राह्यः।

अनवस्थिते: असम्भवाच्च नेतर:।१.२.१७
अनवस्थिते: असम्भवाच्च छायात्मा न ग्राह्य:
१) पुरुषे आसन्ने एव छायात्मा सम्भवति , नान्यदा इति अनवस्थिते:।
२) अत्रोल्लिखितानाम् अमृतत्वादिधर्माणां छायात्मनि असम्भवात्।
विज्ञानात्मा न ग्राह्य: ,
१) कृत्स्नशरीरेन्द्रियसम्बन्धे साधारणे विज्ञानात्मन: चक्षुर्मात्रावस्थिति: वक्तुं न शक्यते इति अनवस्थिते:। [ब्रह्मापि व्यापकम्।तस्य चक्षुर्मात्रावस्थिति: वक्तुं कथं शक्यते? अन्यत्र उपासनानिमित्तं ब्रह्मणः हृदयादिसम्बन्ध: श्रूयते।एवं विज्ञानात्मनो प्रदेशसम्बन्ध: न कुत्रापि न श्रूयते।]
२) अमर्त्यत्वादिधर्माणां विज्ञानात्मनि असम्भवात्।[यद्यपि विज्ञानात्मा परमात्मनोऽनन्य: तथापि अविद्यारोपितं मर्त्यत्वं भयं च तस्मिन् विद्यते।]
देवतात्मा न ग्राह्य:,
१) आत्मत्वेन अनवस्थिते:।‘रश्मिभिरेषोऽस्मिन् प्रतिष्ठित:’ तथापि स: आत्मा नास्ति।
२) उत्पत्तिप्रलयश्रवणात् अमर्त्यत्वस्य असम्भवात्।
परमात्मा अक्षिणि दृश्यते इति प्रसिद्धवदुल्लेख: प्ररोचनार्थमिति मन्तव्यम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     प्रथमाध्याये द्वितीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=१.२.०४अन्तरधिकरणम्।&oldid=5482" इत्यस्माद् प्रतिप्राप्तम्