१.२.०६अदृश्यत्वाधिकरणम्।

विकिपुस्तकानि तः
Jump to navigation Jump to search

अदृश्यत्वादिगुणयुक्तो धर्मोक्ते:।१.२.२१
विशेषणभेदव्यपदेशाभ्यां च नेतरौ।१.२.२२

पूर्वपक्ष:.-अत्र अद्रेश्यादिगुणकं प्रधानं विवक्षितम्।
वेदान्ती– पूर्वं प्रधानस्य जगत्कर्तृत्वं निराकृतम्(१.२.२०)तथापीह पुन: कथमुत्थाप्यते?
पू. – १.२.२० इत्यत्र द्रष्टृत्वादयो धर्माः उक्ताः ।ते प्रधाने न सम्भवन्ति इति प्रधानस्य निराकरणं जातम्।इह तु प्रधानस्वीकारे तादृशं बाधकं किमपि नास्ति इति अदृश्यत्वादिधर्माश्रयं प्रधानमत्र निर्दिष्टमिति ब्रूमः।
वे.- यः सर्वज्ञः सर्वविद् (मुण्ड. १.१.९) इति अत्रापि प्रधानस्वीकारे बाधकमस्ति।सर्वज्ञत्वं सर्ववित्त्वं वा प्रधाने न सम्भवति।
पू.- अन्ते (मु.२.१.२) ‘अक्षरात् परतः परः इत्युक्तम् ।अक्षरशब्देनात्र प्रधानं निर्दिष्टम् ।तत: पर: यः , सः सर्वज्ञ: सर्वविद् इति स्वीकारः शक्यः।
वे.-अक्षरात् सम्भवतीह विश्वम् इत्युक्तम् अत्र प्रकृतं यदक्षरं तद् जायमानस्य विकारस्य प्रकृतित्वेन उक्तम्।यः सर्वज्ञः इत्यत्रापि सर्वज्ञः जायमानस्य रूपादेः प्रकृतित्वेनोक्त:।अत: निर्देशसाम्यम्।तेन सर्वज्ञ: इति पदे श्रुते तदेव भूतयोनित्वेन निर्दिष्टमिदमक्षरमिति प्रत्यभिज्ञा भवति।अत: सर्वज्ञ: सर्वविद् इति तस्यैव निर्देशो भवति।
पूर्व.- मुण्ड.१.१.५,६ इत्यत्रोक्तम् अद्रेश्यत्वादिगुण-युक्तं प्रधानम्।दृष्टान्ते अचेतनोपादानात् । दृष्टान्ताश्चात्र – १ ऊर्णनाभिः २ पृथिवी ३ पुरुषः
वे.- ऊर्णनाभिः पुरुषः च चेतनौ न तु अचेतनौ।
पू.- केवलस्य चेतनस्य सूत्रयोनित्वं केशलोमयोनित्वं वा न सम्भवति। चेतनाधिष्ठितनमचेतनमूर्णनाभिशरीरं सूत्रस्य योनि:।चेतनाधिष्ठितमचेतनं पुरुषशरीरं केशलोम्नां योनि:।
वे.- अयुक्तमिदम्।न हि दृष्टान्तदार्ष्टान्तिकयो: अत्यन्तं साम्यं नियमेनापेक्ष्यते।अपि च स्थूला: पृथिव्यादय: दृषटान्ता: इति दार्ष्टान्तिकोऽपि स्थूल: न स्वीक्रियते।तस्मादव्यक्तादिगुणक: भूतयोनि: प्रधानं नास्ति।

रूपोपन्यासाच्च ।१.२.२३
वे.-अक्षरात् परत: पर: इत्यस्यानन्तरम् एतस्माज्जायते प्राण: इति प्राणादि-पृथिव्यन्तानां तत्त्वानां सर्ग उक्त:।तच्च परमेश्वरस्यैव शक्यं,
न शारीरस्य न वा प्रधानस्य।अतोऽत्र निर्दिष्ट: भूतयोनि: परमेश्वर एव।
पू.- अग्निर्मूर्धा एष सर्वभूतान्तरात्मा इति रूपोपन्यासो दृश्यते ।तत्र एष: इति पदेन भूतयोनि: एव परामृश्यते इति कथं स्वीकरणीयम्?
वे.-प्रकरणात्।भूतयोनिं प्रकृत्य एतस्मात् सर्वभूतान्तरात्मा इति वचनमुक्तम् ।अत: एष: इति पदेन प्रकृतानुकर्षणात् भूतयोनिरेव ग्राह्य:।
पू.- अदृश्यत्वादिगुणा: भूतयोनेरुक्ता:।तस्यैव रूपोपन्यास: कृत:- अग्निर्मूर्धेति।रूपोपन्यासश्च अदृश्यत्वादिगुणोपन्यासश्चेति उभयं न सङ्गच्छते।
वे.- नात्र विग्रहवत्त्वस्य विवक्षास्ति।सर्वात्मतवविवक्षयेदमुच्यते अतो न दोष:।
पू. – ननु रूपोपन्यासपरं वचनमिति कृत्वा यद्वचनं भवतोपदिष्टं तद् रूपोपन्यासपरं नास्त्येव।जायमानत्वेन तस्योपन्यासात्।‘एतस्माज्जायते प्राण:’ इति वचनात्।इतोऽग्रे अतश्च सर्वा ओषधयो रसाश्च इत्येवमन्तं जायमानत्वेनैव निर्दिष्टम्।
वे.- अस्मिन् पक्षे पुरुष एवेदं विश्वं कर्म इत्यादि: सर्वरूपोपन्यास: परमेश्वरप्रतिपत्तिहेतु: इति सूत्रं व्याख्येयम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये द्वितीय: पाद: